________________ किरियावाइ (ण) ५५६-अभिधानराजेन्द्रः भाग-३ किरियावाइ (ण) 1 त्मा, भूते भूते व्यवस्थितः / एकधा बहुधा चैव, दृश्यते जलचन्द्रवत्" / / 1 / / तथा–“ पुरुष एवेदं सर्वं यद् भूतं यच भाव्यम्" इत्यादि। एवमस्त्यजीवः स्वतः नित्यः कालत इत्येवं सर्वत्र योज्यम् आचा०१ श्रु०१अ०१उ०ा आव०॥ सूत्र! सम्मट्टिी किरिया-वादी सेसा य मिच्छगावाई। जहिऊण मिच्छवायं, सेवइ वायं इमं सच।२३। सूत्र . नि.। ननु च क्रियावाद्यप्यशीत्युत्तरशतभेदो भवति, तत्र तत्र प्रदेशे कालादीनभ्युपगच्छन्नेव मिथ्यावादित्वेनोपन्यस्तः, तत्कथमिह सम्यग्दृष्टि त्वे नोच्यत इति ? उच्यते-स तत्रास्त्येव जीव इत्येवंसावधारणतयाऽभ्युपगमं कुर्वन् काल एवैकः सर्वस्यास्य जगतः कारणम्, तथा स्वभाव एव, नियतिरेव, पूर्वकृतमेव, पुरुषकार एवेत्येवमपरनिरपेक्षतयैकान्तेन कालादीनां कारणत्वेनाश्रवणान्मिथ्यात्वम् / तथाहि-अस्त्येव जीव इत्येवमस्तिना सह जीवस्य सामानाधिकरण्यात् / यद्यदस्ति तत्तजीव इति प्राप्तम्, अतो निरवधारणपक्षसमाश्रवणादिह सम्यक्तवमभिहितम्। तथा कालादीनामपि समुदितानां परस्परसव्यपेक्षाणां कारण त्वेनेहाश्रयणात्सम्यक्त्वमिति। ननु च कथं कालादीनां प्रत्येकं निरपेक्षाणां मिथ्यात्वस्वभावत्वे सति समुदितानां सम्यक्त्वसद्भावः / न हि यत्प्रत्येकं नास्ति तत्समुदायेऽपि भवितुमर्हति / सिकतातैलवत् ? नैतदस्ति, प्रत्येक पद्मरागादिमणिष्वविद्यमानाऽपि रतावली समुदाये भवन्ती दृष्टा। न च दृष्टऽनुपपन्नं नामेति यत्किञ्चिदेतत्। तथा चोक्तम्"कालो सहाव णियई, पुवकयं पुरिसकारऽणेगंता। मिच्छत्तं, ते चेव उ, समासओ हों ति सम्मत्तं / / 1 / / सव्वे विय कालाइय–समुदायेण साहगा भणिया। जुजत्ति य एमेव य, सम्म सव्वस्स कजस्स।।२।। न हि कालादीहिंतो, केवलएहि तु जायए किंचि। इह मुग्गरंधणादि वि,तासव्वे समुदिता हेऊ॥३॥ जहऽणेगलक्खणगुणा, वेरुलियादी मणी वि संजुत्ता। रयणावली व एस,ण लहंति महग्घमुल्ला वि।।४।। तह णियवादसुविणि-च्छिया वि अण्णाणपक्खनिर-वेक्खा। सम्मइंसणसई, सव्वे विणया ण पाविति॥५॥ जह पुण तेचेव मणी,जहा गुणविसेसभागपडिबद्धा। रयणावलि त्ति भण्णइ, चयंति पाडिक्कसण्णओ।।६।। तह सव्वे णयवाया, जहाणुरुवविणिउत्तवप्तव्वा। सम्मइंसणसई,लभंति न विसेससण्णओ॥७॥ तम्हा मिच्छद्दिट्ठी, सव्वे विणया सपक्खपडिबद्धा। अण्णोण्णनिस्सिया पुण, हवंति सम्मत्तसब्भावा।।८।।" यत एवं तस्मात् त्यक्त्वा मिथ्यात्ववाद कालादिप्रत्ये कैकान्तकारणरुपं, सेवध्वमङ्गीकुरुध्वं सम्यग्वादं परस्परसव्यपेक्षं कालादिकारणरुपमिममिति मयोक्तं प्रत्यक्षावसन्नं सत्यमवितथमिति। सूत्र०१ श्रु०१२ अ०। नि०। सम्यक्त्वमिथ्यात्वस्थानकयोरुक्तम, एवं प्रकारं क्रियावादतदित रवादेष्वतिदिशन्नाहइत्थमेव क्रियावादे, सम्यक्तवोक्तिर्न दुष्यति / मिथ्यात्वोक्तिस्तथाऽज्ञाना-क्रियाविनयवादिषु / / 127 / / (इत्थमेवेति) इत्थमेव मार्गप्रवेशत्यागाभ्यामेव, क्रियावादे सम्यक्तवोक्तिः सम्मट्ठिी किरियावाई' इत्यादिलक्षणा, अक्रिया ज्ञानविनयवादिषु च मिथ्यात्वोक्तिः “सेसा य मिच्छगावाई" इत्यादि न दुष्यति न दोषावहा भवति फलतः; इत्यं विभागाभिप्राप्त्या विरोधाजात्या चान्यत्र सर्वतौल्योक्तेरुपपत्तेः।।१२७|| क्रियावादस्य सम्यक्त्वरूपतामेव युक्त्यन्तरेण द्रढयतिक्रियायां पक्षपातो हि, पुंसां मार्गाभिमुख्यकृत् / अन्त्यपुद्रलभावित्वा-दन्येभ्यस्तस्य मुख्यता / / 12 / / (क्रियायामिति) क्रियायां पक्षपातो मोक्षेच्छयाऽऽवेशो हि पुंसां मार्गाभिमुख्यकृत् मार्गानुसारितः स्थैर्याधायको भवति। तेनान्त्यपुद्गलभावित्वाचरमपुद्गलपरावर्त्तमात्रसंभवत्वादन्येभ्योऽक्रियावादादिभ्यस्तस्य क्रियावादस्य मुख्यता। तदुक्तं दशाचूर्णी-"जो अकिरियावाई सो भविओ अभविओ वा कण्हपक्खिओ सुक्कपक्खिओ वा / जो किरियावाई सो णियमा भविओ णियमा सुक्कपक्खिओ अंतोपुग्गलपरिअट्टस्स सिज्झइ" इत्यादि। नयो०। दीक्षात एव मोक्षवादिनां मतं दुदूषयिषुस्तम्मतमाविष्कुर्वन्नाहते एवमक्खंति समिच लोग, तहा (गया) तहा समणा माहणाय। सयंकडं णन्नकडं च दुक्खं, आहंसु विजाचरणं य मोक्खं / / 11 / / ये क्रियात एवं ज्ञाननिरपेक्षाया दीक्षादिलक्षणाया मोक्षमिच्छन्ति, ते एवमाख्यान्ति। तद्यथा-अस्ति माता पिता, अस्ति सुचीर्णस्य कर्मणः फ लमिति / किं कृत्वा त एवं कथयन्ति ?-क्रियात एव सर्व सिध्यतीति स्वाभिप्रायेण लोकं स्थावरजङ्गमात्मकं समेत्य ज्ञात्वा किल वयं यथावस्थितवस्तुनो ज्ञातार इत्येवमभ्युपगम्य सर्वमस्त्येवेत्येवं सावधारणं प्रतिपादयन्ति, नकथञ्चिन्नास्तीति कथमाख्यान्ति? तथा तेन प्रकारेण यथा यथा क्रिया तथा तथा स्वर्गनरकादिकं फलमिति / ते च श्रमणास्तीर्थिका ब्राह्मणा वा क्रियात एव सिद्धिमिच्छन्ति / किञ्चयत् किमपि संसारे दुःखं तथा सुख च तत्सर्वं स्वयमेवात्मना कृतं नान्येन काले श्रादिना। न चैतदक्रियावादे घटते। तत्रहि-अक्रियात्वादात्मनोऽकृतयोरेव सुखदुःखयोः संभवः स्यात् एवं च कृतनाशाकृतागमौ स्याताम् ? अत्रोच्यतेसत्यम्, अस्त्यात्मसुखदुःखादिकम्, न त्वरस्त्येव / तथाहि-यद्यस्त्मेवं सावधारणमुच्येत, ततश्च न कथशिनास्तीत्यापन्नम्, एवं च सति सर्व सर्वात्मकमापद्येत। तथा च सर्वलोकस्य व्यहारो छेदः स्यात् / न च ज्ञानहितायां कियायाः सिद्धिः, तदुपायपरिज्ञानाभावात्। नचोपायमन्तरेणोपेयमवाप्यत इति प्रतीतम्। सर्चा हि क्रिया ज्ञानवत्येव फलवत्युपलक्ष्यते। उक्त च"ज्ञानस्य ज्ञानिनां चैव, निन्दप्रद्वेषमत्सरैः। उपेक्षितैश्च विध्नैश्च ज्ञानघ्नं कर्म बध्यते" ||1|| "पढमं नाणं तओ दया, एवं चिट्ठति सव्वसंजए।। अन्नाणी किं काही, किंवा नाणी छेयपावयं" ||1|| इत्यतो ज्ञानस्यापि प्राधान्यम् / नापि ज्ञानादेव सिद्ध :, क्रियारहितस्य पङ्गोरिव कार्यसिद्धेरनुपपत्तिरित्यालोच्याह-(आहंसु विजाचरणंय मोक्खं ति) न ज्ञाननिरपेक्षायाः क्रियायाः सिद्धिरन्धस्येव, नापि क्रियाविकलस्य ज्ञानस्य पड़ोरित्येवमवगम्याहुरुक्तवन्तः, तीर्थकरगणधरादयः /