________________ किरियावाइ (ण) ५५६-अभिधानराजेन्द्रः भाग-३ किरियावाइ (ण) णे चरित्ते य / धन्ना आयकहाए, गुरुकुलवासं ण मुंचंति" / / 1 / / के एवं कुर्युरिति दर्शयति- ये कर्मपरिणतिभनविचिन्त्य, "माणुस्सखेत्तजा" इत्यादिदुर्लभां च सद्धर्मावाप्ति सद्धर्म वा श्रुतचारित्रख्यं क्षान्त्यादिकं दशविधं साधुधर्म वाऽनुविचिन्त्य पर्यालोच्य ज्ञात्वा वा तमेव धर्म यथानुष्ठानतः प्रादुष्कुर्यु : प्रकटयेयुः, ते गुरुकुलवासं यावजीवमासेवन्त इति / यदि वा ये ज्योतिर्भूितमाचार्य सततमासेवन्ति, तथा आगमज्ञा धर्ममनुविचिन्त्य लोकं पञ्चास्तिकायात्मकं चतुर्दशरज्ज्वात्मकं वा प्रादुष्कुर्युरिति क्रिया // 16 // किश्चान्यत्अत्ताण जो जाणति जो य लोगं, गई च जो जाणइ ऽणागई च। नो सासयं जाण असासयं च, जातिं च मरणं च जणोववायं // 20 // यो ह्यात्मानं परलोकयायिनं शरीराव्यतिरिक्तं सुखदुःखधारं जानाति यश्चात्महितेषु प्रवर्तते स आत्मज्ञो भवति / येन चात्मा यथावस्थितस्वरूपोऽहंप्रत्ययग्रह्योऽभिज्ञातो भवति तैनेवायं सर्वोऽपि लोकः प्रवृत्तिनिवृत्तिरूपो विदितो भवति, स एव चात्ज्ञोऽस्तीत्यादिक्रियावाद भाषितुमर्हतीति द्वितीयवृत्तान्तस्य क्रिया। यश्च लोकं चराचरं वैशाखस्थानस्थकटिस्थकरयुग्मपुरुषाकारं, चशब्दादलोकं चानन्ताकाशास्तिकायमानं जानाति,यश्च जीवानामागतिमागमनं, कुतः समागता नारकास्तिर्यञ्चो मनुष्या देवाः? कैर्वा कर्मभिरिकादित्वेनोत्पद्यन्त इत्येवं यो जानाति, तथाऽनागतिं चाऽनागमनं च, कुत्र गतानां नागमनं भवति / चकारात्तद्गमनोपायं च सम्यग्दर्शनज्ञान-चारित्रात्मकं यो जानाति, तत्रानागतिः सिद्धिरशेषकर्मच्युतिरूपा लोकाग्राऽऽकाशदेशस्थानरूपा वा ग्राह्या, सा च सादिरपर्यवसाना। यश्च शाश्वतं नित्वं सर्ववस्तुजातं द्रव्यास्तिकनयाश्रयादशाश्वतं वाऽनित्यं प्रतिक्षणविनाशरूपं पर्यायनयाश्रयणात्, चकारान्नित्यानित्यं चोभयाकारं सर्वमपि वस्तुजातं यो जानाति / तथाहि आगमः- “णेरइया दव्वट्ठयाए सासया, भावट्ठयाए असासया" / एवमन्येऽपि तिर्यगादयो द्रष्टव्याः। अथवा निर्वाणं शाश्वतं, संसारोऽशाश्वतः, तद्गतानां संसारिणां स्वकृतकर्मवशगानामितश्चेतश्व गमनादिति। तथा जातिमुत्पत्तिं नारकतिर्यड्मनुष्यामरजन्मलक्षणां च, मरणं चाऽऽयुष्कक्षय-लक्षणम् / तथा जायन्त इति जनाः सत्त्वाः, तेषामुपपातं जानाति; स च नारकदेवयोर्भवतीति। अत्र च जन्मचिन्तायामसुमतामुत्पत्तिस्थानं योनिर्भणनीया; सा च सचित्ताऽचित्ता मिश्रा च / तथा शीता उष्णा मिश्रा च / तथा संवृता विवृता मिश्रा चेत्येवं / सप्तविंशतिविधेति / मरणं पुनस्तिर्यड्मनुष्ययोश्च्यवनं ज्योतिष्कवैमानिकानाम्, उद्वर्तन भवनपतिव्यन्तरनारकाणामिति // 20 // किनअहो विसत्ताण विउट्टणंच, जो आसवं जाणति संवरं च। दुक्खं च जो जाणति निजरंच, सो मासिउमरिहइ किरियवाद।।२१।। सत्त्वानां स्वकृतकर्मफलभुजामधस्तान्नारकादौ दुष्कृतकर्मकारिणां विविधां विरूपां वा कुट्टनां जातिजरामरणरोगशोकवृत्तां शरीरपीडा, चशब्दात्तदभावोपायं यो जानाति। इदमुक्तं भवतिसर्वार्थसिद्धादारतोऽधः सप्तमी नरकभुवं यावदसुमन्तः सकर्माणो विवर्त्तन्ते; तत्रापि ये गुरुतरकर्माणस्तेऽप्रतिष्ठाननरकयायिनो भवन्तीत्येवं यो जानीते। तथा आश्रवत्यष्टप्रकारकं कर्म येनस आश्रवः; सच प्राणातिपारूपो, रागद्वेपो वा, मिथ्यादर्शनादिको वेति तम् / तथा संवरणमाश्रवनिरोरूपं यावदशेषयोगनिरोधस्वभावं, चकारात्पुण्यपापे च यो जानीते / तथा दुःखमसातोदरूपं, तत्कारणं च यो जानाति, सुखं च तद्विपर्ययभूतं यो जानाति तपसा निर्जरां च / इदमुक्तं भवति यः कर्मबन्धहेतून तद्विपर्यासहेतूंश्व तुल्यतया जानाति / तथाहि-"यथाप्रकारा यावन्तः, संसारावेशहेतवः / तावन्तस्तद्विपर्यासाः निर्वाणावेशहेतवः" / / 1 / / स एव परमार्थतो भाषितुं वक्तुमर्हति / किं तत् ? इत्याह-क्रियायादम् अस्ति जीवोऽस्ति पुण्यमस्ति च पूर्वाचरितस्य कर्मणः फलमित्येवं वादमिति। तथाहि-जीवाजीवाश्रवसंवरबन्धपुण्यपापनिर्जरामोक्षरूपा नवापि पदार्थाः श्लोकगयेनोपात्ताः / तत्र य आत्मानं जानातीत्यनेन जीवापदार्थो, लोकमित्यनेनाजीवपदार्थः, तथा गत्या गतिः शाश्वतेत्यादिनानयोरेवस्वभावोपदर्शनं कृतम् / तथा आश्रवसंवरौ स्वरूपेणैवोपात्तौ / दुःखमित्यनेन तु बन्धपुण्यपापानि गृहीतानि, तदविनाभावित्वाद् दुःखस्य / निर्जरायास्तु स्वाभिधानेनैवोपादानम्, तत्फ लभूतस्य मोक्षस्योपादानं द्रष्टव्यमिति / तदेवमेतावन्त एव पदार्थाः, तदभ्युपगमे नवास्तीत्यादिकः क्रियावादोऽभ्युपगतो भवतीति / यश्चैतान् पदार्थान् जानात्यभ्युपगच्छति स परमार्थतः क्रियावादं जानाति / ननु चापरदर्शनोक्तपदार्थपरिज्ञानेन सम्यक्त्वादिकं कस्मान्नाभ्युपगम्यते, तदुक्तपदार्थानामेवाघटमानत्वात् / सूत्र. / (नैयायिकदर्शनमन्यत्रापाकरिष्यते) तस्मात्पारिशेष्यसिद्धा अर्हदुक्ता नवपदार्थाः सत्याः तत्परिज्ञानं च क्रियावादे हेतु परपदार्थपरिज्ञानमिति // 21 // सांप्रतमध्ययनार्थमुपसंजिहीर्षुः सम्यग्वादापरिज्ञानफ लमादर्शयन्नाहसद्देसु रूवेसु असज्जमाणो, गंधेसु रसेसु अदुस्समाणे। णो जीवितं णो मरणाहिकंखी, आयाणगुत्ते वलया विमुक्के / 22 / त्ति वेमि॥ "सहेसु" इत्यादि / शब्देषु वेणुवीणादिषु श्रुतिसुखदेषु, रूपेषु च नयनानन्दकारिष्वासङ्गमकुर्वन् गायमकुवाणोऽनेन रागो गृहीतः, तथा गन्धेषु कुथितकलेवरादिषु, रसेषु चान्तप्रान्ताशनादिषु अदुष्यमाणो मनोज्ञेषु द्वेषमकुर्वन्। इदमुक्तं भवतिशब्दादिष्यिन्द्रियविषयेषु मनोज्ञेतरेषु रागद्वेषाभ्यामनपदिशयमानो जीवितमसंयमजीवितं नाभिकाङ्केत, नापि परीषहोपसर्गरभिद्रुतो मरणमभिकाङ्केत् / यदि वा जीवितमरणयोरनभिलाषी संयममनुपालयेदिति / तथा मोक्षर्थिनादीयते गृह्यात इत्यादानं संयमः, तेन तस्मिन् वा सति गुप्तः, यदि वा मिथ्यात्वादिना दीयते इत्यादानमष्टप्रकारं कर्म, तस्मिन्नादातव्ये मनोवाक्कायैर्गुप्तः समितश्च / तथा भावबलयं माया तथा, विमुक्तो मायामुक्तः / इति :