________________ किइकम्म ५२२-अभिधानराजेन्द्र: भाग-३ किइकम्म ज्येष्ठे समागते सति वन्दनं भवति, इतरस्मिन्नपि प्रतीच्छितव्यम् / अत्र चायं विधि: "संभोइयमसंभोइ-या य दुविहा भवंति पाहुणया। संभोइय आयरियं, आपुच्छित्ता उ वंदति // इयर पुण आयरियं, वंदित्ता संदिसाविउं तह य। पच्छा वंदंति जई, गयमोहो अहव वंदावे॥" तथा आलोचनायां विहारापराधभेदभिन्नायां संवरणं भुक्ते प्रत्याख्यानम् / अथवा कृतनमस्कारसहितादिप्रत्याख्यानस्यापि पुनरजीर्णादिकारणतोऽभक्तार्थं गृह्णत: संवरणं तस्मिन्वन्दनं भवति। उत्तमार्थे चानशनसंलेखनायां वन्दनमित्येतेषु प्रतिक्रमणादिषु स्थानेषु वन्दनं भवतीति गाथार्थ: / / 143 // इत्थं सामान्येन नियतानियतस्थानानि वन्दनानि प्रदर्शितानि, सम्प्रतं नियतवन्दनस्थानसंख्याप्रदर्शनायाऽऽहचत्तारि पडिक्कमणे, किइकम्मा तिन्नि हुंति सज्झाए। पुव्वन्हे अवरन्हे, किइकम्मा चउदस हवंति // 144|| चत्वारि प्रतिक्रमणे कृतिकर्माणि, त्रीणि भवन्ति स्वाध्याये, पूर्वाह्न प्रत्यूषसि / कथम्- गुरुं पुव्वसंझाए वंदित्ता आलोएंति एयं एक्कं / अब्भुट्ठियावसाणे जं पुणो वंदंति गुरुं एतं वितीयं / एत्थ य विही पच्छा जहन्नेण तिन्नि। मज्झिमं पंच वा सत्त वा, उक्कोसं सव्वे विवंदियव्वा / जइ वाउलावक्खेवो वा तो एक्केण ऊणगा जाव तिन्नि अवस्सं वंदियव्व। एवं देवसिए पक्खिए पंच अवस्सं, चाउम्मासिए संवच्छरिए वि सत्त अवस्स ति। ते वंदिऊण जं पुण आयरियस्स अल्लिविज्जति तं ततियं, पच्चक्खाणे चतत्थं सज्झाए पुणो वंदिता पट्टहेंति। पढमे पट्ठविए पवेदयंतस्स वितियं पच्छा उदिटुं समुहिट्ट पढति। उद्देससमुद्देसवंदणाणमिहेवं तब्भावो ततो जाहे चउ-ठभागावसेसा पोरुसी ताहे पाए पभिलेहेति। जतिन पढिउकामो तो वंदति, अह पढिउकामो तो अवंदित्ता पाए पडिलेहेति। पडिलेहिता पच्छा पढति, कालवेलाए वंदिउं पडिक्कमति / एवं तइयं, एवं पूर्वाह्न सप्त, अपराह्नपि सप्तैव भवन्ति, अनुज्ञावन्दनानां स्वाध्यायवन्दनेष्वेवान्तर्भावात्। प्रतिक्रमणिकानि तु चत्वारि प्रसिद्धान्येवमेतानि ध्रुवाणि प्रत्यहं कृ तिकर्माणि चतुदर्श भवन्ति अभक्तार्थिक स्य। इतरस्य तु प्रत्याख्यानवन्दनेनाधिकानि भवन्तीति गाथार्थः / / 144 / / गतं कतिकृत्वो द्वारम्। आव०३ अ०। (15) कृतिकर्मस्वरूपनिरूपणम्दुवालसावत्ते कितिकम्मे पण्णत्ते / तं जहा-दुओणयं जहाजायं कितिकम्मं बारसावयं चउसिरं तिगुत्तं दुपवेसं एगनिक्खमणं / / द्वादशावर्त कृतिकर्म वन्दनकं प्रज्ञप्तम्। द्वादशावर्ततामेवास्यानुवन्दनशेषांश्च तद्धनिभिधित्सितं रूपकमाह- (दुओणयेत्यादि) अवनतिरवनतम्, उत्तमाङ्गप्रधानं प्रणमनमित्यर्थः। द्वे अवनते यस्मिंस्तद् व्यवनतम् / तत्रैकं यदा प्रथममेव-इच्छामि खमासम-णो। वंदिउं जावणिजाए निसीहियाए ति अभिधायावग्रहानुज्ञापनायात्रनमति, द्वितीयं पुनर्यदावग्रहानुज्ञापना यैवावनमतीति यथाजातं श्रमणत्वभवनलक्षणं जन्माश्रित्य योनिनिष्कमणलक्षणं च, तत्र च रजोहरणमुखवस्त्रिकाचोलपट्टमात्रया श्रमणो जातो रचितकरपुटस्तु | योन्या निर्गत एवंभूत एव वन्दते, तदव्यतिकोद्धा यथाजात भण्यते, कृतिकर्म वन्दनकम्। (वारसावयं ति) द्वादशावत: सूत्राभिधानगर्भाः कायव्यापारविशेषा: यतिजनप्रसिद्धा यस्मिस्तद् द्वादशावतम् / तथा(चउसिर त्ति) चत्वारि शिरांसि यस्मिंस्तचतुःशिरः। प्रथमप्रविष्टस्य क्षामणाकाले शैष्याचार्यशिरोद्वयं पुनरपि निष्क्रम्य प्रविष्टस्य द्वयमेवेति भावना। तथा-(तिगुत्तु त्ति) तिसुभि-गुप्तिभिर्गुतः / पाठान्तरेऽपि तिसृभिः श्रद्धागुप्तिभिरेवेति। तथा (दुपवेसं ति) द्धौ प्रवेशौ यस्मिंस्तद् द्विप्रवेशम्। तत्र प्रथमोऽवग्रह-मनुज्ञाप्य प्रविशतो, द्वितीय: पुनर्निर्गत्य प्रविशत इति। (एगनि-क्खमणं ति) एकं निष्क्रमणमवग्रहादावशिक्यान्निर्गच्छतः / द्वितीय-वेलायां ह्यवग्रहान्न निर्गच्छतिपादपतित एव सूत्रं समापयतीति। स०१२ सम०नि० चू०। कत्यवनतमित्याद्यद्वारं तदर्थप्रतिपादनायाऽऽहदुओणय जहाजायं, किइकम्मं वारसावत्तं / चउस्सिरं तिगुत्तं च, दुपवेसं एगनिक्खमणं / / 145 / / अवनतिरवनतम्, उत्तमागप्रधानं प्रणमनमित्यर्थ: / द्वे अवनते यस्मिंस्तद् व्यवनतम् / एवं यदा प्रथममेव-"इच्छामि खमासमणो। वंदिउं जावणिजाए निसीहियाए'' त्ति अभिधाय छन्दोऽनुज्ञापनाया वनमति द्वितीयं पुनर्यदा कृतावर्तो निष्क्रान्तः इच्छा-मीत्यादिसूत्रमभिधाय छन्दोऽनुज्ञापनायैवावनतमिति यथाजातं जन्मश्रमणत्वमाश्रित्य योनिनिष्क्रमणं च। तत्र रजोहरणमुखव-स्त्रिकाचोलपट्टकमात्रया श्रमणो जात:, रचित करपुटस्तु योन्या निर्गत:, एवंभूत एव वन्दते / तद्व्यतिरेका यथाजातं भण्यते, कृतिकर्म वन्दनम् / (वारसावत्तं ति) द्वादशावत्तः सुजाभिधान-गर्भा: कायव्याभारविशेषा यस्मिन्निति समास:, तद् द्वादशावतम् / इह च प्रथमप्रविष्टस्य षडावर्त्ता भवन्ति- अहोकायं कायसंफासं खमणिज्जो भे किलामो अप्पकिलंताण बहसुभेण भे दिवसो वइक्कतो, जत्ता मे जवणिजं च डे' एतत्सूत्रगर्भाः गुरुचरणन्यस्तहस्तशिर स्थापनरूपा निष्क्रम्य पुन: प्रविष्टस्याप्येत एव षडिति:, एतच्चा-पान्तरालद्वारद्वयमाद्यद्वारोपलक्षितमवगन्तव्यम् / गत कत्यवनत-द्वारम् / सांप्रतं कतिशिर एत्ये वारं व्याचिख्यासुरिदमपरं गाथाशकलमाह- (चउसिरमित्यादि) चत्वारि शिरांसि यस्मिंस्तचतु:शिरः, प्रथमप्रविष्टस्य क्षामणाकाले शिष्याचार्यशिरोद्वयं, पुनरपि निष्क्रम्य प्रविष्टस्य शिरोद्वयमेवेति भावनाद्वारम् / तिस्रो गुप्तयो यस्मिंस्तत् त्रिगुप्तम्। मनसा सम्यक् प्रणिहितम्, वाचा अस्खलितान्यक्षराण्युच्चारयन्, कायेन आवर्तने विराधयन् वन्दनं करोति यतः / चशब्दोऽवधारणार्थ: / द्धौ प्रवेशौ यस्मिस्तद् द्विप्रदेशम्। प्रथमोऽनुज्ञाप्य प्रविशतो, द्वितीय: पुनर्निर्गत्य प्रविशत इति। एक निष्क्रमणम् आवश्यकया निर्गच्छतः / एतच्चापान्तरालद्वारत्रयं कतिशिरोद्वारेणैवोपलक्षितमवंगन्तप्यमिति गाथार्थः / / 145 / / (18) सांप्रतं कतिभिर्वाऽऽवश्यक: परिशुद्धमितिद्वारार्थोऽभि-धीयते। तथाचाहअवणामा दुहा जाय, आवत्तो वारसे व य / / सीसा चत्तारि गुत्तीओ, तिन्नि दो अपसेवणा // 146 / / एगनिक्खमणं चेव, पणवीसं विराहिआ। आवस्सएहि परिसुद्धं, किइकम्मं जेहि कीरई // 147 / /