SearchBrowseAboutContactDonate
Page Preview
Page 579
Loading...
Download File
Download File
Page Text
________________ किरियाणय ५५५-अभिधानराजेन्द्रः भाग-३ किरियावाइ (णू हि दृष्टऽनुपपन्नं नाम, न च सकललोकप्रत्यक्षसिद्ध अर्थे अन्यत्प्रमाणान्तरं मृग्यत इति / तथाऽऽमुष्मिक फलप्राप्त्यर्थिनाऽपि तपश्चरणादिका क्रियैव कर्तव्या, मौनीन्द्रप्रवचनमप्येवमेव व्यवस्थितम् / यत उक्तम्- "चेइयकुलगणसंघे, आयरियाणं च पवयणसुए य / सव्वेसु वि तेण कयं, तवसंजमसुज्जमंतेण" ||1|| इतबैतदेवमङ्गीकर्तव्यम्यतस्तीर्थकृदादिभिः क्रियारहितं ज्ञानमप्यफ लमुक्तम् / उक्तं च-'सुबहु पि सुअमधीतं, किं काही चरणविप्पहूणस्स / अंधस्स जह पलित्ता, दीवसतसहस्सकोडी वि।" दृशिक्रियापूर्वकक्रियाविकलत्वात्तस्येति भावः। न केवलं क्षायोपशमिकाद्ज्ञानात् क्रिया प्रधाना, किन्तु क्षायिकादपि:यतः सत्यपि जीवाद्यखिलवस्तुपरिच्छेदके ज्ञाने समुल्लसिते न व्युपरतक्रियानिर्वर्तिध्यानक्रियामन्तरेण भवधारणीयकर्मो च्छेदः। तदच्छेदाचन | मोक्षम् चारित्रतो न ज्ञानं प्रधानम् चरणक्रियायां पुनरैहिकामुष्मिकफ लावाप्तिरित्यतः सैव प्रधानभावमनुभवतीति। आचा०१ श्रु०९ | अ०४ उ०। किरियाणास पुं० (क्रियानाश) स्वाचार, शे, विटचेष्टायां च। "साहूणमणणुवाओ, किरियाणासो उ उववाए" पञ्चा०७ विव०॥ किरिया (य) रय त्रि० (क्रियारत) भिक्षाशुद्ध्यप्रतिकर्मताप्रान्तो पधितायापनामा सक्षपणाधनष्ठानविरते, पचा०११ विव०॥ किरियारुइ स्त्री० पुं० (क्रियारुचि)कर्म० स० दर्शनज्ञान चारित्रतपोविनयाद्यनुष्ठानविषयिण्यां रुचौ, सम्यक्तवभेदे, ध०२ अधि० क्रिया सम्यक्संयमानुष्ठानम्, तत्र रुचिर्यस्य स क्रियारुचिः दर्शनार्थभेदे, प्रज्ञा०। क्रियारुचिमाहदसणनाणचरित्ते, तवविणए सव्वसमिइगुत्तीसु। जो किरिया-भावरुई, सो खलु किरियारूई नाम / / दर्शनं च ज्ञानं च चारित्रंचदर्शनज्ञानचारित्रम् समाहारे द्वन्द्वः, तस्मिन् तथा तपसि विनयेच, तथा सर्वासुसमितिषु ईयर्यासमित्यादिषु, सर्वासु च गुप्तिषु मनोगुप्तिप्रभृतिषु यः क्रियाभावरुचिः / किमुक्तं भवति? यस्य भावतो दर्शनाद्याचारानुष्ठाने रुचिरस्ति, स खलु क्रियारुचिर्नाम / प्रज्ञा०१ पा उत्त। किरियावंत त्रि०. (क्रियावत्) क्रियाऽस्त्यस्य मतुप, मस्य वः। क्रियाविशिष्ट, क्रियानिरते, “यः क्रियावान् स पण्डितः" क्रियाश्रये कर्तरि च / वाच० जिनकल्पादितुल्यक्रियाऽभ्यासिनि, अष्ट०११ अष्ट०। किरियावाइ (ण) पुं० (क्रियावादिन) क्रियां जीवजीवादिरर्थोऽस्तीत्येवं रूपां वदन्ति इति क्रियावादिनः। आस्तिकेषु, स्था० 4 ठा०४ उ०। सूत्र० / रा० / क्रियैव परलोकसाधनायालमित्येवं वदितुं शीलं येषां ते क्रियावादिनः। दीक्षात एव क्रियारूपाया मोक्ष इत्येवमयुपगमपरेषु, सूत्र, १श्रु०६ अ०। ज्ञानादिरहितां क्रियामेकामेव स्वर्गापवर्गसाधनत्वेन वदितुं शीलवत्सु, सूत्र० 2 श्रु०३ अ०। क्रियामात्मसमवायिनी यदन्ति तच्छीलालश्च, नकर्तारमन्तरेण क्रिया पुण्यबन्धादिलक्षणा संभवति तत एवं परिज्ञायताम् / क्रियाऽऽत्मसमवायिनीत्युभ्युपगमपरेषु, नं०।०/ तेषां च 180 भेदा:--"असियसयं किरियाणं" सूत्र०१श्रु०११अ०।तत्र जीवाजीवाश्रयबन्धपुण्यपापसंवरनिर्जरामोक्षाख्या नव पदार्थाः। स्वपरभेदाभ्यां नित्यानित्यविकल्पद्येन च कालनियतिस्वभावेश्वरा त्माश्रयणादशीत्युत्तरं भेदशतं भवति क्रियावादिनाम्, एते चास्तित्ववादिनोऽभिधीयन्ते / इयमत्र भावनाअस्ति जीवः स्वतो नित्यः कालतः१, अस्ति जीवः स्वतोऽनित्यः कालतः२, अस्ति जीवः परतो नित्यः कालतः३, अस्ति जीवः परतोऽनित्यः कालतः 4 इत्येवं नित्येन कालेन चत्वारो भेदा लबधाः। एवं नियतिस्वभावेश्वरात्मभिरप्येकैकेन चत्वारश्चत्वारो विकल्पालभ्यन्ते। एतेच पञ्च चतुष्कका विंशतिर्भवति। इयं च जीवपदार्थेव लब्धा। एयमजीवादयोऽप्यष्टौ प्रत्येकं विंशतिभेदाश्च / ततश्च नवविंशतयः शतमशीत्युत्तरं भवति (180) / तत्र स्वत इति स्वेनैव रूपेण जीवोऽस्तिन परोपाध्यपेक्षया हस्वत्वदीर्घत्वे इव, नित्यः शाश्वतो न क्षणिकः, पूर्वोत्तरकालयोरवस्थितत्वात्, कालत इति काल एव विश्वस्य स्थित्युपत्तिप्रलयकारणम् / उक्तं च -“कालः पचति भूतानि, कालः संहरते प्रजाः कालः सुप्तेषु जागर्ति, कालो हि दुरतिक्रमः॥१॥" स चातीन्द्रियो युगपचिर क्षिप्तक्रियाभिव्वङ्गयो हिमोष्णवर्षोष्यवस्थाहेतु : क्षणलवमुहूर्तयामाहोरात्रपक्षमासवयनसंवत्सरयुगकल्पपल्योपमसारोपमोत्सर्पिण्यवसर्पिणी पुद्गलपरावर्तातीतानागतवर्तमानसर्वाद्धादिव्यवहाररूपः। द्वितीयविकल्पे तु कालादेवात्मनोऽस्तित्वमभ्युपेयम्, किन्त्वनित्योऽसाविति विशेषोऽयमू, पूर्वविकल्पात् / तृतीयविकल्पे तु परत एवारितत्वमभ्युपगम्यते, कथं पुनः परतोऽस्तित्वमात्मनोऽभ्युपेयते? नन्वेतप्रसिद्धमेव सर्वपदार्थानां परपदर्थस्वरुपापेक्षया स्वरूपपरिच्देछः, यथा दीर्घत्वापेक्षया हस्वत्वपरिच्छेदः, हस्वत्वापेक्षया च दीर्घत्स्येत्येवमेव वाऽनात्मानम्, स्तम्भकुम्भादिसमीक्षातस्तद् व्यतिरिक्त वस्तुन्यात्मानं बुद्धिः प्रवर्तत इति / अतो यदात्मनः स्वरूपं तत्परत एवावधार्यते, न स्वत इति / चतुर्थविकल्पोऽपि प्राग्वदिति चत्वारो विकल्पाः / तथाऽन्ये नियतिरेवात्मनः स्वरूपमवधारयन्ति / का पुनरियं नियतिरिति ? / उच्यते-पदार्थानामवश्यतया यद्यथाभवने प्रयोजककी नियतिः। उक्तं च–“प्राप्तव्यो नियतिय लाश्रयेणयोऽर्थः, सोऽवश्यं भवति नृणां शुभोऽशुभो वा। भूतानां महति कृत्तेऽपि हि प्रयत्ने, नाभाष्यं भवति न भाविनोऽस्ति नाशः // 1 // " इयं च मस्करिपरिब्राजकानुसारिणा प्राय इति। अपरे पुनः स्वभावादेव संसारव्यवस्थामभ्युपयन्ति / कः पुनरय स्वमावः? | वस्तुनः स्वत एव तथापरिणतिभावः स्वभावः। उक्तं च"कः कण्टकानां प्रकरोति तैक्ष्ण्यं, विचित्रभावं मृगपक्षिणां च। स्वभावतः सर्वमिदं प्रवृत्त, नकामचारोऽस्ति कुतः प्रयत्नः? | स्वभावतः प्रवृत्तानां, निवृत्तानां स्वभावतः। नाहं कर्तेति भूतानां, यः पश्यति स पश्यति॥ केनाञ्जितानिनयनानि मृगाङ्गनानां, कोऽलङ्करोति रुचिराङ्गरुहान् मयूरान्। कश्चोत्पलेषु दलसन्निचयं करोति, को वा दधीत विनयं कुलजेषु पुंसु?||" तथाऽन्येऽभिदधते-समस्तमजीवादि ईश्वरात्प्रसूतम्, तस्मादेव स्वरूपेऽवतिष्ठते। कः पुनरयमीश्वरः? अणिमाद्यैश्वर्ययोगादीश्वरः। उक्त च-“अज्ञो जन्तुरनीशः स्यादात्मनः सुखदुःखयोः। ईश्वरप्रेरितो गच्छेत, श्वभ्रंवा स्वर्गमेव वा // 1 // तथाऽन्ये ब्रुवतेनजीवादयः पदार्थाः कालादिभ्यः स्वरूपं प्रतिपद्यन्ते, किं तात्मनः / कः पुनरयमात्मा ?, आत्माऽद्वैतवादिनां विश्वपरिणतिरूप आत्मा।उक्तंच-“एकएव हि भूता
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy