________________ किइकम्म ५१७-अभिधानराजेन्द्र: भाग-३ किइकम्म सान भवति, तीर्थकराधविराधनाद्वारेण निर्गुणत्वात् तेषामिति / वीयत इति काय: देहः, तस्य क्लेश: अवनामादिलक्षण: कायक्लेशः, तं कायक्लेशम्, स एवमेव मुधैव, करोति निर्वर्तयति। तथा क्रियत इति कर्म ज्ञानावरणीयादिलक्षणं, तस्य बन्धो विशिष्टरचनया आत्मनि स्थापन, तेन वाऽऽत्मनो बन्ध: स्वस्वरूपतिरस्करणलक्षण: कर्मबन्ध:, त कर्मबन्धं करोति वर्तते। चशब्दादाज्ञाभङ्गादींश्च दोषानवाप्नुते / कथम् ? भगवत्प्रतिक्रुष्टवन्दन आज्ञाभङ्गः तं दृष्टाऽप्येऽपि वन्दन्ति इत्यनवस्था, तान्वन्दमानान् दृष्ट्वाऽन्येषां मिथ्यात्वम्, कायक्लेशतो देवताभ्यो वाऽऽत्मविराधना, तद्वन्दनेन तत्कृतासंयमानुमोदनात् संयमविराधनेति गाथार्थः // 31 // एवं तावत् पार्श्वस्थादीन् वन्दमानस्य दोषा उक्ताः, साम्प्रतं पार्श्वस्थादीनामेव गुणाधिकवन्दनप्रतिषेधमकुर्वताम पायान् प्रदर्शयन्नाहजे बंभचेरभट्ठा, पाए उहुँति बंभयारीणं / ते हुंति कुंटमंटा, वोही असुदुल्लहा तेसिं / / 32 // येपार्श्वस्थादय: भ्रष्टब्रह्मचर्याः, अपगतब्रह्मचर्या इत्यर्थः / ब्रह्म-चर्यशब्दो / मैथुनविरतिवाचकः, तथौघत: संयमवाचकश्च / (पाए उर्दुति बंभयारीणं ति) पादावभिमानतो व्यवस्थापयन्ति ब्रह्मचारिणां वन्दमानानामिति, तद्वन्दननिषेधनं न कुर्वन्तीत्यर्थः / ते तदुपात्तकर्मजं नारकत्वादिलक्षणं विपाकमासाद्य यथाकथञ्चित्कृच्छेण मानुषत्वमासादयन्ति, तदापि भवन्ति कोण्टमण्टा:, बोधिश्च जिनशासनावबोधलक्षणा सकलदु:खविवेकभूता सुदुर्लभा, तेषां सकृत्प्राप्तौ सत्यामप्यनन्तसंसारत्यादिति गाथार्थ: / / 32 // तथासुट्टतरं नासंती, अप्पाणं जे चरित्तपन्भद्र। गुरुजण वंदावंती, सुस्समण जहुत्तकारिं च // 33 // (सुठुतरंति) सुतरां नाशयन्त्यात्मानं सन्मार्गात्, के? ये चारि-त्रात् प्राग्निरूपितशब्दार्थात्प्रकर्षण भ्रष्ट अपेता: सन्त:, गुरुजनं गुणस्थसाधुवर्ग , वन्दयन्ति कृतिकर्म कारयन्ति। किंभमतं गुरुजनम् ? शोभना: श्रमणा यस्मिन् स शुश्रमणस्तम् / अनुस्वारलोपोऽत्र द्रष्टव्यः / तथा यथोक्त क्रियाकलापं कर्त शीलमस्येति यथोक्तकारी, तं यथोक्तकारिणं चेति गाथार्थः॥३३॥ (11) एवं वन्दकवन्द्यदोषसंभवात्पार्श्वस्थादयो न वन्दनीयाः, तथा गुणवन्तोऽपि ये तै: सार्द्ध संसर्ग कुर्वन्ति तेऽपि न वन्दनीया:, किमित्यत आहअसुइट्ठाणे पडिआ, चंपगमाला न कीरई सीसे। पासत्थाईठाणसु, पवट्टमाणा तह असुज्झा // 34 // यथा अशुचिस्थाने पतिता विट्प्रधानस्थाने पतिता, चम्पकमाला स्वरूपतः शोभनाऽपि सती अशुचिस्थानसंसर्गाद् न क्रियते शिरसि, पार्श्वस्थादिस्थानेषु प्रवर्तमाना: साधव: तथा अपूज्या अवन्दनीयाः / पार्श्वस्थादीनां स्थानानि वसतिनिर्गमनभूम्यादीनि परिगृह्यन्ते। अन्ये तुशय्यातरपिण्डाद्युपभोगवक्षणानि व्याचक्षते। तत्संसर्गात्पार्श्वस्थादयो भवन्ति, नचैतानि सुष्ठ घटन्ते, तेषामपि तद्भावापत्तेः / चम्पकमालोदाह रणोपनस्य चसम्यग्घटमानत्वादिति। तत्र कथानकम्'एगो चंपगपिओ कुमारो चंपयमालाए सिरे कयाए आसगओवचति आसेण उद्धृतस्स सा चंपकमाला अमेज्झे पडिया, गेण्हामि त्ति अमेझं दद्दूण मुक्का, सो य चंपएहिं विणा धितिं न लभइ, तहा विठ्ठणदोसेण मुक्का। एवं चंपयमालाथाणीया साहू, अमेज्झथाणिया पासत्थादओ, जा विसुद्धो तेहिं मिलति संवसति वा सो विपरिहरणिज्जो। अधिकृतार्थप्रसाधनायैव दृष्टान्तान्तरमाहपक्कणकुले वसंतो, सउणीपारो वि गरहिओ होइ। इय गरहिआ सुविहिआ, मज्झि वसंता कुसीलाणं // 3 // पक्कणकुलं गर्हितकुलं तस्मिन् पक्कणकुले वसन्पारंगतवानिति पारगः शकुन्या: पारगः शकुनीपारगः, असावपि गर्हितो निन्द्यो भवति / शकुनीशब्देन चतुर्दशविद्यास्थानानि परिगृह्यन्ते- "अङ्गानि चतुरो वेदान, मीमांसान्यायधिस्तरम्। पुराणं धर्मशास्त्रंच, स्थानान्याहुश्चतुर्दश। तत्राङ्गानि षट् / तद्यथा-शिक्षा, व्याकरणं, कल्पः, छन्दो, निरुक्तं, ज्योतिषमिति! (इय त्ति) एवं गर्हिता: साधवो मध्ये वसन्त: कुशीलाना पार्श्वस्थादीनाम्। अत्र कथानकम्- एगस्स धिञ्जाइसस्स पंच पुत्ता सउणीपारगा, तत्थेगो मरुगो एगाए दासीए संलग्गो, सा मजं पियति, इमो यइ। तीए भन्नइजइ तुमं पीयइ ताहे सोहणरत्ती होज्जा, इयरहा विसरिसो संजोगो त्ति। एवं सो बहुसो भणंतीए पाइओ, सो पढमंपच्छत्रं पियति, पच्छा पयड पिइ उमाढतो। पच्छा अतिप्पसंगणं मंसासेवी संयुत्तो। पक्कणेहिं सह लोटेउमाढत्तो। तेहिं चेव सह खाति, पिवति, संवसतिय / पच्छा पिउणा सयणेण यसव्ववज्जो अप्पवंसो कओ, अन्नया सो पडिलग्गो वितिओ। सो वि भायासिणेहेणं तं कुडिं पविसिऊण पुच्छति, देतिय से किंचि। सो पिउणा उवलंब्भिऊण निच्छूढो / ततिओ वाहिर-पाडए वीयं पुच्छति, विसज्जेति से किंचि। सो विनिच्छूढो। चउत्थो परंपरएण देवावेति, सो वि निच्छूढो।पंचमो गंधं पिनेच्छति, तेण मरुएण करणं चडिऊण सव्वस्स घरस्स सो सामी कओ। इयरे चत्तारि विवाहिरा कया, लोगगरहिया य जाया / एस दिलुतो। उवणओ सो इमो-जारिसा पक्षणा तारिसा पासित्थादी, जारिसो धिजाइओ तारिसो आसरिओ, जारिसा पुत्ता तारिसा, साहू, जहा तेनिच्छूढा, एवं निच्छूभंतो कुसीलसंगि करेंता गरहिया य पवयणे भवंति। जो पुण परिहरति सो पुजो सातीअपज्जवसियं निव्वाणं पावेति। एवं संसगी विणासीया कुसीलेहिं। उक्तं च-"जो जारिसेण मेत्तिं, करेति अचिरेण तारिसो होइ। कुसुमेहि सह वसंता, तिला वितगंधिया होति" // 1 // मरुय त्ति दिटुंतो गओ। पार्श्वस्थादिसंसर्गदोषादवन्दनीया: साधवोऽप्युक्ताः, तत्राह चो-दक: क: पार्श्वस्थादिसंसर्गमात्राद्गुणवतो दोष: ? तथा चाहसुचिरं पि अत्थमाणो, वेरुलिओ कायमणिअउम्मीसो। न उवेइ कायभावं, पाहन्नगुणेण निअएण / / 36 // सुचिरमपि प्रभूतमपि कालं तिष्ठन् वैडूर्यो मणिविशेष: काचाश्च ते मणयश्च काचमणय: / कुत्सिता: काचमणय: काचमणिकाः / तैरुत्प्रावल्येन मिश्रः काचमणिकोन्मिश्रः, नापैति न याति काचभावं काचधर्म प्राधान्यगुणेन विमलगुणेन निजेनात्मीयेन। एवं सुस्राधुरपि पार्श्वस्थादिभि: सार्द्ध संवसन्नपि शीलगुणेनात्मीयेन न पावस्थादिभावमुपैत्ययं भावार्थ इतिगाथार्थः / / 36 //