________________ किइकम्म ५१६-अभिधानराजेन्द्रः भाग-३ किइकम्म अहं पुनश्छद्मस्थ: / अतो लिगमेव रजोहरणं गच्छप्रतिग्रहधर-णलक्षणं, पूजयामि वन्दे इत्यर्थः, त्रिकरणशुद्धन भावेन वाकायशुद्धेन मनसेति गाथार्थः // 45 // आचार्य आह- (जइते) यदीत्य-यमभ्युपगमप्रदर्शनार्थः / ते तव लिंङ्ग द्रव्यलिङ्गम्। अनुस्वारोऽत्र लुप्तो वेदितव्यः।। प्रमाणं कारणं वन्दनकरणे, इत्यं तर्हि वन्दस्व समाव निहवान् जमालिप्रभृतीन् त्वं सर्वान्निरवशेषान्, द्रव्यलिङ्गादियुक्तत्वात्तेषामिति। अथैतान्मिथ्यादृष्टित्वान्न वन्दसे, ननु एतान् द्रव्यलिङ्गयुक्तानप्यवन्दमानस्याप्रणमत: लिङ्गमप्यप्रमाणं तव वन्दनप्रवृत्ताविति गाथार्थ: / / 46 // इत्थं लिङ्गमात्रस्य वन्दनप्रवृत्तावप्रमाणतायां प्रतिपादितायां सत्यामनभिनिष्ट एव सामाचारी जिज्ञासया आह चोदक: (जइ त्ति) यदि लिङ्गं द्रव्यलिङ्गमप्रामाणम् अकारणं वन्दनप्रवृत्तौ, इत्थं तर्हिन ज्ञायते नावगम्यते, निश्चयेन परमार्थेन, छद्मस्थेनजन्तुना कस्य को भाव: ? यतोऽसंयता अपिलब्धयादिनिमित्तं संयतवच्चेष्टन्ते, संयला अपि च कारणत: असंयतवदिति / तदैवं व्यवस्थिते दृष्टा आलोक्य, श्रमणलिङ्गं साधुलिङ्गं, किं पुन: कर्त्तव्यं श्रमणेन साधुना। पुनःशब्दार्थस्तुशब्द:, व्यवहितश्वोक्तगाथानुलोभ्यादिति गाथार्थः // 47 11 एवं चोदकेन पृष्टः सन्नाहाचाH:- (अपुव्वं ति) अपूर्वमदृष्टपूर्व साधुमिति गम्यते / दृष्टयाऽवलोक्याभिमुख्येनोत्थानमभ्युत्थानम् आसनत्यागलक्षणम्, तुशब्दाद्दण्डकादिग्रहणं च भवति कर्त्तव्यम्। किमिति कदाचित्कश्चिदसौ आचार्यादि: विद्याऽऽद्यतिशयसंपन्न: तत्प्रदानायैवागतो भवेत् शिष्यसकाशमाचार्यकालकवत्, सखल्वविनीतं संभाव्य | न तत्प्रयच्छति। तथा दृष्टपूर्वास्तु द्विप्रकारा:-उद्यत-विहारिणः, शीतलविहारिणश्च। तत्रोद्यतविहारिणि साधौ दृष्टपूर्वे उपलब्धपूर्वे यथार्ह यथायोग्यमभ्युत्थानं वन्दनादियस्य बहुश्रुतादेर्यद्योग्य, तत्कर्त्तव्यं भवति। य: पुन: शीतलविहारी, न तस्याभ्युत्थानवन्दनादि उत्सर्गत: किञ्चित्कर्तव्यमिति गाथार्थः // 46 // आव० 3 अ०। एतच वाइनमस्कारादिना विशेषेण क्रियते, किं तर्हिपरिआउ बंभचेरं, परिसविणीआ सि पुरिस नच्चा वा। कुलकजादांयत्ता, आघवउ गुणागमसुअंवा / / 5 / / खित्तिम्मिसंवसिज्जइ, जस्सपमावेण निरुवसग्गं तु॥ ओमम्मि अपडितप्पइ, साहणं आगमंतू अ // 15 // एवं विहस्स कुज्जा, उत्पन्ने कारणप्पगारम्मि। कलिऊण जहाजुग्गं, वायाईणि अ समग्गाणि / / 56 // पर्यायो ब्रह्मचर्यमुच्यते, तत्प्रभूतं कालमनुपालितं येन, परिषद्धिनीता वा तत्प्रतिबद्धा साधुसंहति: शोभना (से) तस्य (पुरिस नचा व त्ति) पुरुषं ज्ञात्वा वा। अनुस्वारोऽत्र द्रष्टव्यः / कथं ज्ञात्वा ? कुलकार्यादीन्यनेनायत्तानि, आदिशब्दाद्गणसंघकार्यपरिग्रहः / (आघवउत्ति) आख्यातस्तस्मिन् क्षेत्रे प्रसिद्धः, तबलेन तत्रास्यत इति क्षेत्रद्धारार्थः / (गुणागमसुयं व त्ति) गुणा अवमप्रतिजागरणादय इति कालद्वारावयवार्थ: / आगम: सूत्रार्थो भयरूपः, श्रुतं सूत्रमेव, गुणाश्चागमश्च श्रुतं चेत्येकवद्भावः / तद्वाऽस्येति विद्यत इत्येवं ज्ञात्वेति गाथार्थ: / आव०३अ०॥ ('एआइ' 57 गाथा 516 पृष्ठे बृहत्कल्पपाठेन गतार्था) एवमुद्यतेतविहारिगतविधौ प्रतिपादिते सत्याह चोदक:भिन्नोऽनेन पर्यायान्वेषणेन सर्वथा भावशुद्ध्या कर्मापनयनाय जिनप्रणीतलिङ्गिनमेव युक्तं, तद्गतगुणविचाराय निष्फलत्वात्। न हि तद्गतगुणप्रभवा नमस्कर्तुर्निजरा अपितु आत्मीयाध्यात्म-शुद्धिप्रभवा / तथाहितित्थयरगुणा पडिमा- सु नल्थि निस्संसयं विआणतो। तित्थयरु त्ति नमंतो, सो पावइ निजरं विंउलं // 58|| तीर्थकरस्य गुणा ज्ञानादयस्तीर्थकरगुणा: ते प्रतिमासु विम्ब-लक्षणासु (नत्थि)न सन्ति नि:संयशं संशयरहितं विजानन् अवबुध्यमानस्तथापि तीर्थकरोऽयमित्येवं भावशुद्ध्या नमन् प्रणमन्प्रणामकर्ता प्राप्नोत्यासादयति निर्जरा कर्मक्षयलक्षणां विपुलां विस्तीर्णामिति गाथार्थः / / 58 // एष दृष्टान्तोऽयमर्थोपनय:लिगं जिणपन्नत्तं, एवं नमंतस्स निजरा विउला। जइ वि गुणविप्पहीणं, वंदइ अज्झप्पसोहीए // 56 / / लिङ्गयतेऽनेन साधुरिति लिङ्गं रजोहरणादिधरणलक्षणम् जिनरर्हद्भिः प्रज्ञप्तं प्रणीतम्। एवं यथा प्रतिमा इति नमस्कुर्वतः प्रणमतः निर्जरा विपुला, यद्यपि गुणैर्मूलोत्तरगुणैर्विविधमनेकधा प्रकर्षण हीनंरहितंगुणविप्रहीणंवन्दते नतस्करोति, अध्यात्मशुझ्या चेत:शुद्ध्येति गाथार्थ: / / 56 // इत्थं चोदकेनोक्ते दृष्टान्तदाष्टान्तिकयोवैषम्यमुपदर्शयन्नाहाचार्य :संता तित्थयागुणा, तित्थयरें तेसिमं तु अज्झप्पं / नय सावजा किरिआ, इअरेसु धुवा समणुमन्ना // 60 // सन्तो विद्यमाना: शोभना वा तीर्थकरस्य गुणा: ज्ञानादयः, क्व तीर्थकरे अर्हति भगवति, इयं च प्रतिमा तस्य भगवतः। (तेसिमं तु अज्झप्पं) तेषा नमस्कुर्वतामिदमध्यात्मम् इदंचेतः, तथा नचतासुसावद्या सपापा, क्रिया चेष्टा, प्रतिमासु, इतरेषु पार्श्वस्थादिषुधुवा अवश्यंभाविनी सावद्या क्रिया। प्रणमतस्तत्र कि मित्यत आह-(समणुमन्ना) समनुज्ञा सावधक्रियायुक्त पार्श्वस्थादिषु प्रणमनात्सावधक्रियानुमतिर्रिति हृदयम् / अथवा सन्तस्तीर्थङ्करगुणास्तीर्थकरे तान् वयं प्रणमामः, तेषामिदमध्यात्मम् इदं चेतः, ततोऽर्हद्गुणाध्यारोपेण प्रतिमाप्रणमनान्नमस्कर्तुनच सावधक्रिया परिस्पन्दनलक्षणा, इतरेषु पार्श्वस्थादिषु पूज्यमानेष्वशुभक्रियो पेत्वात् तेषां नमस्कर्तुधुवा समनुज्ञेति गाथाऽर्थः / / 60 // पुनरप्याह चोदक :जह सावजा किरिया, नत्थि उपाडिमासु एवमिअरा वि। तयभावे नत्यि फलं, अह होइ अहेउ होइ // 61 / / यथा सावद्या क्रिया सपापा क्रिया नास्त्येव न विद्यत एव प्रतिमासु, एवमितराऽपि निरवद्याऽपि नास्त्येव। ततश्च तदभावे निरवद्यक्रियाभावे नास्ति फलं पुण्यलक्षणम्, अथ भवति, अहेतुकं भवति निष्कारण च भवति, प्रणभ्य वस्तुगतक्रियाहेतुकत्वात्फलस्येत्यभिप्राय: 1 अहेतुकत्वे चाकस्मिककर्मसंभवान्मोक्षाद्यभाव इति गाथाऽर्थः // 61 // इत्थं चोदकेनोक्ते सत्याहाऽऽचार्य: - कामं उभयाभावो, तह वि फलं अस्थि मणविसुद्धीए। पुनरप्याह याद