________________ किह 563 - अभिधानराजेन्द्रः - भाग 3 कीयक (ग) ड "किह जुज्झामो तुमं भूमिए" आ०म०प्र० / प्रा० आचा०। कीकस पुं०(कीकश) कीति कशति। कश-शब्दे, अच् / कृमिजन्तुभेदे, अस्थिन, न०। कठिने, त्रि०ा वाच० 0 / / कीड पुं० (कीट) कीट अच् / कृमिभ्यः स्थूले क्षुद्रजन्तुभेदे, स्वार्थे के पूर्वोक्तार्थे, मागधजातो, कठिनेच। त्रि०ावाच०। चतुरिन्द्रियजीवविशेषे, उत्त०२अ०। जी०। "तओ कीडपयंगो य, तओ कुंथुपिपीलिया।" उत्त०३अ01 अनु०। कीडयन० (कीटज) कीटाद्जाते सूत्रभेदे,यत्तथाविधकीटेभ्यो लालात्मकं प्रभवतित, यथा पट्टसूत्रम्। उत्त०२६ अ०।"कीडयं पंचविहं पण्णत्तं। तं जहा-पट्टे मलए अंसुए चीणंसुए किमिरागे" अनु०। (पट्टादीनां व्याख्या स्वस्वस्थाने द्रष्टव्या) कीडाविया स्त्री० (क्रीडापिका)। क्रीडनधात्र्याम्, झा०१ श्रु०१६ अ०। कीडिया स्त्री० (कीटिका) पिपीलिकायाम् "ताहे संतो तं सा हरिता कीडियाओ वजतुंडियाओ विउव्वए'' आ०म०द्वि०। कीणास पुं० (कीनाश) कुत्सितं नाशयति यमे, वानरे च / पुं० क्षुद्रे, वाच० / को। कीय त्रि० (क्रीत) क्री-कर्मणि क्तः / क्रियते स्मार्थदानेन गृह्यते स्मेति क्रीतम् / पञ्चा०१३ विव० / क्रये, न०। सूत्र०१ श्रु०६अ०। मूल्येन गृहीते, त्रि०।आचा०१ श्रु०८ अ०२ उ०। उत्त०। उद्गमदोषभेदे, आचा०१ श्रु०२ अ०५ उ०। "उद्देसियं कीयं आहटुदिजमाणं" भुञ्जमाने सबले, स०३१ सम० / द्रव्येण भावेन वा क्रीतं स्वीकृतं यत्तत् क्रीतमिति / यतोऽभ्यधायि-"दव्वाइएहि किणणं, साहूणं द्वाएँ कीयं तु'" स्था०६ ठा० / "ततो यं रायपिडं कीअं" आव०४ अ०। स्था०। *कीच पुं० युधिष्ठिरसमकालिके विराटनगराधिपतौ, "नवमं दूयं विराडनगरं, तत्थ णं तुमं कीयं रायं भाउयसयसमग करयल० जाव समोसरह" / ज्ञा०१ श्रु०१६ अ०। कीयक(ग)डत्रि० (क्रीतकृत) क्रीतेन क्रयेण कृतं निष्पादितं क्रीतकृतम्। पिं०। क्रयणं क्रीतं, भावे निष्ठाप्रत्ययः। साध्वादिनिमि--तमिति गम्यते, तेन कृतं निर्वर्तितं क्रयक्रीतम् / दश०३ अ० 1 क्रीते, अष्टमोद्गमदोषविशिष्ट, पिं० साध्वर्थं मूल्येन गृहीते, बृ०१उ०। तद्भेदादिवक्तव्यता चैवम्। अथ क्रीतद्वारमाहकीयगडं पि य दुविहं, दवे भावे य दुविहमेक्के कं / आयकीय परकीयं, परदवं तिविह चित्ताई // 330 / / क्रयणं क्रीतं, तेन कृतं निष्पादितम; क्रीतकृतभित्यर्थः। तदपि, आस्तां प्रादुष्करणमित्यपिशब्दार्थः / द्विविधं द्विप्रकारम्। तद्यथा (दव्ये भावे य) अत्र तृतीयार्थे सप्तमी / ततोऽयमर्थः-द्रव्येण क्रीतं, भावेन च क्रीतमित्यर्थः / पुनरप्येकैकं द्रव्यक्रीतंभावक्रीतं च प्रत्येक द्विधा। तद्यथाआत्मक्रीत, परक्रीतंच। आत्मद्रव्यक्रीतमात्मभावक्रीतंच! परद्रव्यक्रीतं, परभावक्रीत चेत्यर्थः / तत्राऽऽत्मना स्वयमेव द्रव्येणोज्जयन्तभगवत्प्रतिमाशेषाऽऽदिरूपेण प्रदानतः परमावर्जयन् भक्तादि गृह्यते तदात्मद्रव्यक्रीतम् / यत्पुनरात्मना स्वयमेव भक्ताद्यर्थ धर्मकथादिना परमावर्त्य भक्तकादिततो गृह्यते तत् आत्मभावक्रीतंतत्परद्रव्यक्रीतम् / उक्तं च परद्रव्यक्रीतम्-यत्पुनः परेण साध्वर्थ निजविज्ञानप्रदर्शनेन धर्मकथादिना वा परमार्थतो गृहीतं तत्परभावक्रीतम्, तत्र विचित्रा गतिरिति प्रथमतः परद्रव्यक्रीतस्य स्वरूपमाह-परद्रव्यं गृहस्थसत्कं द्रव्यं त्रिविधम्। तद्यथा चित्तादि। सचित्तमचित्तं वा मिश्रं वा। तेन परेण साध्वर्थ यत् क्रीतं तत् परद्रव्यक्रीतम्, उक्तं वा परद्रव्यक्रीतम्। संप्रति शेष भेदत्रयं सामान्यतः कथयतिआयकियं पुण दुविहं, दवे भावे य चुम्नदव्वाइ। भावम्मि परस्सट्ठा, अहवा वी अप्पणा चेव // 331 / / आत्मक्रीतं पुनर्द्विविधम्। तद्यथा (दव्वे भावे यत्ति) अत्रापि तृतीयार्थे सप्तमी। ततोऽयमर्थः आत्मनाऽपि क्रीतं द्विधा / तद्यथा द्रव्येण, भावेन च। तत्र द्रव्येण चूर्णादिना वक्ष्यमाणेन, भावेन पुनः परस्य साधोराय यन्निजविज्ञानप्रदर्शनादिना पाय॑ते तत् भावक्रीतम्, परभावक्रीतमित्यर्थः / अथवा भावेन तदात्मना स्वयमेवाऽऽहारार्थ धर्मकथादिना परमावर्ण्य ततो गृह्यते तद् भावक्रीतम्, आत्मक्रीतमित्यर्थः / तदेयं सामान्यतस्त्रयोऽपि भेदा उक्ताः। संप्रत्यात्मद्रव्यक्रीतं सप्रपञ्च विवरीषुरिदमाहनिम्मल्लगंधगुलिया-वनयपोयाइ आयकयदवे / गेलने उड्डाहो, पउणे चाडगारि अहिगरणं // 33 // निर्माल्यं तीर्थादिगतसप्रभावप्रतिमाशेषा, गन्धाः पटवासादयः, गुलिका मुखप्रक्षेपकस्वरूपपरावर्तादिकारिका गुडिका, वर्णकश्चिन्तनम्, पोतानि लघुबालकयोग्यानिवस्त्रखण्डानि, आदिशब्दात्कण्डकादिपरिग्रहः / एतानि कार्ये कारणोपचारादात्मद्रव्यक्रीतानि। किमुक्तं भवति ? निर्माल्यादिप्रदानेन परमावयं यत्तयो भक्तादि गृह्यते तदात्मद्रव्यक्रीतमिति / अत्र दोषमाह (गेलन्ने इत्यादि) निर्माल्यप्रदानानन्तरं यदि कथमपि दैवयोगतो ग्लानो भवति तर्हि प्रवचनस्योड्डाहः साधुनाऽहं ग्लानीकृत इत्यादिप्रजल्पनतः शासनस्य मालिन्योपपत्तिः। अथ कथमपि प्रगुणो नीरोगो भवति तर्हि स सर्वदा सर्वजनसमक्षं चाटुकारी भवति यथाऽहं साधुना प्रगुणीकृत इति, अतिशयी चासौ साधुः सकलज्ञातव्यकुशलः परिहततिमिर इत्यादिसमक्षं परोक्षंवा सदैव प्रशंसा करोति तथा च सत्यधिकरणं भूयस्यधिकरणप्रवृत्तिः तादृशीं हि तस्य प्रशंसामाकाऽन्यः समागत्य तं साधुं निर्माल्यगन्धादि याचते, ततस्तत्प्रार्थनापरवशोऽधिकरणमपि समारभते। संप्रति परभावक्रीतं विवृण्वन्नाह - वइयाएँ मंखमाई, परभावकीयं तु संजयट्ठाए। उप्पायणा निमंतण-कीयगडं अभिहडे ठविए॥३३३॥ व्रजिकंलघुगोकुलम्, उपलक्षणमेतत्, तेन पत्तनादिपरिग्रहः। तत्र व्रजिकादौ मखादिः, मङ्खः केदारकः, यः पटमुपदर्यलोक्मावर्जयति / आदिशब्दात् तथाविधान्यपरिग्रहः / भक्तिवशात् संयतार्थ यत् घृतदुग्धादेरुत्पादनं करोति, कृत्वा च निमन्त्रयति तत् परभावक्रीतम्, परेण भलादिना संयतार्थ भावेन स्वपटप्रदर्शनादिरूपेण क्रीतं तत् परभावक्रीतम् / इत्थं