________________ किरिया ५४०-अमिधानराजेन्द्रः भाग-३ किरिया नो कन्जइ। जस्स पुण पारियावणिया कज्जइतस्स काइया नियमा कजइ / एवं पाणाइवायकिरिया वि 1 एवं आदिल्लाओ परोप्परं नियमा तिन्नि कन्जह / तस्स उवरिल्लायओ दोन्नि सिय कन्जइ,सिय नो कज्जइ। जस्स उवरिल्लाओ दोण्णि कजइ तस्स आदिल्लाओ नियमा तिन्नि कन्जइ। "जस्सणंभंते!" इत्यादि। इह कायिकी क्रिया औदारिका-दिकायाश्रिता प्राणातिपातनिर्वर्तनसमर्था प्रतिविशिष्टा परिगृह्यते / अनयोः काचन कार्मणकायाश्रिता वा ततआद्यानां तिसृणां, क्रियाणां परस्पर नियम्यनियामकभावः कथमिति चेत्? उच्यते-कायोऽधिकरणमपि भवतीत्युक्त प्राक् / तत : कायस्याधिकरणत्वात् कायिक्यां सत्यामवश्यमाधिकरणिकी,आधिकरणिक्यामवश्यं कायिकी / सा च प्रतिविशिष्टा कायिकी क्रिया प्रद्वेषमन्तरेण न भवति, ततः प्रादेषिक्याऽपिसह परस्परमविनाभावः / प्रद्वेषोऽपि च काये स्फुटलिङ्ग एव, वत्क्ररूक्षत्वादेस्तदविनाभाविनः प्रत्यक्षत एवोपलम्भात्। उक्तञ्च"रूक्षयति रुक्षतो ननु, वत्क्रं स्निह्यति च रज्यतः पुंसः। औदारिकोऽपि देहो, भाववशात्परिणमत्येवम्" // 1 // परितापनस्य प्राणातिपा तस्य चाद्यक्रि यात्रयसम्भवेऽप्यनियमः कथमिति चेत्? उच्यते यद्यसौ घात्यो मृगादिर्घातकेन धनुषा क्षिप्तेन वाणादिना विध्यते ततस्तस्य परितापनं मरणं वा भवति, नान्यथा, ततो नियमा भावः, परितापनस्य प्राणातिपातस्य च भावे पूर्व क्रियाणामवश्यंभावः, तासामभावे तयोरभावात्। ततोऽमुमर्थं परिभाव्य कायिकी शेषाभिश्चतसृभिः क्रियाभिः सह, आधिकरणकी ति सृभिः प्राद्वेषिकी द्वाभ्यां सूत्रतः सम्यक् चिन्तनीया।। पारितापनिकीप्राणातिपातक्रिययोस्तु सूत्रं साक्षादाहजस्स णं भंते ! जीवस्स पारियावणिया किरिया कज्जइ तस्स पाणाइवायकिरिया कन्जइ, जस्स पाणाइवायकिरिया कज्जइ तस्स पारियावणिया किरया कज्जइ? 1 गोयमा ! जस्स णं जीवस्स पारियावणिया किरिया कजइ तस्स पाणाइवायकिरिया सिय कज्जइ, सिय नो कज्जइ / जस्स पुण पाणाइवायकिरिया कजइ तस्स पारियावणिया किरिया नियमा कज्जइ / जस्सणं भंते ! णेरइयस्स काइया किरिया कन्जइ तस्स अधिगरणिया कन्जइ ? गोयमा ! जहेव जीवस्स तहेव णेरझ्यस्स वि। एवं जाव निरंतरं वेमाणियस्स। "जस्सणं भंते!" इत्यादि। पारितापनिक्याः सद्भावे प्राणातिपातक्रि या स्याद्भवति, स्यान्न भवति / यदा वाणाद्यसिघातेन जीवितात् च्याव्यते तदा भयति, शेषकालं न भवतीत्यर्थः। यस्य पुनः प्राणातिपातक्रिया तस्य नियमात्परितापनमन्तरेण प्राणव्यपरोपणा / संप्रति नैरयिकादिचतुर्विंशतिदण्डकक्रमेण परस्परमविनाभावं चिन्तयति“जस्स णं भंते ! नेरइयस्स काइया कज्जई" इत्यादि प्रतीतम्, भावितत्वात् / तदेवमेको दण्डक उक्तः। संप्रति कालमधिकृत्योक्तप्रकारेणैव द्वितीयदण्डकमाह - जं समयं णं भंते ! जीवस्स काइया किरिया कज्जइ तं समयं अधिगरणिया किरिया कज्जइ, जं समयं अहिगरणिया कन्जइ तं समयं काइया किरिया कन्जइ ? एवं जहेव आइलओ दंडओ तहेव भाणियध्वो जाव वेमाणियस्स // "जं समयं णं भंते !" इत्याद्यारभ्य सर्वं पूर्वोक्तं तदवस्त्र तावद्वक्तव्यं यावद्वैमानिकसूत्रम् / तथा चाह- "एवं जहेब आइलओ दंडओ तहेव भाणियव्वो जाव वेमाणियस्स" इति। समय ग्रहणेन चेह सामान्यतः कालो गृह्यतेन पुनः परमनिरुद्धो यथोक्तस्वरूपो नैश्चयिकः समयः, परितापनस्य प्राणातिपातस्य वा वाणादिक्षेपजन्यतया कायिक्याः प्रथमसमये एवासम्भवात्। एष द्वितीयो दण्डकः। सम्प्रति द्वौ दण्डकौ क्षेत्रमधिकृत्याहजं देसे णं भंते ! जीवस्स काइया कन्जइ तं देसं अहिगरणिया तहेव जाव वेमाणियस्स। जं पदेसे णं जीवस्स काइया किरिया कज्जइ तं पदेसं अहिंगरणिया किरिया कज्जइ / एवं तहेव जाव वेमाणियस्स / एवं एते जस्स जं समयं जं देसं जं पदेसं चत्तारि दंडका होति॥ "जं देसेणं भंते !" इत्यादि। अत्रापि सूत्रं पूर्वोक्तं तदवस्य तावद्वक्तव्य यावद्वैमानिकसूत्रम् / तथा चाह-"तहेव जाव वेमाणियस्स" एष तृतीयो दण्डकः / “जं पदेसे णं भंते ! जीवस्स काइया किरिया कजई" इत्यादिश्चतुर्थः / अत्रापि सूत्रं प्रागुक्तक्रमेण तावद्वक्तव्यं यावद्वैमानिकसूत्रम् / तथा चाह- "एवं तहेव जाव वेमाणिए" इति। दण्डकसंकलनामाहएवमेते इत्यादि / एताश्च यथा ज्ञानावरणीयादिकर्मबन्धकारणं तथा संसारकारणमपि, ज्ञानावरणीयादिकर्मबन्धस्य संसारकारणतया तद्धेतुत्वेन तासामपि संसारकारणत्वोपचारात्। तथा चाह कति णं भंते ! आओजियाओ किरियाओ पन्नत्ताओ। गोयमा! पंच आओजिताओ किरियाओ पण्णत्ताओ? तंजहाकाइया जाव पाणाइवायकिरिया। एवं नेरइया णं जाव वेमाणिया णं / / आयोजयन्ति जीवं संसारे इत्यायोजिकाः कायिक्यादिकाः। शेषं सर्व सुगमम्। सूत्रपाठस्तु पूर्वोक्तप्रकारेण तावद्वक्तव्यो यावत्--- जस्सणं भंते ! जीवस्स काइया आओजिता किरिया अस्थि, तस्स अहिगरणिया आओजिआ किरिया अत्थि, जस्स अधिगरणिया आओजिता किरिया अस्थि, तस्स काइया आओजिया किरिया अस्थि ? एवं एतेणं अमिलावेणं ते चेव चत्तारि दंडगा भाणियध्वा / जस्स जं समयं जं देसं जं पदेसं जाव वेमाणियाणं॥ (जस्सेति) यं समयमिति यं देसमिति यं प्रदेशमिति परिपूर्णाः चत्वारो दण्डकाः / यं समयमित्यादि “कालाध्वनोयाप्तौ" / / 2 / 2 / 42 / / इत्यधिकरणे द्वितीया। ततो यस्मिन् समये यस्मिन् देशे यस्मिन् प्रदेशे, इति व्याख्येयम्। जीवे णं भंते ! जे समयं काइयाए अहिगरणियाए पाओसियाए किरियाए पुढेतं समयं पारितावणियाए पुढे, पा