SearchBrowseAboutContactDonate
Page Preview
Page 578
Loading...
Download File
Download File
Page Text
________________ किरियाट्ठाण 554 - अभिधानराजेन्द्रः भाग-३ किरियाणय सार्थः / आत्मार्थाय स्वप्रयोजनकृते दण्डोऽर्थदण्डः पापोपादानम्। तथाऽनर्थदण्ड इति निष्प्रयोजनमेव सायद्यक्रियानुष्ठानमनर्थदण्डः२। तथा हिंसनं हिंसा प्राण्युपमर्दरूपा तथा, सैव वा दण्डो हिंसादण्डः३। तथाऽक स्मादनुपयुक्तस्य दण्डोऽकस्माद्दण्डः, अन्यस्य क्रिययाऽन्यस्य व्यापादनमिति 4 / तथा दृष्टेर्विपर्यासो रज्जुमिव सर्पबुद्धिस्तया दण्डो दृष्टविपर्यासोऽबुद्धिदण्डः / तद्यथा-लेष्टुकादिबुद्ध्या शराधभिघातेन चटकादिव्यापादनम् / तथा मृषावादप्रत्ययिकः, स च सद्भूतनिहवासद्भूतारोपणः६ तथा अदत्तस्य परकीयस्याऽऽदानं स्वीकरणमदत्तादानं स्तेयं तत्प्रत्ययिको दण्ड इति / तथा आत्मन्यध्यध्यात्म, तत्रभव आद्ध्यात्मिको दण्डः। तद्यथा-निर्निमित्तमेव दुर्मना उपहतमनःसंकल्पो हृदयेन ह्रियमाणश्चिन्तासागरावगाढः संतिष्ठते 8 / तथा जात्याद्यष्टमदस्थानोपहतमनाः परावमदर्शी तस्य मानप्रत्ययिको दण्डो भवति / तथा मित्राणामुपतापेन दोषो मित्रदोषस्तत्प्रत्ययिको दण्डो भवति 10aa तथा माया परवञ्चनबुद्धिस्तया दण्डो मायाप्रत्ययिकः 11 / तथा लोभप्रत्ययिको लोभनिमित्तो दण्ड इति 12 तथा एवं पञ्चभिः समितिभि समितस्य तिसृभिर्गुप्तिभिर्गुप्तस्य सर्वोपयुक्तस्यैर्याप्रत्ययिकः सामान्येन कर्मबन्धो भवति 13 // एतच त्रयोदशं क्रियास्थानमिति। सूत्र० 2 श्रु०२ अ० स०प्र०। (अर्थदण्डादीनां व्याख्यासूत्राण्यर्थदण्डादिशब्देषुद्रष्टव्यानि) एतानि त्रयोदश क्रियास्थानानि न भगवद्वर्धमानस्वामिन-वोक्तानि, अपि त्वन्यैरपीत्येतद्दर्शयितुमाहसे वेमि जे य अतीताजे य पडुप्पन्नाजे य आगमिस्सा अरिहंता भगवंता सवे ते एयाई चेव तेरस किरियाठाणाइ भासिंसु वा भार्सेति वा भासिस्संति वा पन्नाविंसुवा पन्नाविंति वापन्नविस्संति वा एवं चेव तेरसमं किरियाठाणं सेविंसु वा सेवंति वा सेविस्सति वा // 24 // (सेवेमीत्यादि) सोऽहं व्रवीमीति यत्प्रागुक्तं तद्वा ब्रवीमीति। तद्यथा-ये तेडितक्रान्ता ऋषभादयस्तीर्थकृतो, ये च वर्तमानाः क्षेत्रान्तरे सीमंधरस्वामिप्रभृतयो, ये चाऽऽगामिनः पद्मनाभादयोऽर्हन्तो भगवन्तः सर्वेऽपि ते पूर्वोक्तान्येतानि त्रयोदश क्रियास्थानान्यभाषन्त, भाषन्ते, भाषिष्यन्तेचा तथा तत्स्वरूपतस्तद्विपाकतश्च प्ररूपितवन्तः प्ररूपयन्ति प्ररूपयिष्यन्ति च / तथैतदेव त्रयोदशं क्रियास्थानं सेवितवन्तः सेवन्ते सेविष्यन्ते च। तथाहि-जम्बूद्वीपे सूर्यद्वयं तुल्यप्रकाशं भवति। यथा वा सदृशोपकरणाः प्रदीपास्तुल्यप्रकाशा भवन्त्येवं तीर्थकृतोऽपि निरावरणत्वात् कालत्रयवर्ति नोऽपि तुल्योपदेशा भवन्ति / / 24 / / सूत्र. 2 श्रु. 2 अ.। आव.। आ. चू. ध.। किरियाणय पुं० (क्रियानय) क्रियैव प्रधानमैहिकामुष्मिक फलप्राप्तिकारणं युक्तियुक्तत्वादित्यभ्युपगमपरे नयविशेषे, दश० / क्रियानयदर्शनं चेदम-क्रियैव प्रधानमैहिकामुष्मिकफलप्राप्तिकारणं युक्तियुक्तत्वात् / तथा चायमप्युक्तलक्षणामेव स्वपक्षसिद्धये गाथामाह णायम्मि गिण्हियत्वे, अगिण्हियवम्मि चेव अत्थम्मि / जइयव्वमेव इइ जो, उवएसो सो नओ नामं // 155|| दश० 1 अ०। तत्र क्रियानओ वदति-इह ज्ञातेऽवशुद्धे गृहीतव्यादिकेऽर्थे सर्वामपि पुरुषार्थसिद्धिमभिलषता यतितव्यमिति प्रवृत्त्यादिलक्षणा क्रियैव कर्तव्येत्येवम् / अत्र व्याख्याने एवकारः स्वस्थाने एव योज्यते। एवं च सतिज्ञातेऽप्यर्थे क्रियैव साध्या। ततो ज्ञानं क्रियोपकरणत्वाद्गौणमित्यतः सकलस्यापि पुरुषार्थस्य क्रियैव प्रधानं कारणमित्ययमुपदेशः / स नयप्रस्तावत् क्रियानयः। शेषं पूर्ववत् / अयमपि स्वपक्षसिद्धये युक्तीरुद्भावयतिननु क्रियैव प्रधानं पुरुषार्थसिद्धिकारणं प्रयत्नादिक्रियालक्षणविरहेण ज्ञानवतोऽप्यभिलषितार्थसंप्राप्त्यदर्शनात् / तथा चान्यैरप्युक्तम्-"क्रियैव फ लदा पुंसां, न ज्ञानं फलदं भतम् / यतःस्त्रीभक्ष्यभोगज्ञो, न ज्ञानात्सुखितो भवेत् / / 1 / / तथा आगमेऽपि तीर्थकरगणधरै : क्रियाविकलानां ज्ञानं निष्फलमेवोत्तम् - "सुबहुं पि सुयमहीयं, किं काही चरणविप्पमुक्कस्स। अंधस्स जह पलित्ता, दीवसयसहस्सकोडी वि। नाणं सविसयनिययं,न नाणमेत्तेण कजनिप्फत्ती।। मगन्नू दिवतो, होइसचेट्टो अचेट्टोव। जाणतो वियतरिठ, काइयजोगनजुंजईजो उ। सो वुज्झइसोएणं, एवं नाणी चरणहीणो' / / "जहा खरो चंदणभारवाही" इत्यादि। एवं तावत्क्षायो पशमिकीं वरणक्रियामङ्गीकृत्य प्राधान्यमुक्तम् / अथ क्षायिकीमप्याश्रित्य तस्या एव प्राधान्यमवसेयम्। यस्मादहतोऽपि भगवतः समुत्पन्नकेवलज्ञानस्यापि न तावन्मुक्तयवाप्तिः संपद्यते, यावदखिलकर्मेन्धनानलज्वालाकलापकल्पा शैलेश्यवस्थायां सर्वसंवररूपचारित्रक्रिया न प्राप्तेति, तस्मात् क्रियैव प्रधानं सर्वपुरुषार्थसिद्धिकारणम्। प्रयोगश्चात्र यद्यत्समनन्तरभावि तत्कारणं, यथाऽन्त्यावस्थाप्राप्तपृथिव्यादिसामध्यनन्तरभावी तत्कारणोऽङ्करः, क्रियाऽन्तरभाविनी च सकलपुरुषार्थसिद्धिरिति। ततश्चैष चतुर्विधसामायिके सर्वदेशविरतिसामायिके एव मन्यते / क्रियारूपत्वेन प्रधानमुक्तिकारणत्वात् सम्यक्तवश्रुत्य, सामायिके तु तदुपकारित्वमात्रतो गौणत्वान्नेच्छतीति। विशे०! आव०। आचा०ा आo म० द्वि० / व्य० / बृ०॥ सूत्र०ा नि० चू० / अधुना क्रियानयाभिप्रायोऽ-- भिधीयते / तद्यथा- क्रियैव प्रधानमैहिकामुष्मिकफलप्राप्तिकारणं, युक्तियुक्तत्वात्, यस्माद्दर्शितेऽपि ज्ञानेनार्थक्रियासमर्थेऽर्थे प्रमाता प्रेक्षापूर्वकारी यदि हानोपादानरुपा प्रवृत्तिक्रियां न कुर्यात्ततो ज्ञानं विफ लतामियात्तदर्थत्वात् तस्येति / “यस्य हि यदर्थं प्रवृत्तिस्तत्तस्य प्रधानमितरदप्रधानम्" इतिन्यायात् संविदा विषयव्यवस्थानस्याप्यर्थक्रियार्थत्वात् क्रियायाः प्राधान्यमन्वयव्यतिरेकावपि क्रियायां समुपलभ्येते। यतः सम्यकचिकित्साविधिज्ञोऽपि यथा पथ्यौषधावाप्तवपि प्रयोगनक्रियारहितो नोल्लाघतामेति। तथा चोक्तम् - "शास्त्राण्यधीत्यापि भवन्ति मूर्खाः, यस्तु क्रियावान् पुरुषः स विद्वान् / संचिन्त्यतामातुरमौषधं हि, न ज्ञानमात्रेण करोत्यरोगम्"। तथा"क्रियैव फलदा पुंसां, न ज्ञानं फलदं मतम् / यतः स्त्रीभक्ष्यभोगज्ञो, न ज्ञानात्सुखितो भवेत्।" इत्यादि / यत्क्रियायुक्तश्च यथाभिलाषितार्थभाग्भवत्यपि, कुत इति चेत् ? न
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy