SearchBrowseAboutContactDonate
Page Preview
Page 560
Loading...
Download File
Download File
Page Text
________________ किरिया 536 - अभिधानराजेन्द्रः भाग-३ किरिया हाकर्मबन्धहेतुश्चेति मृषावादमायाभ्यां पृथगुपात्तम्। [मिच्छादसणसल्लेणं ति ] मिथ्यादर्शनं मिथ्यात्वं तदेव शल्यम्, तेन। (अट्ठारस एए दंडगा इति) एते अनन्तरोदितपदोल्लेखोपदर्शिताः सर्वसंख्ययाऽष्टादश दण्डका भवन्ति, प्राणतिपातादीनां पापस्थानानामष्टादशत्वात्। तदेवमष्टादशपापस्थानान्यधिकृत्य जीवानां क्रियाऽक्रियाविषयश्चोपदर्शितः। [6] साम्प्रतं तान्येवाधिकृत्य जीवानामेकत्वपृथक्तवाभ्यां कर्मबन्धत्वमुपदर्शयिषुराहजीवे णं भंते ! पाणाइवाएणं कति कम्मपगडीओ बंधइ ? गोयमा? सत्तविहबंधए वा अट्ठविबंधए वा, एवं णेरइए जाव वेमाणिए / जीवा णं भंते ! पाणाइवाएणं कति कम्मपयडीओ बंधति? गोयमा! सत्तविहबंधगा वि,अट्ठविहबंधगा वि। णेरइयाणं भंते ! पाणाइवाएणं कति कम्मपगडीओ बंधति ! गोयमा सव्वे विताव होजसत्तविहबंधगा अहवा सत्तविहबंधगाय अष्टविहबंधए य,अहवा सत्तविहबंधगाय, अट्टविहबंधगा य। एवं असुरकुमारा वि जाव थणियकुमारा / पुढविआउतेउवा-उवणस्सइकाइया य एए सव्वे वि जहा ओहिया जीवा अवसेसा जहाणेरइया / एवं एए जीवा एगिदियवजा तिन्नि भंगा सय्वत्थ भाणियव्व त्ति जाव मिच्छादसणसल्लेणं / एवं एगल्लपोहत्तिया छत्तीसं दंडगा हों ति। "जीवे णं भंते ! इत्यादि सुगमम्, नवरं सप्तविधबन्धकत्वमायुर्बन्धविरहकाले आयुर्बन्धकाले चाष्टविधबन्धकत्वं पृथक्त्व चिन्तायां सामान्यतोजीवपदे सप्तविधबन्धका अष्टविधबन्धका अपि सदैव बहुत्वेन लभ्यते, तत, उभयत्रापि बहुवचनमित्येवं रूप एक एव बन्धभङ्गः / नैरयिकसुत्रे सप्तविधबन्धका अवस्थिता एव, हिंसापरिणामपरिणतानां सदैव बहुत्वेन लभ्यमानानां सप्तविधबन्धकत्वस्यावश्यंभावित्वात्। ततो यदा एकोऽप्यष्ट-विधबन्धको न लभ्यते तदैष भङ्गः। सर्वेऽपि तावद्भवेयुः सप्तविधबन्धका इति / यदा पुनरेकोऽष्टविधबन्धकः, शेषाः सर्वे सप्तविधबन्धकास्तदा द्वितीयो भङ्गः। सप्तविधबन्धकाश्च अष्टविधबन्धकाश्च / यदा त्वष्टविधबन्धका अपि बहवो लभ्यन्ते तदोभयगतबहुवचनरूपस्तृतीयो भङ्गः। सप्तविधबन्धकाश्च अष्ट विधबन्धकाश्च / एवं भङ्गत्रयेणासुरकुमाराद योऽपि तावद् वक्तव्या यावत् स्तनितकुमाराः पृथिव्यप्तेजोवायुवनस्पतिकायिकाः। यथा सामान्यतो जीवा उक्तास्तथा वक्तव्या उभयत्रापि बहुवचनेनैकएव भङ्गो वक्तव्य इति भावः, पृथिव्यादीनां हिंसा-परिणामपरिणतानां प्रत्येकं सप्तविधबन्धकानामष्टाविधबन्धकानां च सदैव बहुत्वेन लभ्यमानत्वात्। शेषा द्वित्रिचतुरिन्द्रियतिर्यक्पचेन्द्रियमनुष्यव्यन्तरज्योतिष्कवैमानिका यथा नैरयिका भङ्गत्रिकेणोक्तास्तथा वक्तव्याः / यथा च प्राणालिपातेनैकत्वपृथक्याभ्यां द्वौ दण्डकावुक्तावेवं सर्वपापस्थानैरपि प्रत्येकं द्वौ द्वौ दण्डको वक्तव्यौ। तथा चाह- "जाव मिच्छादसणसश्लेणं / " सर्वसङ्ख्यया कियन्तो दण्डका भवन्तीति चेत्, अत आह-"एवं एगल्लपोहत्तिया छत्तीसं दंडगा होति" अष्टादज्ञानां द्वाभ्यां गुणने षट्त्रिंशद्भावात्।. (7) ज्ञानावरणीयादि कर्म बध्नन् जीवः कतिभिः क्रियाभिः समापयतीति बहुत्वमाश्रित्याहजीवे णं भंते ! नाणावरणिज्ज कम्मं बंधमाणे कति किरिए ? गोयमा! सिय तिकिरिए सिय चउकिरिए मिय पंचकिरिए जाव वेमाणिए / जीवा णं भंते ! नाणावरणिज्जं कम्मं बंधमाणा कति किरिया? गोयमा ! तिकिरिया वि चउकिरिया वि पंचकिरिया वि, एवं णेरइया जाव वेमाणिया। एवंदरिसणावरणीयं वेयणिशं मोहणिजं आउयं नामंगोयं अंतराइयं च अट्ठवि कम्मपगडीओ भाणियव्वाओ एगत्तपोहत्तिया सोलस दंडगा भवंति। "जीवाणं भंते!" इत्यादि। अथ कोऽस्य सूत्रस्यापि सम्बन्धः। उच्यतेइह प्रागुक्तं जीवप्राणातिपातेन सप्तविधमष्टाविधं वा कर्म बध्नाति, सतु तमेव प्राणतिपातं ज्ञानावरणीयादि कर्म बध्नन् कतिभिः क्रियाभिः समापयतीति प्रतिपाद्यते / अपिचकार्येण ज्ञानावरणीयाख्येन कर्मणा कारणस्य प्राणातिपाताख्यस्य निवृत्तिभेद उपदय॑ते, तद्भेदाच बन्धविशेषोऽपीति। उक्तञ्च- "तिसृभिः चतसृभिरथ पञ्चभिश्च हिंसा समाप्यते क्रमशः बन्धोऽस्य विशिष्टः स्याद्योगप्रद्वेषिसाम्यं वा" इति / तदेव प्राणातिपातस्य निवृत्तिभेदं दर्शयति-"सिय तिकिरिये" इत्यादि। स्यात्कदाचित् त्रिक्रियः, कदाचिचतुष्क्रियः, कदाचित्पञ्चकियः। तत्र त्रिक्रि यता कायिक्याधिकरणिकी प्राद्वंपिकीभिः क्रियाभिः। कायिकी नामहस्तपादादिव्यापारणम्। आधिकरणिकी-खङ्गादिप्रगुणीकरणम्। प्राद्वेषिकीमारयाम्येनमित्यशुभमनः- संप्रधारणमिति। चतुष्क्रियता कायिक्याधिकरणि कीप्राद्वेषिकीपारितापनिकीभिः। पारितापनिकी नामखङ्गादिघातेन पीडाकरणम्, पञ्चक्रियता यदा प्राणातिपातक्रियाऽपि पश्चमी भवति, प्राणातिपातक्रिया जीविताद्व्यपरोपणम् / एवं नैरयिकादारभ्य चतुर्विशतिदण्डकक्रमेण तावद्वक्तव्यं यावद्वैमानिकसूत्रम् / सूत्रपाठस्त्वेवम् - “नेरइया णं भंते ! नाणावरणिज्ज कम्मं बंधमाणे कइ किरिए पन्नत्ते” इत्यादि। तदेवमेकत्वेन दण्डक उक्तः / सम्प्रति बहुत्वेनाह"जीवा णं भंते !" इत्यादि प्रश्रसुत्रं सुगमम्। भगवानाह- गौतम ! जीवास्त्रिक्रिया अपि चतुष्किया अपि / किमुक्तं भववि? जीवा ज्ञानावरणीयं कर्मबध्नन्तः सदैव बहव एव त्रिक्रिया अपि चतुष्क्रिया अपि पञ्चक्रिया अपि लभ्यन्ते इत्येक एव भङ्गः / यथा च सामान्यतो जीवपदेऽभङ्गक तथा नैरयिकादिषु चतुर्विशतौ स्वस्थानेषु प्रत्येकमभङ्गक द्रष्टव्यम्, नैरयिकादीनामपि ज्ञानावरणीयं कर्म बध्नतां सदैव त्रिक्रि याणामपि चतुष्क्रियाणामपि पञ्चक्रियाणामपि च बहुत्वेन लभ्यमानत्वात्। यथा च ज्ञानावरणीय कर्माधिकृत्य एकत्वपृथक्तवाभ्या द्वौ दण्डकावुक्तौ तथा दर्शनावरणीयादीन्यपि कर्माण्यधिकृत्य प्रत्येक द्वौ द्वौ दण्डको वक्तव्यौ। तत एवं सति सर्वसंख्यया षोडश दण्डकाः।। जीवेणं भंते ! जीवातो कइ किरिए ? गोयमा ! सिय तिकिरिए सिय चउकिरिए सिय पंचकिरिए सिय अकिरिए।।
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy