________________ किइकम्म ५२१-अभिधानराजेन्द्रः भाग-३ किइकम्म नित्यकालं सर्वकालं पार्श्वे तिष्ठन्तीति नित्यकालपार्श्वस्थाः / नित्यकालग्रहणमित्वरप्रमादव्यवच्छेदार्थ, तथा चेत्वरप्रभादानिश्चयतो ज्ञानाद्यपगमेऽपि व्यवहारतस्तु साधव एवेति। एते प्रस्तुता अवन्दनीयाः, किंभूता: ? यशोघातिन: यशोविनाशकाः। कस्य ? प्रवचनस्य, कथं यशोघातिन: ?, श्रमणगुणोपात्तं यद्यश: तत्तद्गुणवितथासेवनतो घातयन्तीती गाथाऽर्थः / / 126 // (12) पार्श्वस्थादिवन्दने चापायान् निदर्शयन्नाहकिइकम्मंच पसंसा, सुहसीलजणम्मि कम्मबंधाय। जे जे पमायठाणा, ते ते उववूहिया हुंति // 157 / / कृतिकर्म वन्दनं, प्रशंसाच-बहुश्रुतो विनीतो वाऽयमित्यादि-लक्षणा, सुखशीलजने पार्श्वस्थजने, कर्मबन्धाय / कथम् ? यतस्ते पूज्या एव वयमिति निरपेक्षतरा भवन्ति। एवं यानि यानि प्रमादस्थानानि, येषु विषीदन्ति पार्श्वस्थादयः, तानि तानि उपहितानि भवन्ति समर्थितानि भवन्त्यनुमतानि भवन्ति तत्प्रत्ययश्च बन्ध गाथाऽर्थः // 127 / / यस्मादेतेऽपायास्तस्मात्पार्श्वस्थादयो न वन्दनीया:, साधव एव वन्दनीया इति निगमन्नाहदंसणनाणचरित्ते, तवविणए निचकालमुजुत्ता। एए उवंदणिज्जा, जे जसकारी पवय णस्स / / 128 / / दर्शनज्ञानचारित्रेषु, तथा तपोविनययोः, नित्यकालं सर्वकाल म् , उद्युक्ता उद्यता एतेएव वन्दनीयाः,ये विशुद्धमार्गप्रभावनया यशःकारिणः प्रवचनस्येति माथार्थः / / 128 // (13) अधुना सुसाधुवन्दने गुणमुपदर्शयन्नाहकिइकमंच पसंसा, संविग्गजणम्मि निजरट्ठाए। जे जे विरइट्ठाणा, ते ते उववूहिआ हुंति / / 126 / / कृतिकर्मवन्दनं, प्रशंसाच-बहुश्रुतो विनीतः पुण्यभागित्यादि-लक्षणा, संविग्रजने निर्जरार्थाय कर्मक्षयाय, कथम् ? यानि यानि विरतिस्थानानि, रेषु वर्तन्ते ते संविग्ना:, तानि तान्युपबृंहितानि भवन्त्यनुमतानि भवन्ति, तदनुमत्या च निर्जरा। संविना: पुनर्द्विविधा: द्रव्यतो भावतश्च। द्रव्यसंविना मृगा:, पत्रेऽपि चलति सदा त्रस्तचेतसः, भवसंविनास्तु साधवः, तैरिहाधिकार इति गाथाऽर्थः / / 126 // गता समप्रञ्च पञ्चानां कृतिकर्मेत्यादिद्वारगाथा / निगमयतोतमोघतो दर्शनाधुपयुक्ता एव वन्दनीया इत्यधुना तानेवाचार्यादिभेदतोऽभिधित्सुराहआयरिअ उवज्झाओ, पवति थेरे तहेव रायणिए। एएसिं किइकम्म, कायव्वं निज्जरवाए // 130 // आचार्य उपाध्यायः प्रवर्तक: स्थविरस्तथैव रत्नाधिकः / एतेषां कृतिकर्म कर्तव्यं निर्जरार्थम्। तत्र चाचार्य: सूत्रार्थोभयवेत्ता, लक्षणादियुक्तश्च / आव०३ अ०। (अधिकमत्रत्यम्, पवत्तग शब्दे वक्ष्यते) प्रथमद्वारगाथायां गतं कस्येति द्वारम्(१४) अधुना केनेतिद्वारम् / केन कृतिकर्म कार्य, केन वानकर्तव्यम्, क: पुनरस्य करणोचितः, अनुचितो वेत्यर्थः / तत्र मातापित्रादिरनुचितो गणः / तथाचाह ग्रन्थकार: - मायरं पिअरं वा वि, जिट्ठगं वा वि भायरं / 131 / किइकम्मन कारिजा, सवे रायणिए तहा।। 138 // विअडप्पचक्खाणे,सुए अरयणाहिआ विहु करंति। मज्झिल्ले न करेई, सा चेव य तेसि पकरेई // 136 / / मातरं पितरं वाऽपि ज्येष्ठकं चापि भ्रातरम्, अपिशब्दान्मातामहपितामहा दिपरिग्रहः, कृतिकर्म अभ्युत्थितवन्दनं नकारयेत्. सर्वानू रत्नाधिकान्। तथा पर्यायज्येष्ठानित्यर्थः। किमिति? मात्रादीन्वन्दनं कारयत: लोकगों पजायते, तेषां च कदाचिद्विपरिणामो भवति। आलोचनप्रत्याख्यानसूत्रार्थेषु तु कारयेत्, सागारिकाध्यक्षं तु यतनया कारयेत्, एष प्रवज्याप्रतिपन्नानां विधिः / गृहस्थांस्तु कारयेदिति गाथार्थः // 136 // साम्प्रतं कृतिकर्मकरणोचितं प्रतिपादयन्नाहपंच महव्वयजुत्तो, अणलस माणपरिवजिअमईओ। संविग्ग निजरही, किइकम्मकरो हवइ साहू // 140 // पञ्च महाव्रतानि प्राणातिपातादिनिवृत्तिलक्षणानि तैर्युक्तः, (अ-णलस त्ति) आलस्यरहितः, मानवर्जितमति: जात्यादिमानपराङ्मुखमतिः, संविग्नः प्राग्व्याख्यात एव, निर्जरार्थी कर्मक्षयार्थी, एवंभूत: कृतिकर्मकारको भवति साधु:.एवं भूतेन साधुना कृतिकर्म कर्त्तव्यमिति गाथार्थ: // 140 / / गतं केनेति द्वारम्। (15) सांप्रतं कदेत्यायातम्, कदा कृतिकर्म कर्तव्य कदा वा नकर्त्तव्यमित्यत आहवक्खित्त पराहुत्ते, अपमत्ते मा कयाइवंदिजा। आहारं च करते, नीहारं वा जई करइ / / 141 // व्याक्षिप्तं धर्मकथादिना, (पराहुत्ते य ति) पराङ्मुखं च, चशब्दादुज्झनादिपरिग्रहः / प्रमत्तं क्रोधादिप्रमादेन, मा कदाचिद्वन्देत् आहार कुर्वाणं, नीहारं वा यदि करोति / इह च धर्मेन्तराया: नवधारणप्रकोपाहारान्तरायपुरीषनिर्गमादयो दोषा: प्रपञ्चेन वक्तव्या इति गाथार्थः // 141 // कदा तर्हि वन्देत इत्यत आहपसंते आसणत्थे अ, उवसंते द्रवहिए। अणुन्नवित्तु मेहावी, किइकम्म उद्वंजए।। 142 // प्रशान्तं व्याक्षेपरहितम्, आसनस्थं निषद्यागतम्, उपशान्तं क्रोधादिप्रमादरहितम्, उपस्थितं छन्देनेत्याद्यभिधानेन प्रत्युद्यतम्, एवंभूतं सन्तम्, अनुज्ञाप्य मेधावी, तत: कृतिकर्म प्रयुञ्जीत, वन्दनं कुर्यादित्यर्थः / अनुज्ञापनायां च आदेशद्वयम्-यानि ध्रुववन्दनानि तेषु प्रतिक्रमणादौ नानुज्ञापयति।यानि पुनरौत्पत्तिकानि तेष्वनुज्ञापयतीति गाथार्थः // 142 / / गतं कदेति द्वारम्। (16) अधुना कतिकृत्व: कृतिकर्म कार्य, कियन्तो वारा इत्यर्थः / तत्र प्रत्यहं नियतान्यनियतानि वन्दनानि भवन्त्यत उभयस्थान - निदर्शनायाह नियुक्तिकार:पडिकमणे सज्झाए, काउस्सग्गावराहपाहुणए। आलोअणसंवरणे, उत्तमढे अवंदणयं // 143 // प्रतीपं क्र मणं प्रतिक्रमणम्, अपराधस्थानेभ्यो गुणस्थानेषु वर्त्तनमित्यर्थः / तस्मिन्सामान्यतो वन्दनं भवति / तथा स्थाध्याये वाचनादिक क्षणे, कायोत्सर्ग यो हि विगतिपरिभोगायाचाम्लविसर्जनाथ क्रियते / अपराधे गुरुविनयलङ्घनरूपे यतस्तं वन्दित्वा क्षामयति पाक्षिकवन्दनान्यपराधे पतन्ति। प्राघूर्ण के