________________ किइकम्म ५२०-अभिधानराजेन्द्र: भाग-३ किइकम्म तीइ गुण मणविसुद्धी-इ कारणं हुंति पडिमाओ / / 62 // कामम् अनुमतमिदं यदुत उभयाभाव: सावद्येतरक्रियाभावः प्रतिमासु, तथापि फलं पुण्यलक्षणम्, अस्ति विद्यते, मनसो विशुद्धि: मनोविशुद्धिः, तस्या मनोविशुद्धेः सकाशात् / तथाहि स्वगतमनोविशुद्धिरेव नमस्कर्तुः पुण्यकारणं, न नमस्करणीयवस्तुगता क्रिया, आत्मान्तरे फलाभावात्। यद्येवं किं प्रतिमाभिरिति? उच्यते-तस्या: पुनर्मनोविशुद्धेः कारण निमित्त भवन्ति प्रतिमा:, तद्द्वारेण तस्याः संभूतिदर्शनादिति गाथार्थ: / / 62 // आह एवं लिङ्गमपि प्रतिमावन्मनोविशुद्धिकारणं भवत्ये-वेत्युच्यतेजइ वि अपडिमा उ जहा, मुणिगुणसंकप्पकारणं लिंग। उभयमवि अत्थि लिंगे, न य पडिभासूभयं अत्थि / / 63 / / यद्यपिच प्रतिमा यथा, मुनीनां गुणा: मुनिगुणा: व्रतादय:, तेषु संकल्प: अध्यवसाय: मुनिगुणसंकल्प: तस्य कारणं निमित्तं मुनिगुणसंकल्पकारणम् लिङ्गं द्रव्यलिङ्गम्, तथापि प्रतिमाभिः सह वैधर्म्यमेव, यत उभयमप्यस्ति लिङ्गे, सावद्यकर्म निरवद्यकर्म च / तत्र निरवद्यकर्मयुक्त एव यो मुनिगुणसंकल्प: स सम्यक्संकल्पः, स एव च पुण्यफल: / य: पुन: सावद्यकर्मयुक्तेऽपि मुनिगुणसंकल्प: स एव विपर्याससंकल्पः, क्लेशफलश्चासौ, विपर्यासरूपत्वादेव / न च प्रतिमासूभयमस्ति, चेष्टारहित्वात्। ततश्च तासु जिनगुणविषयस्य क्लेशफलस्य विपर्याससंकल्पस्याभाव:, सावद्यकर्मरहितत्वात् प्रतिमानाम्। आह- इत्थं तर्हि निरवद्यकर्मरहितत्वात् सम्यक्संकल्पस्याऽपि पुण्यफलस्याप्यभाव एव प्राप्त इति? उ-च्यते-तस्य तीर्थकर गुणाध्यारोपेण प्रवृत्ते भाव इति। तथा चाहनिअमा जिणेसु उगुणा, पडिमाओ दिस्स जं मणे कुणइ। अगुणे उ विआणतो, कं नमद मणे गुणं काउं॥६॥ नियमादिति नियमेनावश्यतया, जिनेषु तीर्थकरेष्वेव, तुशब्दस्याव धारणार्थत्वात्, गुणा ज्ञानादय:,न प्रतिमासु, प्रतिमाः दृष्ट्वा तास्वध्यारोपद्वारेण यन्मनसि करोति चेतसि स्थापयति, न पुन-नमस्करोति, अत एवासौ तासु शुभपुण्यफलो जिमगुणसंकल्पः, सावद्यकर्मरहितत्वात्। न चायं तासु निरवद्यकर्माभावमात्राद्विपर्याससंकल्प:, सावद्यकर्मोपेतवस्तुविषयत्वात् तस्य। ततश्चोभयविकल एवाकारमात्रतुल्ये कतिपयगुणान्विते वाऽध्यारोपोऽपि युक्तियुक्तः, (अगुणे तु इत्यादि) अगुणानेव; तुशब्दस्यावधारणार्थत्वात्, अविद्यमानगुणमेव विजानन्नवबुध्यमान: पार्श्वस्थादीन् (कं नमउमणे गुणं काउंति) के मनसि कृत्वा गुणं, नमस्करोतु तानिति। स्यादेतत्, अन्यसाधुसंबन्धिनं तेष्वध्यारोपमुखेन मनसि कृत्वा नमस्करोतु, न तेषां सावद्यकर्मयुक्ततया अध्यारोपविषयलक्षण-विकलत्वात्, अविषये चाध्यारोपमपि कृत्वा नमस्कुर्वतोदोष-दर्शनात्। आह चजह वेलंबगलिंग, जाणंतस्स नमओ हवइ दोसो। निद्धंधसमिअनाऊ-ण वंदमाणे धुवो दोसो // 65 / / कह लिंगमप्पमाणं, उप्पन्ने केवलेवि जं नाणे। ननमंति जिणं देवा, सुविहि अनेवत्थपरिहीणं / / 66 // यथा विडम्बकालिङ्ग भण्डादिकृतं जानतोऽवबुद्धमानस्य नमतो नमस्कुर्वतो सतोऽस्य भवति दोषः, प्रवचनहीलनादिल क्षणः / निद्धन्धसं प्रवचनोपघातानिरपेक्ष पार्श्वस्थादिकं (इय त्ति) एवं ज्ञात्वाऽवगम्य (वन्दमाणे धुवो दोसो त्ति) वन्दति नमस्कुर्वन्ति नमस्कतरि ध्रुवोऽवश्यंभावी दोषः, आज्ञाविराधनादिलक्षणः / पाठान्तरं वा"निबंधसं पि नाऊण, वंदमाणस्स दोसा उ" इदं प्रकटार्थमवेति गाथार्थ: / / 65 / / एवं न लिङ्ग मात्रमकारणतोऽवगतसावधक्रियं नमस्क्रियत इति स्थापितम् भावलिङ्गमपि द्रव्यलिङ्गरहितमित्थमेवावगन्तव्यम्। भावलिङ्गर्भ तु द्रव्यलिङ्गं नमस्क्रियते, तस्यैवाभिलषितार्थक्रियाप्रसाधकत्वात्। रूपकदृष्टान्तश्चात्राहरुप्पं टंक विसमा-हयक्खरं न विउ रूवओ छेओ। दुन्हें पिसमाओगे, रुप्पो छेअत्तणमुवेइ // 67 / / अत्र तावचतुर्भङ्गा:-रूपमशुद्धं, टङ्कं विषमाहताक्षरमित्येको भङ्गः। रूपमशुद्धं, टकं समाहताक्षरमिति द्वितीयः / रूपं शुद्धं, टङ्क विषमाहताक्षरमिति तृतीय: / रूपं शुद्धं, टङ्घसमाहताक्षरमिति चतुर्थः / अत्र च रूपकल्पं भावालिङ्ग, टङ्ककल्पं द्रव्यलिङ्गम्। इह च प्रथम-भङ्गतुल्याश्वरकादय:, अशुद्धोभयलिङ्गत्वात्। द्वितीयभङ्गतुल्या: पार्श्वस्थादयः, अशुद्धभावलिङ्गत्वात्। तृतीयभङ्गतुल्या: प्रत्येक-बुद्धा:, अन्तर्मुहूर्त्तमात्र कालमगृहीतद्रव्यलिङ्गाः / चतुर्थभङ्गतुल्या: साधवः शीलयुक्ता: गच्छगता निर्गताश्च जिनकल्पिकादयः / यथा रूपको भङ्गत्रयान्तर्गत: अत्थेक इत्यविकलतदर्थक्रियार्थिना नोपादीयते, चतुर्थभङ्ग निरूपित एवोपादीयते, एवं भङ्गत्रयानिदर्शितपुरुषा अपि परलोकार्थिनौघतो न नमस्करणीयाः, चरमभङ्गकानिदर्शिता एव नमस्करणीया इति भावना। अक्षराणि त्येवं नीयन्तरूपं शुद्धाशुद्धभेदं, टई विषमाहताक्षरं, विपर्यस्तनिविष्टाक्षरं, नैव रूपकश्छेक:, असांव्यवहारिके इत्यर्थः / द्वयोरपिशुद्धरूपसमाहताक्षरटङ्कयो: समायोगे सति रुपकश्छेकत्यमुपैतीति गाथार्थः // 67 // रूपकदृष्टान्ते दान्तिकनियोजनां निदर्शयन्नाहरुप्पं पत्तेअबुहा, टंकं जे लिंगधारिणो समणा / दव्वस्स य भावस्य य ,छेओ समणो समाओगे / / 6 / / रुपं प्रत्येकबुद्धा इत्यनेन तृतीयभडककाक्षेपः, टङ्क ये लिङ्गधारिण: श्रमणा इत्यनेन तु द्वितीयस्य, अनेनैवाशुद्धशुद्धोभयात्मकस्यापि प्रथमचरमभङ्गद्वयस्येति। तत्र द्रव्यस्य च भावस्य च छेकः श्रमण: समायोगे समाहत क्षरटङ्कशुद्धरूपककल्पद्रव्यभावलिङ्गसंयोगे शोभन: साधुरिति गाथार्थः // 68 / आव०३ अ०1 (ज्ञानप्राधान्यविचारोऽतथोपयुक्तत्वान्नात्र कृत:) अवसितमानुषङ्गिकम् , तस्मात् स्थितमिदं पञ्चानां कृतिकर्म न कर्त्तव्यम् , तथा च निगमयन्नाहदसणनाणचरित्ते, तवविणए निचकालपासत्था। एए अवंदणिज्जा, जे जसघाई पवयणस्स / / 126 // (दसणणाणचरित्ते त्ति) प्राकृ तशैल्या छान्दसत्वाच दर्शन - ज्ञानचारित्राणा, तथा तपोविनययोः (निश्चकालपासत्थ त्ति)