________________ किरियाचरण 553 - अभिधानराजेन्द्रः भाग-३ किरियाट्ठाण पं तत्तृतीयम् / तृतीयो विभङ्गज्ञानभेदः / विभङ्गता चास्य कर्मणोऽदनिनानभ्युपंगमात् स्था०७ ठा०। किरियाजोग पु० (क्रियायोग) क्रियैव योगो योगोपायः। योगे, “तपः स्वाध्यायेश्वरप्रणिधानानि क्रियायोगः" इति पातञ्जल्युक्ते योगोपावभूते क्रियाभेदे, वाचं / सदाचारे च। द्वा०१४ द्वा०। क्रियासंबन्धे, वाच०। किरियाट्ठाण न० (क्रियास्थान) करणं क्रिया, कर्मबन्धनिबन्धना चेष्टेन्थर्थः। तस्याः स्थानानि भेदाः पर्यायाः। निषिद्धकरणादिषु प्रकारेषु, आव० 4 अ01 स० तत्प्रतिपादके सूत्रकृताङ्गस्य द्वितीयश्रुतस्कन्धस्य द्वितीयेऽध्ययने, सूत्र०। तन्निरुक्तिश्चैवम् - किरियाओ भणियाओ, किरियाठाणं तितेण अज्झयणं / अहिगारा पुणभणिओ, बंधेतह मोक्खमग्गेय 157 / सूत्र०नि० "किरियाओ" इत्यादि। तत्र क्रियन्त इति क्रियाः, ताश्च कर्मबन्धकारणत्वेनावश्यकान्तर्वर्तिनि प्रतिक्रमणाध्ययने, “पडिक्कमामि तेरसहिं किरियाठाणेहिं ति" अस्मिन् सूत्रेऽभिहिताः। यदि वा ऐहिकक्रिया भणिता अभिहितास्तेनेदमध्ययनं क्रियास्थानमित्युच्यते / तश्च क्रियास्थानं क्रियावत्स्वेव भवति, नाक्रियावत्सु / क्रियावन्तश्च केचिद्वध्यन्ते केचिन्मुच्यन्ते अतोऽध्ययनार्थाधिकारः पुनरभिहितः-'बन्धे तथा मोक्षमार्गे चेति। (क्रियायाः स्थानस्य च स्वस्थाने निक्षेपः) इह पुनर्यया क्रियया येन च स्थानेनाधिकारस्तदर्शयितुमाहससुदाणियाणिह तओ, समं पउत्ते य भावठाणम्मि। किरियाह पुरिसपादा-उए सटवे परीक्खेय १६१ासूत्र०नि०। "समुदाणीत्यादि / क्रियाणां मध्ये समुदानिका क्रिया व्याख्याता, तस्याश्च कषायानुगतत्वात् बहवो भेदा यतः, ततस्तासां समुदानिकानां क्रियाणामिह प्रकारे (तओ ति) अधिकारो व्यापारः सम्यक्प्रयुक्ते च भावस्थाने, तचेह विरतिरूपं संयमस्थानं प्रशस्तभावसंधानरुपं च गृह्यते / सम्यक्प्रयुक्तभावस्थानग्रहणसामर्थ्यदैर्यापथिकी क्रियाऽपि गृह्यते। समुदानिकक्रियाग्रहणाचाप्रशस्तभावस्थानान्यपि गृहीतानि / आभिश्च पूर्वोक्ताभिः क्रियाभिः पूर्वोक्तान् पुरुषान् तद्द्वारायातान्प्रावादुकांश्च परीक्षते सर्वानपीति / यथा चैवं तथा स्वत एव सूत्रकारः-- "तं जहा से एगइया मणुस्सा भवंति" इत्यादि। तथा प्रावादुकपरीक्षायामपि“णायउ उगरणं च विप्प जहा भिक्खायरियाए समुट्ठिया" इत्यादिना वक्ष्यतीति / गतो नियुक्तयनुगमः / सूत्र०। साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारयितव्यम्, तचेदम्सुयं मे आउसंतेणं भगवया एवमक्खायं; इह खलु किरियाट्ठाणे णामज्झयणे पण्णत्ते / तस्य णं अयमढे। इह खलु संजूहेणं दुवे हाणे एवमाहिजंति / तं जहा-धम्मे चेव,अधम्मे चेव, उवसंते चेव, अणुवसंते चेव / / 1 / / सुयं मे आउसंतेणामित्यादि / सुधर्मस्वामी जम्बूस्वामिनमुद्दिश्येदमाह-तद्यथा, श्रुतं मयाऽऽयुष्मता भगवतैवमाख्यातम् / इह खलु क्रियास्थानं नामाध्ययनम् / तस्य चायमर्थः-(इहखलु संजूहेणं ति) सामान्येन संक्षेपेण समासतो द्वे स्थाने भवतः / ये क्रियावन्तस्ते सर्वेऽप्यनयोः स्थानयोरेवमाख्यायन्ते / तद्यथा-धर्मे चैवाधर्मे चैव / इदमुक्तं भवति-धर्मस्थानमधर्मस्थानं च / यदि वा धर्मादनपेतं धर्म, विपरीतमधर्मम् / कारणशुद्ध्या च कार्यशुद्धिर्भवतीत्याह-उपशान्तं यत्तद्धर्मस्थानम्, अनुपशान्तं वाऽधर्मस्थानम् / तत्रोपशान्ते उपशमप्रधाने धर्मस्थानेऽधर्मस्थाने वा केचन महासत्त्वाः समासन्नोत्तरशुभादयो वर्त्तन्ते, परे च तद्विपर्यस्ते विपर्यस्तमतयः संसारभिष्वङ्गिणोऽधोऽधोगतयो वर्तन्ते। इह च यद्यप्यनादिभवाश्यासादिन्द्रियानुकूलतया प्रायशः पूर्वमधर्मप्रवृत्ता भवति, पश्चात्सदुपदेशयोग्याऽऽचार्यसंसर्गाद्धर्मस्थाने प्रवर्तते, तथाऽप्यभ्यर्हितत्वात्पूर्वं धर्मस्थानमुपशमस्थानं च प्रदर्शितं, पश्चात्तद्विपर्यस्तमिति // 1 // सांप्रतं तु यत्र प्राणिनामनुपदेशः स्वपरप्रवृत्त्यादावेवं स्थान भवति तदधिकृत्याह तत्थ णं जे से पढमस्स ठाणस्स अहम्मपक्खस्स विभंगे तस्स णं अयमढे पण्णत्ते / इह खलु पाईणं वा संतेगतिया मणुस्सा भवंति। तं जहा-आरिया वेगे अणारिया वेगे उच्चागोया वेगे णीयागोया वेगे कायमंता वेगे हस्समंता वेगे सुवन्ना वेगे दुवन्ना वेगे सुरूवा वेगे दुरूवा वेगे ||2|| तेसिं च णं इमं एतारूवं दंडसमादाणं संपेहाए। तं जहा-णेरइएसु वा तिरिक्खजोणिएसु वा मणुस्सेसुवा देवेसु वा जे यावन्ने तहप्पगारा पाणा विन्नू वेयणं वेयंति||३|| तत्रेति वाक्योपन्यासार्थे , णमिति वाक्यालङ्कारे, योऽसौ प्रथमानुष्टयतया प्रथमस्याधर्मपक्षस्य स्थानस्य विविधो भङ्गो विधारस्तस्यायमर्थ इति / इहास्मिन् जगति प्राच्यादिषु दिक्षु, मध्येऽन्यतरस्यां दिशि सन्ति विद्यन्ते एके केचन मनुष्याः पुरुषास्ते चैवंभूता भवन्तीत्याह। तद्यथा-आराद्याताः सर्वहयधर्मेभ्य इत्यार्याः / तद्विपरीताश्चाऽनार्याः, एके केचन भविन्त वावद् दुरूपाः,सुरुपाश्चेति / तेषां चाऽऽर्यादीनामिदं वक्ष्यमाणेकमेतद्रूपम् दण्डयतीति दण्डः, पापोदानानसंकल्पः, तस्य समादानं ग्रहणं [संपेहाए त्ति संप्रेक्ष्य / तश्चतुर्गतिकानामन्यतमस्य भवतीति दर्शयति-"तं जहेत्यादि / तद्यथा-नारकादिषु ये चान्ये तथा प्रकारास्तद्वेदवर्तिनः सुवर्णदुर्वर्णादयः प्राणाः प्राणिनो विद्वांसो वेदनांज्ञानं तद्भेद-यन्त्यनुभवन्ति। यदि वा सातासातरूपां वेदनामनुभवन्तीत्यत्र चत्वारो भङ्गाः / तद्यथा-संज्ञिनोक वेदनामनुभवन्ति विदन्ति च 1, सिद्धास्तु विदन्ति नानुभवन्ति२, असंज्ञिनोऽनुभवन्ति न पुनर्विदन्ति 3, अजीवास्तुन विदन्ति नाप्यनुभवन्तीति / / इह पुनः प्रथमतृतीयाभ्यामधिकारो, द्वितीयचतुर्थायव-स्तुभूताविति-- तेसिं पियणं इमाइं तेरस किरियाठाणाई भवंतीति मक्खायं / तंजहा-अट्ठादंभे अणट्ठादमे हिंसादंडे अकम्मादंडे दिट्ठीविपरियासियादंडे मोसवत्तिए अदिनादाणवत्तिए अज्झत्थवत्तिए माणवत्तिए मित्तदोसवत्तिए मायावत्तिए लोभवत्तिए इरिया वहिए।।४।। तेषां च नारकतिर्यड्मनुष्यदेवानां तथाविधज्ञानवतामिमानि वक्ष्यमाणलक्षणानि त्रयोदश क्रियास्थानानि भवन्तीत्येवमाख्यातं तीर्थक रगणधरादिभिरिति / कानि पुनस्तानीति दर्शयितुमाह [तं जहे त्यादि] तद्यथेत्ययमुदाहरणवाक्योपन्या