________________ किरिया ५३५-अभिधानराजेन्द्रः भाग-३ किरिया “जीवाणं भंते!" इत्यादि सुगमम, नवरम् (संसारसमावन्नगा इति) संसारं | चतुर्गतिभ्रमणरूपं सम्यगकीभावेनापन्ना एवं संसारसमापनकाः / प्राकृतत्वात्स्वार्थे कप्रत्ययः। तद्विपरीता असंसारसमापन्नकाः! चशब्दौ / स्वगतानेक भेदसूचकौ / तत्र येऽसंसारसमापन्नकास्ते सिद्धाश्च | देहमनोवृत्त्यभावतोऽक्रियाः, ये तु संसारसमापन्नकास्ते द्विविधाःशैलेशीप्रतिपन्नका अशैलेशीप्रतिपन्नकाश्चा शैलेशी नामायोग्यवस्था, तां प्रतिपन्नाः शैलेशीप्रतिपन्नाः, ततः पूर्ववत्स्वार्थिकः कप्रत्ययः। शैलेशीप्रतिपन्नकाः / तद्व्यतिरिक्ताः अशैलेशीप्रतिपन्नकाः / तत्र शैलेशीप्रतिपन्नकास्ते सूक्ष्मबादरकायड्मनो योगनिरोधादक्रियाः, ये त्वशैलेशीप्रतिपन्नकास्ते सयोगित्वात् सक्रियाः। “सेतेणट्ठणं" इत्याधुपसंहारवाक्यम्। तदेवं से सक्रिया ये वाऽक्रियास्ते उक्ताः।। संप्रति यथा प्राणातिपातक्रिया भवति तथा दर्शयतिअत्थि णं मंते ! जीवाणं पाणाइवाएणं किरिया कन्जइ ? हता अत्थि / / “अत्थिणं भंते!” इत्यादि अस्त्येतत्, णमिति वाक्यालङ्कारे, भदन्त ! जीवानां प्राणातिपातेन प्राणातिपाताध्यवसायेन, क्रिया, सामर्थ्यात् प्राणातिपातक्रिया क्रियते / कर्मकर्तर्ययं प्रयोगो भवतीत्यर्थः / अनद्यतनयाऽभिप्रायात्मकोऽयं प्रश्नः / कतमोऽत्र नयोऽयमध्यवसायस्पृष्ट इति चेत्, उच्यते-ऋजुसूत्रम्। तथाहि-ऋजुसूत्रय हिंसापरिणतिकाल एव प्राणातिपातक्रियोच्यते, पुण्यपापकर्मोपादानुपादानयोरध्यवसायानुरोधित्वात्, नान्यथा परिणताविति। भगवानपितां ऋजुसूत्रयमधिकृत्य प्रत्युत्तरमाह- "हंता अत्थि। हन्तेति प्रेषणप्रत्यवधारणविवादेषु। अत्र प्रत्यवधारणे, अस्त्येतत् प्राणातिपाताध्यवसायेन प्राणातिपातक्रिया भवति / “परिणामियं पमाणं, णिच्छयमवलंवमाणाणं" इत्याद्यागमवचनस्य स्थितत्वात् / अमुमेव वचनमधिकृत्यावश्यकेऽपीद सूत्रं प्रावर्त्तिष्ट - " आया चेव अहिंसा, आयाहिं सत्ति निच्छओ एस" इति / तदेवं यथा प्राणातिपातक्रिया भवति तथोक्तम्। संप्रति कस्मिन् विषये सा प्राणातिपातक्रिया भवतीत्येतन्निरूपयतिकम्हिणं भंते ! जीवाणं पाणाइवाए णं किरिया कज्जइ ? गोयमा! छसु जीवणिकाएसु॥ 'कम्हिण' इत्यादि सुगमम, नवरं मारणाध्यवसायो जीवविषयो भवति नाजीवविषयोऽपि, रजवादौ सर्पादिबुद्ध्या मारणाध्यवसायोऽपि सर्पोऽयमिति बुझ्या प्रवर्त्तमानत्वात् जीवविषय एव, न खलु रजवादी रजवादितया परिच्छिन्ने कश्चित्तद्विषयं मारणाध्यवसायं विदधाति, ततः प्राणातिपातक्रिया षट्सु जीवनिकायेषूक्ता। एतामेव प्राणातिपातक्रियामुक्तप्रकारेण नैरयिकादिकं चतुर्विंशतिदण्डकमधिकृत्य चिन्तयतिअत्थि णं भंते ! नेरइयाणं पाणाइवाए णं किरिया कज्जइ !? गोयमा ! एवं चेव / एवं जाव निरंतरं वेमाणियाणं / (अत्थि णं भंते! इत्यादि) नवरमेष सूत्रपाठः- "अत्थिणं भंते! नेरइयाणं | पाणाइवाए णं किरिया कजइ? हंता अत्थि। कम्हिणं भंते ! पाणाइवारणं किरिया कज्जइ ? गोयमा ! छसु जीवनिकाएसु” एवं तावद्वाच्य यावद्वैमानिकसूत्रम् / तदेवं यथा प्राणातिपातक्रिया भवति यद्विषया च तत्प्रतिपादितम्। (5) संप्रत्येवमेव मृषावादादिविषयाण्यपि सूत्राण्याहअस्थि णं भंते! जीवाणं मुसावाएणं किरिया कजइ? हंता अत्थि। कम्हि णं भंते ! जीवाणं मुसावाएणं किरिया कज्जइ ? गोयमा ! सव्वदव्वेसु / एवं निरंतरंणेरइयाणं जाव वेमाणियाणं / अत्थि णं भंते / जीवाणं अदिन्नादाणेणं किरिया कन्जइ? हंता अत्थि / कम्हि णं भंते ! जीवाणां अदिनादाणेणं किरिया कजइ? गोयमा ! गहणधारणिज्जेसु दवेसु / वं रइयाणं निरंतरं जाव वेमाणियाणं अस्थि णं भंते ! जीवाणं मेहुणेणं किरिया कज्जइ? हंता अत्थि। कम्हिणं भंते ! जीवाणं मेहुणेणं किरिया कज्जइ? गोयमा! रूवेसु वा रूवसहगतेसु वा दव्वेसु / एवं णेरइयाणं जाव वेमाणियाणं / अस्थि णं भंते ! जीवाणं परिग्गहेणं किरिया कज्जइ? हंता अत्थिा कम्हिणं मंते! जीवाणं परिम्गहेणं किरिया कज्जइ? गोयमा ! सव्वदव्वेसु। एवं णेरइयाणं जाव वेमाणियाणं / एवं कोहेणं माणेणं मायालोभेणं पेजेणं दोसेणं कलहेणं अब्भक्खाणेणं पेसुन्नेणं परपरिवाएणं अरतिरतिए मायामोसेणं मिच्छादसण-सल्लेणं सव्वेसु जीवणेरड्यभेदेणं भाणियव्वं निरंतरंजाव वेमाणियाणं ति; एवं अट्ठारस एए दंडगा / / "अस्थि णं भंते ! मुसावाएणं" इत्यादि सुगमम्, नवरं (किरिया कज्जइ इति) यथायोगं प्राणातिपातादिका क्रिया भवतीत्यर्थः। तथा सतोऽलापोऽसतश्च प्ररूपणं मृषावादः, सचलोकालोकगतसमस्तवस्तुविषयोऽपि घटते। तदुक्तं मृषावादसूत्रम् - "सव्वदव्वेसु" इति। द्रव्यग्रहणमुपलक्षणम् तेन पर्यायेष्वपीत्यपि द्रष्टव्यम्। यथा यद्वस्तुगृहीतुं धारयितुं वा शक्यते तद्विषयमादानं भवति न शेषविषयमतोऽदत्तादानसूत्रे “गहण-धारणिज्जेसु दव्वेसु" इत्युक्तम्। मैथुनाध्यवसायेऽपि चित्रलेपकाष्ठादिकर्मगतेषु रूपेषु सहगतेषुवा स्त्रयादिषुततो मैथुनसूत्रे उक्तम्- “रूवेसुवा रूवसहगएसुवा इति / तथा परिग्रहः स्वस्वामिभावेन मूर्छा, सा च प्राणिनामतिलो-- भात्सकलवस्तुविषयोऽपि प्रादुर्भवति। ततः परिग्रहसूत्रे उक्तम् - “सव्यदव्वेसु" इति। अत एवान्यत्रापि प्रथमव्रतं सर्वजीववि-षयमुक्तम्, द्वितीयचरमे सर्ववतुविषये, चतुर्थे तदेकदेशविषये इति / उक्त"पढमम्मि सव्वजीवा, वीए चरिमे य सव्वदव्वाई। सेसा महव्वया खलु, तदेकदेसम्मि नायव्वा" ||1|| कोधादयः सुप्रतीताः, नवरं कलहो राटिः अभ्याख्यानमसदोषारोपणम् / यथा- अचौरेऽपि चौरस्त्वम्, अपारदारिकेऽपि पारदारिकस्त्वमित्यादि / इदं मृषावादेऽप्यन्तर्गतं परमुत्कृष्टोऽयं दोष इति पृथगुपात्तम् / पैशुन्यं परोक्षे सतोऽसतो वा दोषस्योद्घाटनम्। परपरिवादः प्रभूतजनसमक्षपरदोषविकत्थनम्। अरतिरती प्रतीते। इदमेकं समुदितं पापस्थानम्। (मायामोसेणमिति) माया च मृषा च समाहारो द्वन्द्वः। द्वन्द्वैकत्वं नपुंसकत्वमिति “क्लीदे" // 247|| इति ह्रस्वत्वम्, तेन इह समुदायो विवक्षितो म