SearchBrowseAboutContactDonate
Page Preview
Page 542
Loading...
Download File
Download File
Page Text
________________ किइकम्म ५१५-अभिधानराजेन्द्र: भाग-३ किइकम्म अत्राह चाचार्य:- यत्किञ्चिदेतद्, न हि दृष्टान्तमात्रादे वाभिलषितार्थसिद्धः संजायते, यत:भावुगअभावुगाणि अ, लोए दुविहाई हुंति दव्वाई। वेरुलिओ तत्थ मणी, अभावगो अन्नदय्वोहिं॥३७॥ भाव्यन्ते प्रतियोगिनां स्वगुणैरात्मभावमापद्यन्त इति भाव्यानि कपिल्लुकादीनि, प्राकृतशैल्या भावुकान्युच्यन्ते। अथवा प्रतियोगिनि सति तद्गुणापेक्षया तथा भवनशीलानि भावुकानि, लषपतपदस्थाभूवृषहनक मगमशृभ्य उकञ् // 37 // इत्यकञ्। तस्य ताच्छीलिकत्वादिति। तद्विपरीतानि अभाव्यानि च नलादीनि। लोके द्विविधानि द्विप्रकाराणि भवन्ति द्रव्याणी वस्तूनि / वैडूर्य्यस्तत्र मणिरभाव्यः अन्यद्रव्यैः काचादिभी रहित इति गाथार्थः // 37 // स्यान्मतिर्जीवोऽप्येवम्भूत एव भविष्यति, न पार्श्वस्थादिसंसर्गेण तद्भावं यास्यतीत्येतचासन् / यत: जीवो अणाइनिहणो तब्मावणभाविओ असंसारे। खिप्पं सो भाइ, मेलणदोसाणुभावेणं / / 38 / / जीव: प्रानिरूपितशब्दार्थः, सोऽनादिनिधन:, अनाद्यपर्यन्त इत्यर्थः / तद्भावनाभावितश्च पार्श्वस्थाद्याचरितप्रमादादिभावनाभावितश्य, संसारे तिर्यझरनारकामरभवानुभूतिलक्षणे, ततश्च तद्भावनाभावितत्वात् क्षिप्रं शीघ्रं स भाव्यते प्रमादादिभावनया आत्मीक्रियते, मीलनदोषानुभावेन संसर्गदोषानुभावेनेति गाथार्थः // 38 // अथ भवतो दृष्टान्तमात्रेण परितोषः, ततो मद्विवक्षितार्थप्रति-पादकोऽपि दृष्टान्तोऽस्त्येव / शृणुअंबस्स य निंबस्स य, दुन्हें पि समागयाइँ मूलाई। संसग्गीइं विणट्ठो, अंबो निगत्तणं पत्तो / / 36 // सुचिरं पि अत्थमाणो, नलथंभो उच्छुवाडमज्झम्मि। कीस न जायइ महुरो, जइ संसग्गी पमाणं ते / / 10 / / चिरंपतिततिक्तनिम्बोदकवासितायां भूमौ अम्बवृक्षः समुत्पन्न:, पुनस्तत्राभ्रस्य निम्बस्य च द्वयोरपि समागते एकीभूते मूले, ततश्च संसर्गात्यंगत्या विनष्ट आभ्रः, निम्बत्वं प्राप्तः, तिक्तफल: संवृत्त इति गाथार्थः // 36 // तदेवं संसर्गिदोषदर्शनात् त्याज्या पार्श्वस्थादिसंसर्गिरिति / पुनरप्याह चोदक:नन्वेतदपि सप्रतिपक्षम्, तथाहि- (सुचिरं पित्ति) सुचिरमपि प्रभूतमपि कालं तिष्ठन् नलस्तम्बो वृक्षविशेष: इक्षुवाटमध्ये इक्षुसंसर्गत: किमिति न जायते मधुरः, यदि संसर्गि: प्रमाणं तवेति गाथार्थः॥४०॥ आचार्य आह-ननु विहितोत्तरमेतत्"भावुगअभावुगाणि'' इत्यादिना ग्रन्थेन, अत्रा-पिच केवली अभाव्यः पार्श्वस्थादिभिः, सरागास्तु भाव्या इति। आह-तै: सहालापमात्रतायां संसर्गीक इव दोष उच्यतेऊणगसयभागेणं, बिंबाइं परिणमंति तब्भावं। लवणागराइसु जहा, वजेह कुसीलसंसग्गि।। 41 // ऊनश्चासौ शतभागश्चोनशतभाग:, शतभागोऽपि न पूर्य्यत इत्यर्थः। तेन तावतांशेन प्रतियोगिना सह संगद्धानीति प्रक्रमाद्गम्यते / बिम्बानि | रूपाणि परिणमन्ति तद्भावमासादयन्ति, लवणीभवन्तीत्यर्थः / लवणाकरादिषु यथा, आदिशब्दात्खण्ड खादिखारकादिग्रहः, तत्र किल लोहमपि तद्भावमासादयति। तथा पार्श्वस्थाद्यालापमात्रसंसर्गादपि सुविहितास्तमेव भावं यान्ति, अत: (वजेह कुसीलसंसगि) वर्जयत कुशीलसंसर्गि परित्यजत कुशील-संसर्गमिति गाथार्थ: / / 41 / / पुनरपि संसर्गिदोषप्रतिपादनायैवाहजह नाम महुरसलिलं,सागरसलिलं कमेण संपत्तं / पावंइ लोणभावे, मेलणदोसागुभावेणं / / 12 / / एवं खु सीलवंतो, असीलवंतेहि मीलिओ संतो। पावइ गुणपरिहाणिं, मेलणदोसागुभावेणं // 43 / / यथेत्युदाहरणोपन्यासः, नामेति निपात: / मधुरसलिलं नदीपयः, तत्र लवणसमुद्रं क्रमेण परिपाट्या प्राप्तं सत् (पावेति लोणभावं ति) प्राप्नोति आसादयति लवणभावं क्षारभावं मधुरमपि सन्मीलनदोषानुभावेनेति गाथार्थः // 42 // (एवं खुत्ति) खुशब्दोऽवधारणे, एवमेव, शीलमस्यास्तीति शीलवान् , स खल्वशीलवद्धिः पार्श्वस्थादिभिः सार्द्ध मिलित: सन्प्राप्नोति आसादयति, गुणा: मूलोत्तरगुणलक्षणाः, तेषां परिहाणिरपचय:, तांस्तथैहिकांश्चापायान्तत्कृतदोषसमुत्थानिति मीलनदोषानुभावेनेति गाथार्थः // 43 // यतश्चैवमत:खणमवि न खमं काउं, अणाययणसेवणं सुविहिआणं / हंदि समुद्दमइगयं, उदयं लवणत्तणमुवेइ॥ 45 // सुविहिअदुविहिवा, नाहं जाणामि हं खुछउमत्थो। लिगं तु पूअयामी, तिगरणमुद्धेण भावेणं / / 45 / / जइ ते लिंग पमाणं, वंदेही निन्हए तुमं सव्वे। एए अवंदमाण-स्स लिंगमवि अप्पमाणं ते // 46 // जइ लिंगमप्पमाणं, न नजई निच्छएण को भावो। दहण समणलिंग, किं कायव्वं तु समणेणं // 47 // अप्पुटवं दट्ठणं, अभ्युट्ठाणं तु होइ कायव्वं / साहुम्मि दिट्ठपुटवे, जहारिहं जस्स जं जुग्गं / / 48 // लोचननिमेषमात्र: काल: क्षणोऽभिधीयते, तं क्षणमपि, आस्तां तावन्मुहूर्तोऽन्यो वा कालविशेष:,न क्षमं न समर्थमयोग्यम् किं कर्तुम् ? (अणाययणसेवणं ति) कर्तुं निष्पादयितुं अनायतनं पार्श्वस्थाद्यायतन, तस्य सेवनं भजनम् अनायतनसेवनम् केषाम् ? सुविहितानां साधूनाम्, किमित्यत आहहन्दीत्युपप्रदर्शने, समुद्रमतिगतं लवणजलधिप्राप्तमुदकं मधुरमपि सत् लवणत्वमुपेति क्षारभावमुपेति। एवं सुविहितोऽपि पार्श्वस्थादिदोषसमुद्रं प्राप्तस्तद्भावमाप्नोति। अत: परलोकार्थिना तत्संसर्गिस्त्याज्योति // 44 // ततश्च व्यवस्थितमिदम्येऽपि पार्वस्थादिभि: सार्द्धसंसर्गिकुर्वन्तितेऽपिनवन्दनीया:, सुविहिता एवं वन्दनीया इत्यत्राह(सुविहिय त्ति) शोभनं विहितमनुष्ठानं यस्यासौ सुविहितस्तम् / अनुस्वारलोपोऽत्र द्रष्टव्यः / दुर्विहि तस्तु पार्श्वस्थादिस्त दुर्विहितं वाऽहं न जानामि नाहं वेधि, यतोऽन्त: करणशुद्धयशुद्धिकृतं सुविहितदुर्विहितत्वम्, परभावस्तु तत्वत: सर्वज्ञविषयः,(अहं खु छउमत्थो त्ति)
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy