________________ एगावाइ 35 - अभिधानराजेन्द्रः - भाग 3 एगावाइ लेति। औप०। एकावली विचित्रमणिकृता एकसरिकेति। शा०१०। "एकावलिकंठलइयवच्छा" एकावली आभरणविणेच०साकण्ठे ग्रीवायां लगिता विलम्बिता सती वक्षसि उरसि वर्तते येषां तेतथेति। सम० / "एगावलिं पिणद्धेत्ति" प्रश्न 1 सं०४ द्वा०। एगावलीपदिभत्ति-न० (एकावलीप्रविभक्ति) नाट्यभेदे, राज०। एगावाई(न)-पुं० (एकवादिन) एकएवात्मादिरर्थइत्येवं वदतीत्येकवादी दीर्घत्वं च प्राकृत्वात्। अक्रियावादिभेदे, उक्तं चैतन्मतानुसारिभिः "एक एव हि भूतात्मा, भूते भूते व्यवस्थितः / एकधा बहुधा चैव, दृश्यते जलचन्द्रवदिति" ||1|| अपरस्तवा-त्मैवास्ति नान्यदिति प्रतिपन्नस्तदुक्तं "पुरुष एवेदं सर्वं यद्भूतं यच्च भाव्यमुतामृतत्वस्येशानो यदन्नेनातिरोहति"||१| यदेजति यन्नेजति यरे यदन्तिके यदन्तरसय सर्वस्य यत्सर्वस्यास्य बाह्यत इति / तथा "नित्यशानविवर्तोऽयं क्षितितेजोजलादिकः। आत्मा तदात्मकश्चेति संगिरन्तेपरेपुन' रति // 1 // शब्दाद्वैतवादे तु सर्व शब्दात्मकमिदमित्येकत्वं प्रतिपन्नः / उक्त "अनादिनिधनं ब्रह्म शब्दत्वं यदक्षरम्। विवर्त्ततेऽर्थभावेन प्रक्रिया जगतो यत" इति / / 1 / / अथवा सामान्यवादी सर्वमेवैकं प्रपिपद्यते / सामान्यस्यैकत्वादित्येवमनेकधैकवादे अक्रियावादिता चास्य सद्भूतस्यापि तदन्यस्य नास्तीति प्रतिपादनात् / आत्माद्वैतपुरुषाद्वैतशब्दाद्वैतादीनां युक्तिं भरघटमानानामनस्तित्वाभ्युप-गमाच। स्था०९ ठा० तथा च। एकात्माद्वैतवादमुद्देशार्थाधिकार प्राप्तं पूर्व पक्षयितुमाह। जहा य पुढकी थूमे, एगे नाणाहिदीसइ। एवं भो कसिणो लोए, विन्नू नाणाइ दीसह // 9l दृष्टान्तबलेनैद्रार्थस्वरूपावगतेः पूर्व दृष्टान्तोपन्यासः / यथेयुपदर्शने चशब्दोऽपिशब्दाः स च भिन्नक्रम एके इर्थेस्यानन्तरं द्रष्टव्यः। पृथिव्षेव स्तूपः पृथिव्या वास्तूपः पृथिवीसंघातावयवी। सचैकोऽपि यता नानारूपः सरित्समुद्रपर्वतनगरसन्निवेशाद्याधारतया विचित्रो दृश्यते / निम्नोन्नतमृदुकठिनरक्तपीतादिभेदेन वा दृश्यते न च तस्य पृथिवीतत्त्वस्यैतावता भेदेन भेदो भवत्येवमुक्तरीत्या भो इत्यादिपरामन्त्रणं कृत्स्नोऽपिलोकश्चेतनाचेतनरूप एको विद्वान् वर्तते। इतमत्र हृदयम्। एक एव ह्यात्मा विद्वान ज्ञानपिण्डः पृथिव्याद्याकादस्तया नाना दृश्यतेन च तस्यात्मन एतावता-ऽऽत्मतत्वभेदो भवति तथाचोक्तमेक एव हि भूतात्मेत्यादि। अस्योत्तरदानायाह। एवमेगेति जप्पंति, मंदा आरंभणिस्सिआ। एगे किच्चा सयं पावं, तिवं दुक्खं नियच्छइ // 10 // एवमित्यनन्तरोक्तात्माद्वैतवादोपदर्शनम् / एके केचन पुरुषाः कारणवादिनो जल्पन्ति प्रतिपादयन्ति किंभूतास्ते इत्याह मन्दा जमाः सम्यक्परिज्ञानविकलाः / मन्दत्वं चैषां युक्ति विकलात्माऽद्वैतपक्षसमाश्रयणात्। तथाहि-यद्येक एवात्मा स्यान्नात्मबहुत्वं ततो ये सत्वाः प्राणिनः कृषीबलादय एके केचन आरम्भे प्राण्युपमर्दकारिणि व्यापारे निःश्रिता आसक्ताः संबद्धा अध्युपपन्नास्तेच संरम्भसमारम्भैः कृत्वोपादाय स्वयमात्मना पापमशुभप्रकृतिरूपमसातोदयफलं तीव्र दुःखं तदनुभवस्थानं वा नरकादिकं (नियच्छतीति) आर्षत्वादहुवचनार्थे एकवचन-मकारि। ततश्चायमों निश्चयेन यच्छन्त्यवश्यतया गच्छन्ति प्राप्नुवन्ति त एवारम्भासक्ता नान्य इत्येतन्न स्यादपि चाशुभे कर्मणि | कृते सर्वेषां शुभानुष्ठायिनामपि तीव्रदुःखाभिसंबन्धः स्यादेकत्वादात्मन इतिन चैतदेवं दृश्यते। तथाहि य एव कश्विदसमजसकारी स एव लोके तदनुरूपा विडम्बनाः समनुभवन्नुपलभ्यते नान्य इति। तथा सर्वगतत्वे आत्मनो बन्धमोक्षाद्यभावस्तथा प्रतिपाद्यप्रतिपादकविवेकाभावच्छास्त्रप्रणयनाभावश्च स्यादिति / एतदर्थसंवादित्वात्प्राक्तन्येव नियुक्तिकृद्गाथाऽत्र व्याख्यायते / तद्यथा पञ्चानां पृथिव्यादीनां भूतानामेकत्र कायाकारपरिणतानां चैतन्यमुपलभ्यते / यदि पुनरेक एवात्मा व्यापी स्यात्तदा घटादिष्वपि चैतन्योपलब्धिः स्यान्न चैवं तस्मान्नैक आत्मा / भूतानां चान्योन्यगुणत्वं न स्यादेकस्मादात्मनोऽभिन्नत्वात् / तथा पञ्चेन्द्रियस्थानां पञ्चेन्द्रियाश्रितानां ज्ञानानां प्रवृत्तौ सत्यामन्येन ज्ञात्वा विदितमन्यो न जानातीत्येतदपिन न्याद्यद्येक एवात्मास्यादिति।सूत्र०१श्रु०१०। (विस्तरः पुंडरीयशब्दे दर्शयिष्यते) तथाच विशेषावश्यके आत्मनो बहुभेदत्वमधिकृत्य। संसारीयस्थावर-तसाइभेयं मुणे जीवं / / तथा संसारीतरस्थावरत्रसादिभेदंसंसारिणश्चेतरे सिद्धाः आदि-शब्दाच सूक्ष्मबादरपर्याप्तादिभेदपरिग्रह इति / अत्र वेदान्तवादी प्राह / ननु बहुभेदत्वमात्मनोऽसिद्धं तस्य सर्वत्रैकत्वात् / तदुक्तम् / एक एव हि भूतात्मा, भूते भूते प्रतिष्ठितः। एकधा बहुधा चैव, दृश्यते जलचन्द्रवत्। "यथा विशुद्धमाकाशंतिमिरोपप्लुतो जनः / संकीर्णमिवमात्राभिभिन्नाभिरभिमन्यते / / "तथेदममलं ब्रह्म, निर्विकल्पमविद्यया। कलुषत्वमिवापन्न, भेदरूपं प्रकाशते / ऊर्द्धमूलमधः शाखमश्वत्थं प्राहुरव्ययम्। छन्दांसि यस्यपानि, यस्तं वेद स वेदवित्। पुरुष एवेदं सर्वे यद्भूतं यच्च भाव्यम् उतामृतत्वस्येशानो यदन्नेनातिरोहति यदेजति यन्नेजति यह्रे यदन्तिके यदन्तरस्य सर्वस्य यत्सर्वस्यास्यबाह्यत इत्यादि" इत्येतदेव पूर्वार्द्धनोत्क्षिप्योत्तरार्द्धन परिहरन्नाह। जह पुण सो एगो व्विय, हवेज्ज वोमं व सवपिंडेसु / गोयम ! तदेगलिंग, पिंडेसु तहा न जीवो य॥ परः प्राह यदि पुनर्दर्शितन्यायेन स आत्मा सर्वेष्वपि नारकतिर्यगनरामरपिण्डेषु व्योमवदेक एव भवेन्न तु संसारीतरादिभेदभिन्नस्तर्हि किं नाम दूषणं स्यादेवमुक्ते भगवानाह / गौतम ! तह्योम सर्वेष्वमि पिण्डेषु मूर्तिविशेषेषु स्थितम् एकलिङ्गवैसदृश्याभावादेकरूप-मेवेति युक्तं तस्यैकत्वं जीवस्त्वेवं विचार्यत्वेन प्रस्तुतोनतथा नैकलिङ्गः सर्वत्र दृश्यते प्रतिपिण्डं तस्य विलक्षणत्वाल्लक्षण- भेदेन च लक्ष्यभेदादिति न तस्यैकत्वमिति॥ अत्र प्रयोगमाह। नाणा जीवा कुंभा-दओ व विलक्खणाइभेयाओ। तुहदुक्खबंधमोक्खा-भावा य जओ तदेगत्ते // नानारूपा भुवि जीवाः परस्परं भेदभाज इत्यर्थः लक्षणादि-भेदादिति हेतुः कुम्भादय इवेति दृष्टान्तः। यच न भिन्नं तस्य न लक्षणभेदो यथा नभस इति। सुखदुःखबन्धमोक्षाभावश्व य स्मात्तदेकत्वे तस्माद्भिन्ना एव सर्वेऽपिजीवा इति। कथं पुनस्तेषां प्रतिपिण्डलक्षणभेद इत्याह॥ जेणोवओडलिंगो, जीवो मिन्नो य सो पइसरीरं / उवओगोकरिसाव, गरिसोउत्तेण तेणंतो।। येन ज्ञानदर्शनोपयोगलक्षणोऽसौ जीवः स चोपयोगः प्रतिशरी