________________ किइकम्म ५२४-अभिधानराजेन्द्र: भाग-३ किइकम्म जं किं चि मिच्छाए मणदुक्कमाए वयदुक्कमाए कायदुक्कडाए कोहाए माणाए मायाए लोभाए सव्वकालियाए सव्वमिच्छोवयाराए सव्वधम्माइक्कमणाए आसायणाए जो मे अइयारो कओ तस्स खमासमणो। पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि॥ अस्य व्याख्या, तल्लक्षणं चेदम्। 'संहिता चेत्यादि / तत्रास्खलितपदोचारणं संहिता।साच-इच्छामिखमासमणो। वंदिउंजावणिज्जाए णिस्सिहीआए त्ति इत्येवं सूत्रोचारणरूपा। अधुना पदविभाग:- इच्छामि क्षमाश्रमण। वन्दितुं यापनीयया नैषेधिक्या अनुजानीत मम मितावग्रहं नषेधिकी अध:कायं कायसंस्पर्शः क्षमणीयः भवतां क्लम: अल्पक्लान्तानां बहुशुभेन भवतां दिवसो व्यतिक्रान्त:, यात्रा भवतां, यापनीयं च भवतां क्षमयामि क्षमाश्रमण / दैवसिकव्यतिक्रमम्, आवशिक्या प्रतिक्र मामि, क्षमाश्रमणानां दैवसिक्या अशातनया त्रयस्त्रिंशदन्यतरया यत्किञ्चिन्मिथ्यया मनोदुष्कृतया वागदुष्कृतया कायदुष्कृतया क्रोधया मानया मायया लोभया सर्वकालिक्या सर्वमिथ्योपचारया सर्वधर्मातिक्रमणया अशातनया यो मया अतीचार: कृत: तस्य क्षमाश्रमण / प्रतिक्रमामि निन्दामि गर्हामि आत्मानं प्युत्सृजामि। एतावन्ति सर्वसूत्रपदानि। साम्प्रतं पदार्थ: पदविग्रहश्च यथासंभवं प्रतिपाद्यते-तत्र 'इषु' इच्छायामित्यस्योत्तमपुरुषैकवचनान्तस्य इच्छामीति भवति। क्षमूष् सहने इत्यस्य अड्प्रत्ययान्तस्य क्षमा। ' श्रमु' तपसि खेदे च, अस्य कर्तरि ल्यूट्। श्राम्यत्यसाविति श्रमणः / क्षमाप्रधान: श्रमणः क्षमाश्रमणः, तस्यामन्त्रणम्। वन्देस्तुमुद्धप्रत्ययान्तर वन्दितुम् ' या 'प्रापणे अस्य ण्यन्तस्य पुक् कर्तर्यनीयः, यापयतीति यापनीया, तया।' विधु' गत्यामस्य निपूर्वस्य पनि निषेधनं निषेधः, निषेधेन निवृत्ता नैषेधिका / प्राकृतशैल्या छान्दसत्वाद्वा नैषेधिकीत्युच्यते / एवं शेषपदार्थोऽवि प्रकृतिप्रत्ययव्युत्पत्त्या वक्तव्यः, विनेयासंमोहार्थं तु न ब्रूमः / अयं प्रकृतसूत्रार्थ:- अवग्रहाद् बहि: स्थितो विनेयोऽविनतकाय: करद्वयगृहीतरजोहरणो वन्दनायोद्यत एवमाहइच्छाम्यभिलाषामि हे क्षमाश्रमण / वन्दितुं नमस्कर्तु, भवन्तमिति गम्यते / यापनीयया यावत्शक्त्या नैषिधिक्या प्राणातिपातादिनिवृत्तया तया, शरीरेणेत्यर्थः / अत्रान्तरे गुरुयक्षिपादियुक्तः त्रिविधेनेति भणति। तत: शिष्य: संक्षेपवन्दनं करोति, व्याक्षेपादिविकलस्तु'छन्देणं ति भणति / ततो विनेयस्तत्रस्य एवमाहअनुजानीत अनुज्ञा प्रयच्छत, ममेत्यात्मनिर्देशिकम्। मितवासाववग्रहश्चेति मितावग्रहस्तं चतुर्दिविहाचार्यस्यात्मप्रमाणं क्षेत्रमवग्रहस्तमनुज्ञां विहाय प्रवेष्टुं न कल्पते। ततो गुरुर्भणति-अनुजानामि। तत: शिष्यो नैषेधिक्या प्रविश्य गुरुपादान्तिकं निधाय तत्र रजोहरणं तल्ललाटं च कराभ्यां संस्पृशन्निदं भणति-अधस्तात् काय: अध: काय: पदलक्षणः, तमधः- कायं प्रतिकायेन निजदेहेन संस्पर्श: कायसंस्पर्श:, तं करोम्येत-यानुजानीत, तथा क्षमणीयः, सह्यो भवताम्। अधुना क्रम: देहग्लानिरूपः, तथा अल्पं स्तोकं क्लान्त क्रमो येषां तेऽल्पक्लान्तास्तेषामल्पक्लान्तानां बहु च तत् शुभं च बहुशुभं, तेन बहुशुभेन, प्रभूतसुखेनेत्यर्थः / भवतां दिवसो व्यतिक्रान्त:, युष्माकमहर्गत-मित्यर्थः / अत्रान्तरे गुरुर्भणति-तथेति, | यथा भवान् ब्रवीत। पुनराह विनेय:- यात्रा तपोनियमादिलक्षणा, क्षायिकोपशमिकभावलक्षणा वा उत्सर्पति भवताम् / अत्रान्तरे गुरुर्भणतियुष्माकमपि वर्तते। मम तावदुत्सर्पते, भवतोऽप्युत्सर्पत इत्यर्थः। पुनरप्याह विनेय:- यापनीयं च इन्द्रियनोइन्द्रियोपशमादिना प्रकारेण भवतां, शरीरमिति गम्यते। अत्रान्तरे गुरुराहएवं आमं, यापनीयमित्यर्थः / पुनराह विनेय:-क्षमयामि मर्षयामि। क्षमाश्रमणेति पूर्ववत् / दिवसेन निवृत्तो दैवसिकस्तंव्यतिक्रममपराधम्, दैवसिकग्रहणं रात्रिकाद्युप लक्ष-णार्थम्। अत्रान्तरे गुरुर्भणति-अहमपि क्षामयामि दैवसिकंव्यतिक्रम, प्रमादोद्भवमित्यर्थः / ततो विनेय: प्रणम्यैवं क्षामयित्वा लोच-नाहेण च प्रमिक्रमणार्हण प्रायीश्चत्तेनात्मानं शोधयन् अत्रान्तरे अकरणतयोत्थायाऽवग्रहान्निर्गच्छन्यथा योव्यवस्थितस्तया क्रिययाप्रदर्शयन्नावशिक्येत्यादिकं दण्डकसूत्रं भणति। अवश्यं कर्तव्यैश्चरणकरणयोगैर्निर्वृत्ता आवश्यकी, तया आसेवनाद्वारेण हेतुभूतया, यदसाध्वनुष्ठितं तस्य प्रतिक्रमामि निवर्तयामीत्यर्थः / इत्थंसामान्येनाभिधाय विशेषेणभणतिक्षमाश्रमणानां व्यावर्णित स्वरूपाणां संबन्धितया दैवसिक्या दिवसेन निवृत्तया ज्ञानाद्याशातना तया, किं विशिष्टया ? त्रयस्त्रिंशदन्यतरया। आशातनाश्च यथा दशासु तथा द्रष्टव्याः / अत्रैव वाऽनन्तराध्ययने तथा द्रष्टव्या- "ताओ पुण तेत्तीसं पि आसायणाओ इमासु चउसु मूलासायणासु समोयरंति। तं जहा-दव्यासायणाए दव्वासायणाराइणिएण समं भुजंतो मणुन्नं असणं पाणं अप्पणो भुंजति, एवमुवहिसंथारगादिसु वि, भासा खेत्तासायणा आसन्नं गता भवति राइणियस्स। काला-सायणा राओ वा वियाले वा वाहरमाणस्स तुसिणीए चिट्ठइ। भावासायणा आयरियं तुमं तिवत्ता भवंति। एवं तेत्तीसंपि चउसु दव्वादिसु समोयरंति। यत् किञ्चिन्मिथ्याया यत्किश्चिदाश्रित्य मिथ्यया, मनसा दुष्कृता मनोदुष्कृता, तया, प्रद्वेषनिमित्तयेत्यर्थः / वाग्दुष्कृतया असाधुवचननिमित्तया, कायदुष्कृतया आसन्न-गमनादिनिमित्तया, क्रोधयेति क्रोधवत्येति प्राप्ते अदिराकृति गणत्वाद् अच्प्रत्ययान्तत्वाक्रोधया क्रोधानुगतया, मानया मानानुगतया, मायया मायानुगतया, लोभया लोभानुगतया। अयं भावार्थ:-क्रोधानुगतेन या काचिद्विनयभ्रंशादिलक्षणा आशातना कृता तयेति:, एवं दैवसिकी भणिता। अधुनेह भवान्यभवगतातीतानागतकालसंग्रहार्थ माहसर्व कालेनातीतादिना निर्वृत्ता सार्वकालिकी, तया! सर्वे एव मिथ्योपचारा: मातृस्थानगर्भा: क्रियाविशेषा यस्यामिति समासः, तया, सर्वधर्मा अष्टौ प्रवचन-मातर तासामतिक्रमणं लघनं यस्यसः सा सर्वधर्मातिक्रमणा, तया, एवंभूतया अशातनया इति निगमयति, यो मयाऽति-चार: अपराध: कृतो निर्वर्तितः, तस्यातिचारस्य हे क्षमाश्रमण / युष्मत्साक्षिकं प्रतिक्रम्य पुन: करणतया निवर्तयामीत्यर्थः / तथा दुष्टकर्मकारिणं निन्दाम्यात्मानं प्रशान्तेन भवोद्विगन्ने चेतसा, तथा गम्यिात्मानं युष्मत्साक्षिक, व्युत्सृजाम्यात्मानं दुष्टकर्मकारिणम्। तदनुमतित्यागेन सामायिकानुसारेण च निन्दादिपदार्थो न्यक्षेण वक्तव्यः / एवं क्षामयित्वा पुनस्तत्रस्थएवा-विनतकाय: एवंभणति-"इच्छामिखमासमणो"। इत्यादि सर्व द्रष्टव्यमित्येवम् नवरमय विशेष:- "खामेमि खमासमणो।" इत्यादि सर्व सूत्रमावशिक्या विरहित तत्पादपतित एव भ णति। शिष्यासंमोहार्थ सूत्रस्पर्शिकगाथा स्वस्थाने