________________ किरियावाइ (ण) 558 - अभिधानराजेन्द्रः भाग-३ किरियावाइ (ण) सावधेतरविशेषानभिज्ञाः सन्तःकर्मक्षपणार्थमप्युद्यता निर्विवेकतया सावद्यमेव कर्म कुर्वते / न च कर्मणा सावद्यारम्भेण कर्म पापं क्षपयन्त्यपनयन्त्वज्ञत्वाद्द्बाला इव बालास्त इति / यथा च कर्म क्षिप्यते तथा दर्शयति अकर्मणा त्याश्रवनिरोधेन तु अन्तशः शैलेश्यवस्थायां | कर्म क्षपयन्ति धीरा महासत्त्वाः सद्वद्या इव चिकित्सयाऽऽमयानिति। मेधा प्रज्ञा विद्यते येषां ते मेधाविनः हिताहितप्राप्तिपरिहाराभिज्ञा लोभमयं परिग्रहमेवातीताः परिग्रहातिक्रमाल्लोभातीता वीतरागा इत्यर्थः / सन्तोषिणो येन केनचित्संतुष्टा अवीतरागा अपीति / यदि वा यत एवातीतलोभा अत एव सन्तोषिण इति / त एवंभूता भगवन्तः पापमसदनुष्ठानापादितं कर्म न कुर्वन्ति नाददति / क्वचित्पाठः'लोभभयादतीताः' / लोभश्च भयं च समाहारद्वन्द्वः / लोभाद्वा भयं तस्मादतीताः संतोषिण इति। न पुनरुक्तशङ्का विधेयेत्यतो लोभतीतत्वेन प्रतिषेधांशो दर्शितः / सन्तोषिण इत्यनेन च विध्यंश इति / यदि वा लोभातीतग्रहणेन समस्तलोभाभावः; संतोषिण इत्यनेन तु सत्यप्यवीतरागत्वेन उत्कटलोभा इति / लोभाभावं दर्शयन् अपरकषायेभ्यो लोभस्य प्राधान्यमाह। ये चलोभातीतास्तेऽवश्यं पापं न कुर्वन्तीति स्थितम्।१५॥ ये च लोभातीतास्ते किंभूता भवन्तीत्यत आहते तीयउप्पन्नमणागयाई, लोगस्स जाणंति तहागयाई। णेतार अन्नेसि अणन्नणेया, वुद्धा हु ते अंतकडा भवंति / 16 / ते वीतरागा अल्पकषाया वा लोकस्य पश्चास्तिकायात्मकस्य प्राणिलोकस्य वाऽतीतान्यन्यजन्माचरितानि उत्पन्नानि वर्तमानवस्थायीन्यनागतानि च भवान्तरभावीनि सुखदुःखादी नि तथागतानि यथाऽवस्थितानि तथैवावितथं जानन्ति, न विभङ्गज्ञानिन इव विपरीत पश्यन्ति। तथाहि आगमः"अणगारे णं भंते ! माई मिच्छादिट्ठी रायगिहे णयरे संमोहए वाणारसीए नयरीए रूवाई जाणइ पासइ जाव से दसणे विवञ्जासे भवति" इत्यादि / ते चातीतानागतवर्तमानज्ञानिनः प्रत्यक्षज्ञानिनश्चतुर्दशपूर्वविदो वाऽप्रत्यक्षज्ञानिनोऽन्येषां संसारोत्तितीर्पूणां भव्यानां मोक्ष प्रति नेतारः-सदुपदेशं प्रत्युपदेष्टारो भवन्तिानच ते स्वयंबुद्धत्वादन्येन नीयन्तेतत्त्वावबोध कार्यन्त इत्यनन्यनेयाः. हिताहितप्राप्तिपरिहारं प्रति नान्यस्तेषां नेता विद्यत इति भावः / ते च बुद्धाः स्वयंबुद्धास्तीर्थकरगणधरादयः। हुशब्दश्चशब्दार्थे , विशेषणे च, तथा च प्रदर्शित एव / ते च भवान्तकराः, संसारोपादानभूतस्य वा कर्मणोऽन्तकश भवन्तीति // 16 // यावदद्यापि भवान्तं न कुर्वन्ति तावत्प्रतिषेध्यमशं दर्शयितुमाहते णेव कुव्वंति ण भूताहिसंकाएँ दुगुंछमाणा। सयाजता विप्पणवंति धीरा, विण्णत्ति वीरा य हवंति एगे।१७। ते प्रत्यक्षज्ञानिनः परोक्षज्ञानिनो वा विदितवेद्याः सावद्यमनुष्ठानं भूतोपमर्दाभिशङ्कया पापं कर्म जुगुत्सन्तः सन्तो न स्वतः कुर्वन्ति, नाप्यन्येन कारयन्ति, कुर्वन्तमप्यपरं नानुमन्यन्ते / तथा स्वतो न मृषावादं जल्पन्ति, नान्येन जल्पयन्ति, नाप्यपरं जल्पन्तमनुजानन्ति, एवमन्यान्यपि महाव्रतान्यायोज्यानीति / तदेवं सदा सर्वकालं, यताः संयताः पापानुष्ठानान्निवृताः, विविधं संयमानुष्ठानं प्रति प्रणमन्ति प्रहीभवन्ति / के ते?, वीरा महापुरुषा इति। तथैके केचन हेयोपादेयं विज्ञाय अपिशब्दात्सम्यक् परिज्ञाय वा तदेव निशङ्क यजिनः प्रवेदितमित्येवं कृतनिश्चयाः कर्मणि विदारयितव्ये वीरा भवन्ति। यदि वा परीषहोपसर्गानी-कविजयाद्वीरा इति। पाठान्तरं वा-(विण्णत्ति वीरा य भवन्ति एग) एके केचन गुरुकर्मणोऽल्पसत्त्वाः विज्ञप्तिानं तन्मात्रेणैव वीरा नत्वनुष्ठाने, न च ज्ञानादेवाऽभिलषितावाप्तिरुपजायते। तथाहि“अधीत्य शास्त्राणि भवन्ति मूर्खाः, यस्तु क्रियावान् पुरुषः स विद्वान्। संचिन्त्यतामौषधमातुरं हि, न ज्ञानमात्रेण करोत्यरोगम्" / / 1 / 171 कानि पुनस्तानि भूतानि यच्छदयाऽऽरम्भं जुगुप्सन्ति सन्त इत्येतदाशझ्याहडहरे य पाणे वुड्ढे य पाणे, ते आतओ पासइ सव्वलोए। उव्वेहती लोगमिणं, महन्तं बुद्धेऽपमत्तेसु परिव्वएज्जा / / 18|| ये केचन (डहरे त्ति) लघवः कुन्थ्वादयः सूक्ष्मा वा, ते सर्वे ऽपि प्राणाः प्राणिनः, येच वृद्धा वादरशरीरिणस्तान्सर्वानप्यात्मतुल्यान् आत्मवत्पश्यति सर्वस्मिन्नपि लोके; यावत्प्रमाणं मम तावदेव कुन्थोरपि, यथा वा मम दुःखमनभिमतमेवं सर्वलोकस्यापि, सर्वेषामति प्राणिना दुःखमुत्पद्यते, दुःखादद्विजन्ति / यथा चागमः- " पुढविकाए णं भंते ! अझंते समाणे केरिसयं वेयणं वेएइ ?" इत्याद्याः सूत्रालापका इति मत्वा ते ऽपि नाक्रमितव्या न संघट्टनीया इत्येवं यः पश्यति / तथा लोकमिम महान्तमुत्प्रेक्षते, षड्जीयसूक्ष्मबादरभेदैराकुलत्वान्महान्तम् : यदि वा अनादिनिधनत्वान्महान् लोकः / तथाहिकालतो भव्या अपि केचन सर्वेणाऽपि कालेन न सेत्स्यन्तीति / यद्यपि द्रव्यतः षड्द्रव्यात्मकत्वात् क्षेत्रतश्चतुर्दशरजुप्रमाणत या सावधिको लोकः, तथापि कालतो भावतश्वानाद्यनिधनत्वात्पर्यायाणां चानन्तत्वान्महान्लोकः, तमुत्प्रेक्षत इति / एवं च लोकमुत्प्रेक्षमाणो बुद्धोऽवगन्तव्यः / सर्वाणि प्राणिस्थानान्यशाश्वतानि तथा नात्रापसदे संसारे सुखलेशोऽप्यस्तीत्येवं मन्यमानोऽप्रमत्तेषु संयमानुष्ठायिषु मध्ये तथाभूत एव परिसमन्ताद् व्रजेत् / यदि वा बुद्धः सन् प्रमत्तेषु गृहस्थेषु अप्रमत्तः सन् संयमानुष्ठाने परिव्रजेदिति // 16 // जे आयओ परओ वा विणच्या, अलमप्पणो हाँति अलं परेसिं। तंजोइभूतं च सयाऽऽवसेजा, जे पाउकुजा अणुचिंति धर्म // 16 // यः स्वयं सर्वज्ञ आत्मनस्त्रैलोक्योदरविवरवर्तिपदार्थदर्शी यथावस्थित लोकं ज्ञात्या, तथा यश्च गणधरादिकः परतस्तीर्थकरादेजीवादीन पदार्थान् विदित्वा परेभ्य उपदिशति, स एवंभूतो हेयोपादेयवेद्यात्मनस्वातुमलमात्मानं संसारावटात्पालयितुं समर्थो भवति / तथा परेषां सदुपदेशदानतस्त्राता जायते / तं सर्वज्ञ स्वत एव सर्व वे दिन तीर्थकरादिकं , परतो वे दिनं च गणधरादिकं , ज्योतिर्भूतं पदार्थप्रकाशकतया चन्द्रादित्यमदीपकल्पमात्महितमिच्छन् संसारदुःखोद्विग्नः कृतार्थमात्मानं भावयन् सततमनवरतमायसेत सेवेत गुर्वन्तिक एव यावज्जीव वसेत्।तथा चोक्तम्-"नाणस्स होइ भागी, थिरपरओ दंस