________________ कीयक(ग)ड 564 - अभिधानराजेन्द्रः - भाग 3 कीयक(ग)ड भूते च परभावक्रीते त्रयो दोषाः एकं तावत् क्रीतकृतं, द्वितीयमन्यस्माद् गृहादानीतमित्यभ्याहृतम्, आनीय चैकत्र साधुनिमित्तं स्थाप्यत इति स्थापितम्। तस्मात्तादृशमपि साधूनां न कल्पते। एतदेव गाथाद्वयेन स्पष्टयन्नाहसागारि मंख छंदण, पडिसेहो पुच्छऽवहु गए वासे। कयरिं दिसिं गमिस्सह, अमुई तह संथवं कुणइ॥३३४|| दिजंते पडिसेहो, कज्जे पच्छं निमंतण जईणं / पुव्वगओ आगएसु, संछुहई एगगेहम्मि॥६३५।। शालिग्रामो नाम ग्रामः, तत्र देवशर्माऽभिधानो मङ्कः, तस्य च गृहैकदेशे कदाचित्के चित्साधवो वर्षाकालमवस्थिताः / स च मङ्खस्तेषां साधूनामनुष्ठानमरक्तद्विष्टतां चोपलभ्यातीव भक्तिपरीतो बभूव / प्रतिदिवसं च भक्तादिना निमन्त्रयति / साधवश्च शय्यातरपिण्डोऽयमिति प्रतिषेधन्ति / ततः स चिन्तयामासयथैते मम गृहे भक्तादि न गृहन्ति, यदि पुनरन्यत्र दापयिष्यामि तथाऽपि न गृहीष्यन्ति। तस्माद् वर्षाकालानन्तरं यत्रामी गमिष्यन्ति तत्राग्रे गत्वा कथमप्येतेभ्यो ददामीति / ततः स्तोकशेषे वर्षाकाले साधवस्तेन पपृच्छिरे 'यथा भगवन् ! वर्षाकालानन्तरं कस्यां दिशि गन्तव्यम्'? ते च यथाभावं कथयामासुर्यथाऽमुकस्यां दिशि। ततः स तस्यामेव दिशि क्वचित् गोकुले गन्धपटमुपदी ववनकौशलेन लोकमावर्जितवान् / लोकश्च तस्मै घृतदुग्धादिकं दातुं प्रावर्तिष्ट / ततः स बभाण, यदा याचिष्ये तदा दातव्यमिति। साधवश्च वर्षाकालानन्तरं यथाविहारक्रमं तत्राऽऽजग्मुः। तेन चात्मज्ञनमापयता पूर्वप्रतिषिद्धंघृतदुग्धादिकं प्रतिगृहं याचित्वा एकत्र च गृहे संमील्य मुक्तम्, ततः साधवो निमन्त्रिताः, तैश्च यथाशक्ति छद्मस्थदृष्ट्या परिभावितं, परंन लक्षितं, ततः शुद्धमिति कृत्वा गृहीतम्। नच तेषां तथा गृण्हतां कश्चिद्दोषः, यथाशक्तिपरिभावनेन भगवदाज्ञाया आराधितत्वात् / यदि पुनरित्थंभूतं कथमपि ज्ञायते, तर्हि नियमतः परिहर्तव्यम्, क्रीतकृताभ्याहृतप्यापनारूपदोषत्रयसद्भावादिति / सूत्रं सुगम, नवरं सागारिकः शय्यातरः, संस्तवः परिचयः निजपटप्रदर्शनेन लोकावर्जनमिति तात्पर्यार्थः। तदेवमुक्तं परभावक्रीतम्। संप्रत्यात्मभावक्रीतं स्पष्टयन्नाह - धम्मकहवायखमणे, निमित्तमायावणे सुयट्ठाणे। जाईकुलगणकम्मे, सिप्पम्मि य भावकीयं तु // 336 / / धर्मकथादिषु भावक्रीतं भवति। इयमत्र भावनायेन परिचि तावर्जनार्थ धर्मकथावाद, क्षपणं षष्ठाष्टमादिरूपंतपो, निमित्तमाता-पनां वा करोति / यद्वाश्रुतस्थानमाचार्योऽहमित्यादिकं कथयति। यदि वा जातिं कुलं गणं कर्म शिल्पं वा परेभ्यः प्रकटयति। इत्थं च परमावर्जयन् ततो भक्तादि गृण्हाति तदाऽऽत्मभावक्रीतम् / यदा च दुःखक्षयार्थं च धर्मकथादिकं यथायोगं करोति तदा स प्रवचनप्रभावकतया महानिर्जराभाक् भवति / उक्तं च पावयणी धम्मकहावाई नेमित्तिओ तवस्सी य / विज्जासिद्धो य कई, अट्टेव पभावगा भणिया // 1 // " संप्रति धर्मकथारूपं प्रथमं द्वारं प्रपञ्चयितुमाहधम्मकहाअक्खित्ते, धम्मकहाओट्ठियाण वा गिण्हे। काहिंति साहवो चिय, तुमं व कहि पुच्छिए तुसिणी॥३३७॥ / आहाराद्यर्थ धर्मकथा कथयता यदा ते श्रोतारो धर्मकथायाः सम्यगाक्षिप्ता भवन्ति तदा तेषां पार्श्वे यत् याचते तर्हि तदा प्रकर्षमागताः सन्तोऽभ्यर्थिता न विमुख तिष्ठन्ति / यद्वाधर्मकथा त उत्थितानां सतां तेषां पार्थे यद् गृण्हाति तदात्मभावक्रीतम् / आत्मना स्वयमेव भावेन धर्मकथनरूपेण क्रीतमात्मभावक्रीतमिति। यद्वाधर्मकथाकथकः कोऽपि प्रसिद्धो वर्तते, तदनुरूपाकारश्च विवक्षितः / ततश्च श्रावकाः पृच्छन्ति यः कथी यो धर्मकथाकथकः श्रूयते स किं त्वमिति ? ततः स भक्तादिलोभादेवं वक्ति, यथासाधव एव प्रायो धर्मकथां कथयन्ति, नान्ये / यदि वा तूष्णीं मौनेनावतिष्ठते। ततस्ते श्रावका मौनात् यथा स एवायम् केवलं गम्भीरत्वादात्मानं न साक्षागचसा प्रकाशयतीति; ततः प्रभूततरं तस्मै प्रयच्छन्ति। तच तेभ्यः प्रभूततरं लभ्यमानमात्मभावक्रीत आत्मना स्वयमेव, भावेन स्वयमसावपि कथकः 'सोऽहं कथकः' इति ज्ञापनालक्षणेन, क्रीतमिति कृत्वा। अथवाकिं वा कहेज छारा, दगसोयरिआ य अहवऽगारस्था। किं छगलगगलवलया, मुंडकुडंवी व किं कहए ?||338|| यो जगति निपुणो धर्मकथाकथकः श्रूयते स किं त्वमिति पृष्टे, एवमुतरमाह किं कथाः क्षारागुण्डितवपुषः, कथा येषु नैव, ते कथयन्ति, किं दकं जलं तस्य निरन्तरं विनाशकाः, तथा शौकरिका इव पापर्द्धिकारिण इव दकशौकरिकाः सांख्याः, किंवा अगारस्थाः गृहस्थाः शास्त्राध्ययनविकलाः / यद्वाछगलकस्य पशोर्गलं ग्रीवां वलयन्ति मोटयन्ति ते छगलकगलवालकाः, यदि मुण्डाः सन्तो ये कुटुम्बिनः सौद्धोदनीयाः, ते कथयेयुः? नैव ते कथयन्ति, किं तु यतय एव / तत एवमुक्ते श्रावकाश्चिन्तयन्तिनूनं स एवायं धर्मकथाकथकः इत्यादि / तदेवं शेष द्रष्टव्यम्। तदेवं धर्मकथाद्वारं व्याख्याय शेषाण्यतिदेशेन व्याख्यातिएमेव वाइखमए, निमित्तमायावगम्मि य विभासा। सुयठाणं गणिमाई,अहवा वायणायरियमाई // 339 / / यथा धर्मकथके विभाषा भावना कृता, एवमेव अनेनैव प्रकारेण वादिनि क्षपके निमित्तज्ञे आतापके च विभाषा कर्तव्या। यथा वादेनाक्षिप्त याचते, यद्वाये वादिनः श्रूयन्ते ते किं यूयमिति प्रश्ने प्रायो यतय एव वादिनो भवन्तीति ब्रूते, यद्वामीनेनावतिष्ठते, यद्वाकिं भस्मावगुण्ठितवपुषः, किं वा दकशौकरिकाः। यद्वा, धिग्जातीयाः यद्वा सौद्धोदनीया वादिनमवादं दद्युः नैव ते ददति, किं तु यतय एव, एवमुक्ते ते एवं परिजानते 'यथा त एवामी', ततो विशिष्टमाहारादिकं तस्मै वितरन्ति, तच तथा लभ्यमानमात्मभावक्रीतमवसेयम् / तथा श्रुतस्थानं गण्यादि, तत्र गणित्वमाचार्यत्वम, आदिशब्दादुपाध्यायत्वादिपरिग्रहः। यद्वा वाचनाचार्यत्वम्, आदिशब्दात् प्रवर्तकत्वादिपरिग्रहः / तत्र भक्ताद्यर्थमाचार्या वयमुपाध्याया वयमित्यादि जनेभ्यः प्रकाशयति, येन जना आचार्यत्वादिकमवगम्य प्रभूततरं वितरन्ति / यद्वा ये आचार्या महाविद्वांसः श्रूयन्ते, किं यूयमित्यादि तथैव भावनीयम्। जात्यादिकं त्वतदर्थ कथयति, येन समानं जात्यादिकम्, उत्कृष्ट वा शिल्पादि ज्ञात्वा प्रभूतं प्रयच्छन्ति, तच्च तथा प्रभूतं लभ्यमानमात्मभाव क्रीतम् / तदेवमुक्तं क्रीतद्वारम् / पिं०। प्रव० / ग० / ध० /