________________ किइकम्म ५१६-अभिधानराजेन्द्र: भाग-३ किइकम्म करोति / एवमुत्तरोत्तरविशेषकरणे पुरुषकार्यभेद: प्राक्तनोपचारानुपृत्तिश्च द्रष्टव्या। (संपुच्छणं ति) पुरत: स्थित्वा भक्तिमिव दर्शयता शरीरवार्तायाः संप्रच्छनं कर्तव्यम्-कुशलं भवतां वर्तत इति। (अत्थणं ज्ञात्वा तदीयं प्रतिश्चयमपि गत्वा बोभवन्दनं संपूर्णे वा वन्दनंदातव्यम्। अथ किमर्थमत्र वाचैव नमस्कार: क्रियन्ते कारणाभावे वा किमिति मूलत एव कृतिकर्म न क्रियते इत्याशङ्कयाहजइ नाम सुइओ मि ति, विवजितो वा वि परहरति कजो। इय विहु सुहसीलजणो, परिहजो अणुमती मा सा। यदि नाम कश्चित्पार्श्वस्थादिर्वा नमस्कारमात्रकरणेन अहो ! सूचितस्तिरस्कृतोऽहममुना भञ्यन्तरेणेति। सर्वथा कृतिकर्माकरणेन विवर्जित: परित्यक्तोऽइममीभिरिति पराभवं मन्यमान: सुखशीलविहारितां परिहरति। (इय त्ति) एवंविधमपि कारणमवलम्थ्य परिहार्य: कृतिकर्मणि सुखशीलजन:, न केवलं पूर्वोक्तं दोषजालमाश्रित्येत्यपिशब्दार्थः / अपिचतस्य कृतिकर्मणि विधीयमानेन तदीयायाः संवेद्यक्रियाया अप्यनुमतिः कृता भवति, अत: सूक्ष्मा भूदिति बुद्ध्याऽपि न वन्दनीयोऽसौ। किञ्चलोए वेदे समए, दिट्ठो दंडो अकज्जकारीणं / वस्सेंति दारुणा विहु, दंडेण जहावराहेण / / लोके लोकाचारे, वेदे समस्तदर्शनिमां सिद्धान्ते, समये राजनीतिशास्त्र, अकार्यकारिणां चौरिकाद्यपराधिनां दण्डोऽसंभाप्यता शलाकाभिर्ग्रहण दिलक्षण: प्रयुज्यमानो दृष्टः / कुतः पुनरसौ प्रयुज्यत इत्याह-दारुणा रौद्रास्ते अपि यथापराधेनापराधानुरुपेण दण्डेन दीयमानेन वश्यन्ते वशीक्रियन्ते, अत इहापि मूलगुणाद्यपराधकारिणां कृतिकर्मवर्जनादिको दण्ड प्रयुज्यते, एतच कारणाभावमङ्गीकृत्योक्तम्, कारणे तु वाग्नमस्कारादिकं वन्दनकपर्यन्तं सर्वमपि कर्त्तव्यम्। यत आहवायाएँ कम्मणा वा, तह चेट्ठति जह ण होति से मंतुं / पस्सति जने अवायं, तदभावे दूरतो वजे / / यतः पार्श्वस्थादे: सकाशात् कृतिकर्मरायविधीयमाने अपायं संयमात्मविराधनादिकं पश्यति। संप्रति वाचा मधुरसंभाषणादिना, कर्मणा शिर:-प्रणामादिक्रियया, तथा चेष्टते यथा तस्य मन्युः, स्वल्पमप्यप्रीतिकं, न भवति, अथावन्दनेऽपि संयमोपघातादि-रपायो न भवति, ततस्तस्यापायस्याभावे दूरतस्तंसुखशीलजनं वर्जयेत्। एष विषयविभाग: कृतिकर्मकरणाकारणयोरिति भावः / / किं पुनस्तेषां वन्दने कारणानीत्याहएताइ अकुव्वंतो, जहारिहं अरिहदेसिए मग्गे। ण भवति पवयणभत्ती, अभत्तिमंतादिया दोसा॥ एतानि वाड्नमस्वारादीनि पार्श्वस्थादीनां यथार्ह यथायोग्यम्, | अर्हद्दर्शिते मार्गे स्थित: सन् कषायोत्कटतया यो न करोति, तेन प्रवधने | न भक्ति कृता भवति किंतुअभक्तिमावादयो दोष भवन्ति, तत्राऽऽज्ञाभङ्गेन भगवतां न शक्तिमत्त्वं भवति। आदिशब्दात्स्वार्थपरिभ्रंशश्वारिकाहरिकाद्यभ्याख्यानप्राप्तिर्बन्धनादयश्व दोषा भवन्ति। कानि पुनस्तेषां वन्दने कारणानीत्याहपरिवार परिस पुरिसं, खित्तं कालं च आगमं नाउं। कारणजाते जाते, जहारिहं जस्स कायव्वं / / परिवार पर्षदं पुरुष क्षेत्रं कालं च आगमं ज्ञात्वा यथा कारणानि कुलगणादिप्रयोजनानि तेषां जातं प्रकार: कारणजातं तत्र जाते उत्पन्ने सति यथार्ह यस्य पुरुषस्य यद्द्वाचिकं कायिकं वा वन्दनमनुकूलं तस्य तत्कर्तव्यम्। अथ परिवारादीनि पदानि व्याचष्टेपरिवारो से विहितो, परिसगतो साहती व वेरगं। माणी दारुणभावे, णिसंस पुरिसरधमो पुरिसो।। लोगपगतो निवेवा, अहव स रायादिदिक्खित्तो अज्जो। चित्तं विहिमादि अभा-वियं च कालो वऽणाकालो। से तस्य पार्श्वस्थादेर्य: परिवार: स सुविहितानुष्ठानयुक्तो वर्तते / पर्षदि गतो वा सभायामुपविष्टो वैराग्यमिति कारणे कार्योपचारात् संसारवैराग्यजनकं धर्म स कथयति, येन प्रभूता: प्राणिन: संसारविरक्तचेतसः संजायन्ते। तथा कश्चित्पार्श्वस्थादि: स्वभावादेव मानी साहंकारः तथा दारुणभावो रौद्धाध्यवसाय: नृशंसो नाम क्रूरकर्मा अवन्द्यमानो वधबन्धादिकं कारयतीत्यर्थ: / अत एव पुरुषाणां मध्ये अधम: पुरुषाधम: एतादृशः पुरुष इह गृहाते / यद्वा-लोके प्रकृतो बहुलोकसंमतो, नृपप्रकृतो वा धर्मकथादिलब्धि-संपन्नतया राजबहुमतः (अहव त्ति) अथवा राजादिदीक्षितोऽसौ शैलकाचार्यादिवत्। एवं विधपुरुष इह प्रतिपत्तव्यः / क्षेत्रं नाम-विहादिकमभावितं वा। विह कान्तारम्, आदिशब्दात्प्रत्यनीकाद्युपद्रवयुक्तम्, तत्र वर्तमानानां साधूनामसाधूपग्रहं करोति। अभावितं नाम-संविग्नः साधुविषय: श्रद्धाविकलं पार्श्वस्थादि-भावितमित्यर्थः तत्र तेषामनुवृत्तिं विद्धान स्थातव्यम् / कालश्च अनाकालो वा दुष्काल उच्यते, तत्र साधूनां वपिनं करोति / एवं परिवारादीनि कारणाणि विज्ञाय कृतिकर्म विधेयम्। आगमग्रहणेन च द्वारगाथायां दर्शनज्ञानादिको भाव: सूचितः, अतस्तमङ्गीकृत्य विधिमाहदंसणनाणचरितं, तवविणयं जत्थ जत्तियं जाणे / जिणपन्नत्तं भत्ती-इ पूयए तं तहिं भावं। दर्शनं च नि:शङ्कितादिगुणोपेतं सम्यक्त्वम्, ज्ञानं चाऽऽचारादिश्रुतं, चारित्रं च मूलोत्तरगुणानुपालनात्मकम्-दर्शनज्ञानचारित्रम् / द्वन्द्वैकवद्भावः / एवं तपश्चानशनादिविविधं तावत्यैव भक्त्या कृतिकर्मादिलक्षणया पूजयते / बृ०३ उ० / आव०। (10) पार्श्वस्थादिवन्दनं निष्फलमित्याहपासत्थाइ वंदमाणस्स नेव कित्ती न निजरा होइ। कायकिलेसं एमेव कुणइ तह कम्मबंधं च // 31 // पार्श्वस्थादीनुक्तलक्षणान्वन्दमानस्य नमस्कुर्वत: नैव कीर्तिन निर्जरा भवति। तत्र कीर्तनं कीर्तिरहाऽयं पुण्यभसगित्येवं लक्षणा, सा न भवति, अपि त्वकीर्तिर्भवति-नूनमयमप्यवेस्वरूपो ये - नैषां वन्दनं करोति / तथा निर्जरणं निर्जरा कर्मक्षयलक्षणा