SearchBrowseAboutContactDonate
Page Preview
Page 581
Loading...
Download File
Download File
Page Text
________________ किरियावाइ (ण) 557 - अभिधानराजेन्द्रः भाग-३ किरियावाइ (ण) किमाहुः? मोक्षम्। कथम् ? विद्या च ज्ञानं, चरणं च क्रिया, ते द्वे अपि विद्येते कारणत्वेन यस्येति विगृह्य "अर्श आदिभ्योऽच्" 5 / 2 / 127 / इति [ पाणि०] सूत्रेण मत्वर्थी योऽच् / असौ विद्याचरणो मोक्षः, ज्ञानक्रियासाध्य इत्यर्थः / तमेव साध्यं मोक्षं प्रतिपादयन्तिायदि वाऽन्यथा या पातनिका केनैतानि समवसरणानि प्रतिपादितानि? यचोक्तं यच वक्ष्यते इत्येतदाशड्क्याह- [ते एवमक्खंतीत्यादि] अनिरुद्धा क्वचिदप्यस्खलिता, प्रज्ञायतेऽनयेति प्रज्ञा ज्ञानं, येषां तीर्थकृतां तेऽनिरुद्धप्रज्ञास्त एवमनन्तरोक्तया प्रक्रि यया सम्यगाख्यान्ति प्रतिपादयन्ति। लोकं चतुर्दशरजवात्मकं, स्थावरजङ्गमाख्यं वा, समेत्य केवलज्ञानेन करतलामलकन्यायेन ज्ञात्वा / तथाग-तास्तीर्थकरत्वं केवलज्ञानं च गताः श्रमणाः साधवो ब्राह्मणाः संयताऽसंयताः,लौकिकी वाचोयुक्तिः। किंभूतास्त एव माख्यान्तीति संबन्धः / तथा तथेति' वा वचित्पाठः। यथा यथा समाधिमार्गो व्यवस्थितस्तथा तथा कथयन्ति। एतच कथयन्ति-यथा यत्किञ्चित्संसारान्तर्गतानामसुमतांदुःखमसातोदयस्वाभावं, तत्प्रतिपक्षभूतं च सातोदयापादितं सुखं, तत्स्वयमात्मना कृतं, नान्येन कालेश्वरादिना कृतमिति। तथा चोक्तम्“सव्वो पुव्वकयाणं कस्माणं पावए फलविवाग / अवराहेसु गुणेसु , णिमित्तमेत्तं परो होई // 11 // एतचा-हुस्तीर्थकरगणधरादयः। तद्यथाविद्या ज्ञानं, चरणं चारित्रं क्रिया, तत्प्रधानो मोक्षस्तमुक्तवन्तः, न ज्ञानक्रियाभ्यां परनिरपेक्षाभ्यामिति / तथा चोक्तम्-"क्रिया च सज्ज्ञानवियोगनिष्फला, क्रियाविहीना च विबोधसंपत्। निरज्ञताक्लेशसमूहशान्तये, त्वया शिवाया लिखितेव पद्धतिः" ||1|| किञ्च-- ते चक्खु लोगंसिह णायगा उ, मग्गाऽणुसासंति हितं पयाणं / तहा तहा सासयमाहु लोए, जंसी पयामाणव! संपगाढा।१२। (तेचक्खुलोगसिहेत्यादि) ते तीर्थकरगणधरादयोऽतिशयज्ञानिनोऽस्मिन् लोके, चक्षुरिव चक्षुर्वर्तन्ते / यथाहि चक्षुयोग्यदेशावस्थितान् पदार्थान् परिच्छिनत्ति, एवं तेऽपिलोकस्य यथावस्थितपदार्थाविष्करणं कारयन्ति। यथाऽस्मिन् लोके ते नायकाः प्रधानाः। तुशब्दो विशेषणे। सदुपदेशदानतो वा नायका इति। एतदाह-मार्ग ज्ञानादिकं मोक्षमार्गम्, अनुशासन्ति कथयन्ति / प्रजायन्त इति प्रजाः प्राणिनः, तेषाम् / किंभूतम् ? हितं सद्गतिप्रापकमनर्थनिवारकम् / किञ्चचतुर्दशरजवात्मके लोके पञ्चास्तिकायात्मके वा येन प्रकारेण द्रध्यास्तिकनयाभिप्रायेण यद्वस्तु शाश्वतं तत्तथा आहुरुक्तवन्तः। यदि वा लोकोऽयं प्राणिगणः संसारान्तर्वर्ती यथा यथा शाश्वतो भवति तथा तथैवाहुः / तद्यथा-यथा यथा मिथ्यादर्शनाभिवृद्धिस्तथा तथा शाश्वतो लोकः। तथाहि-तत्र तीर्थकराहारकवाः सर्व एव कर्मबन्धाः सम्भाव्यन्त इति। तथाच महारम्भादिभिश्चतुर्भिः स्थानर्जीवा नरकायुष्कं यावन्निवर्तयन्ति तावत्संसारानुच्छेद इति। अथवा यथा यथा रागद्वेषादिवृद्धिस्तथा तथा संसारोऽपि शाश्वत इत्याहुः / यथा यथा च कर्मोपचयमात्रा तथा तथैव संसाराभिवृद्धिरिति / दुष्टमनोवाक्कायाभिवृद्धौ वा संसाराभिवृद्धिरवगन्तव्या, तदेवं संसारस्याभिवृद्धिर्भवति। यथाऽस्मिश्च संसारे प्रजायन्त इति प्रजा जन्तवः / हे मानव ! मनुष्याणामेव प्रायश उपदेशा-1 हत्वान्मानवग्रहणाम् / सम्यग्नारकतियेड्नरामरभेदेन प्रगाढाः प्रकर्षण व्यवस्थिता इति // 12 // लेशतो जन्तुभेदप्रदर्शनद्वारेण तत्पर्यटनमाहजेरक्खसा वा जमलोइया वा, जे वा सुरा गंधव्वा य काया। आगासगामीय पुढोसियाजे, पुणो पुणो विप्परियासुर्वेति।१३। ये केचन व्यन्तरभेदा राक्षसात्मानः; तद्ग्रहणाच सर्वेऽपि व्यन्तरा गृह्यन्ते / तथा यमलौकिकात्मनोऽम्बादयः, तदुपलक्षणात्सर्वभवनपतयः , तथा ये च सुराः सौधर्मादिवैमानिकाः / चशब्दाजोतिष्काः सूर्यादयाः, तथा ये गान्धर्वा विद्याधरा व्यन्तरविशेषा व / तद्ग्रहण च प्राधान्यख्यापनार्थम्।तथा कायाः पृथिवीकायादयः षडपि गृह्यन्ते इति / पुनरन्येन प्रकारेण सत्त्वान्संजिघृक्षुराहये केचनाऽऽकाशगामिनःसंप्राप्ताकाश गमनलब्धयश्चतुर्विधदेवनिकायविद्याधरपक्षिवायवः; तथा ये च पृथिव्याश्रिताः पृथिव्यप्तेजोवायुवनरुपतिद्वित्रिचतुः पचेन्द्रियाः, ते सर्वेऽपि स्वकृतकर्मभिः पुनः पुनर्विविधमनेकप्रकार पर्यासं परिक्षेपमरहट्टघटीन्यायेन परिभ्रमणमुप सामीप्येन यान्ति गच्छन्तीति // 13 // किञ्चान्यत्जमाहु ओहं सलिलं अपारगं, जाणाहि णं भवगहणं दुमोक्खं / जंसी विसन्ना विसयंगणाहिं, दुहओ विलोयं अणुसंचरंति / / 14 / / यं संसारसागरमाहुरुक्त वन्तस्तीर्थकरगणधरादयः तद्विदः / कथमाहुः?- स्वयंभुरमणसलिलौघवदपारम्, यथा स्वयंभुरमणसलिलौघो न केनचिज्जलचरेण स्थलचरेण वा लयितुं शक्यते, एवमयमपि संसारसागरः सम्यग्दर्शनिनमन्तरेण लयितुंन शक्यत इति दर्शयति, जानीहि अवगच्छ, णमिति वाक्यालङ्कारे। भवगहनमिदं चतुरशीतियोनिलक्षप्रमाणं यथासंभवं संख्येयानन्तस्थितिकम्। दुःखेन मुच्यत इति दुर्मोक्षं दुरुत्तरमस्तिवादिनामपि, किंपुन स्तिकानाम् / पुनरपि भवगहनोपलक्षितं संसारमेव विशिनष्टि यस्मिन् यत्र संसारे सादद्यकर्मानुष्ठायिनः कुमार्गपतिता असत्समवसरणग्राहिणो विषण्णा अवसक्ता विषयप्रधाना अङ्गना विषयाङ्गनास्ताभिः, यदि वा विषयाश्वाङ्गनाच विषयाङ्गनास्ताभिर्वशीकृताः सर्वत्र सदनुष्ठानेऽवसीदन्ति। तएवं विषयाङ्गनादिके पञ्चके विषण्णा द्विधाऽप्याकाशाश्रितं पृथिव्याश्रितं च लोकम्, यदि वा स्थावरजङ्गमलोकमनुसंचरन्ति गच्छन्ति। यदि वा द्विधाऽपि लिइमात्रप्रव्रज्ययाऽविरत्या च रागद्वेषाभ्यां वा लोकं चतुर्दशरज्जवात्मकं स्वकृतकर्मप्रेरिता अनुसंचरन्ति बम्भम्यन्त इति ||14|| किञ्चान्यत्न कम्मणा कम्म खर्वेति वाला, अकम्मणा कम्म खति धीरा। मेधाविणो लोभभयावतीता, संतोसिणो पकरेंति पावं ||15|| ते एवमसत्समयशरणाश्रिता मिथ्यात्वादिभिर्दोषैरभिभूताः
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy