________________ किइकम्म ५१५-अभिधानराजेन्द्रः भाग-३ किइकम्म आलोचनानिमित्त सूत्रार्थग्रहणार्थं वाचकस्यापि वन्दनकं दात्त-व्यम, क्षामणके तु स एव रत्नाधिकानां वन्दनं दद्यात् / संयतीनामपि आलोचनासूत्रार्थ निमित्तं कृतिकर्म कर्त्तव्यम् यः पुनरापन्नपरिहारिक: स कार्यकार्य कुलकार्यादि करोति (अगुरुं ति) गुरुं मुक्त्वा न कमपि साधु वन्दते। उपलक्षणमिदम्तेन नचासौ केनाऽपि साधुना वन्द्यते। अथाजापालकदृष्टान्तमाहपेसविया पञ्चतं,गीतासति क्खित्तपहेग अगीया। पहियक्खित्तापुच्छं-ति वायगं कत्थऽरण्णे त्ति // ओसंकं मे दटुं, संकच्छेती उ वातगो कुविओ। पल्लिवतिकहण संभण, गुरुआगम वंदणं सेहा। केनचिदाचार्येण गीतार्थाभावे अगीतार्था: साधवः प्रत्यन्तपस्यां क्षेत्रप्रत्युपेक्षका: प्रेषिताः, तत्र च भ्रष्टवत एको वाचको राजकुले कृतप्रमाण: परिवसति, तेच प्रत्युपेक्षितक्षेत्रा: साधवस्तं वाचकं लोकस्य समीपि पृच्छन्ति-कुत्रासौ तिष्ठति ? लोकेनोक्तम्-अरण्ये / ततस्तेऽपि तत्र गताः, तं चाजारक्षणप्रवृत्तं भ्रष्टवतं दृष्टा अद्रष्टव्योऽयमिति विमृश्यागीतार्थत्वेन शनैरवष्वष्कन्ति।तांश्व तथा दृष्टा वाचकस्यशङ्का ? - किमेतेऽपसर्पन्तीति नूनमत्र भ्रष्टव्रतं ज्ञात्या, ततः शङ्कोच्छेदी स वाचक: कुपित: सन्पल्लीपतेः कथयित्वा तेषामगीतार्थानां (सम्भण) गुप्तौ प्रक्षेपण कृतवान्, ततस्तदन्वेषणार्थं गुरुणांतत्रागमनम्, तेचतं वाचकं वन्दित्या 'शिक्षका अगीतार्था एते ' इत्युक्त्वा स्वशिष्यान् मोचितवन्त:, एवं श्रेणिबाह्यानामपि वन्दनक कर्त्तव्यम्। अथ'सीस त्ति 'पदंप्रकारान्तरेण व्याचष्टेअहवा लिंगविहारा-उ-पडुच तं पणिवयत्तु सीसेणं / भणति रहे पंजलिओ, उज्जम भंते। तवगुणेहिं / / अथवा लिङ्गाद्वा संविग्नविहाराद्वा प्रत्युत तं स्वगुरुं रहसि शीर्षण प्रणिपत्य प्राञ्जलिको रचिताञ्जलिपुटो भणति-भदन्त। प्रसाद विधायोद्यच्छत गुणेष्वनशनादौ तपः कर्मणि मूलगुणोत्तरगुणेषु च, प्रयत्न कुर्विति भावः / एवमादिके कारणे श्रेणिबाह्यानामपि कृतिकर्म कर्त्तव्यम्। अथन करोति तत इदं प्रायश्चितम्उप्पन्नकारणम्मी, कितिकम्मं जो न कुज दुविहं पि। पासत्थादीयाणं, उग्घाया तस्स चत्तारि।। उत्पन्ने वक्ष्यमाणे कारणे य: कृतिकर्म द्विविधमप्यभ्युत्थान-वन्दनकरूपं पार्श्वस्थादीनां न कुर्यात् तस्य चत्वार उद्धाता मासा भवन्ति, चतुर्लघुकमित्यर्थः। शिष्य: प्राहदुविहे किइकम्मम्मी, वाउलिया मो णिरुद्धवुड्डीया। आलिपडिसेहितम्मि, उवरिं आरोवणा गुविया / / एवं द्विविधे अभ्युत्थाने वन्दनकलक्षणकृतकर्मणि पूर्व प्रतिषिध्य पश्चादनुज्ञाते सति व्याकुलिता आकुलीभूता वयमत एवं निरुद्धा सशयक्रोडीकृता बुद्धिर्येषां ते निरुद्धबुद्धिका: संज्ञाता वयम् / कुत | इत्याह-आदौ प्रथमं प्रतिषिद्धं द्विविधमपि कृतिकर्म पार्श्वस्थादीनां | कर्तुम, आरोपणा च महतीतत्कुर्वतो निर्दिष्टा (उवरित्ति) इदानीं पुनस्तेषां वन्दनकर्मप्रयच्छतोया चतुर्लघुकाख्या आरोपणा प्रतिपाद्यते, सा गुपिला गम्भीरा, नान्यतोवाऽर्थं वयमवबुद्ध्यामहे इति भावः। (ण) सूरिराह-उत्सर्गतीन कल्पते पार्श्वस्थादीन्वन्दितुंपरम्गच्छपरिरक्खणट्ठा, अणागतं आउवायकुसलेण। एवं गुणाधिवतिणा, सुहसीलगवेसणा कजा।। अवमराजद्विष्टादिषु ग्लानत्वे वा यदशनपानाद्युपग्रहकरणेन गच्छपरिपालनं तदर्थमनागतमवमादिकारणे अनुत्पन्न एव आयोपायकुशलेन, आयो नामपार्श्वस्थादेः पावन्निष्प्रत्यूहसंयमपालनादिको लाभ: / उपायो नाम-तथा कथमपि करोति यथा तेषां वन्दनकमददान एव शरीरवार्ता गवषेयति, नच तथा क्रियमाणो तेषामप्रीतिकमुपजायते, प्रत्युत स्वचेतसि ते चिन्तयन्ति-अहो एते स्वयं तपस्विनोऽपि एवं यस्मात्सुस्विह्यन्ति, तत एतयोरायो पाययो: कुशलेन गणाधिपतिना भवितव्यम्, एवं वक्ष्यमाणप्रकारेण सुखशीलानां गवेषणा कार्या। तत्र येषु स्थानेषु कर्त्तव्या तानिदर्शयतिबाहिं आगमणपहे, उजाणे देउले सभाए वा। रत्थउवस्सयवहिया, अंतो जयणा इमा होइ।। यत्र ते ग्रामनगरादौ तिष्ठन्तितस्य बहि: स्थितो यदा तान् पश्यति तदा निराबाधवार्ता गवेषयति। यदा वा भिक्षाचर्यादौ तत्रागच्छन्ति, तदा तेषामागमनपथे स्थित्वा गवेषणं करोति। एवमुद्याने दृष्टानां, चैत्यवन्दननिमित्तं गतैर्देवकुले वा समवसरणे वा दृष्टानां रथ्यायां वा भिक्षामटतामभिर्मुचागमने मिलितानां वार्ता गवेषणीया। कदाचित्ते पार्श्वस्थादयोऽब्रवीरन्-अस्माकं प्रतिश्रयं कदापि नागच्छत् ? ततस्तदनुवृत्या तेषां प्रतिश्रयमपि गत्वा तत्रोपाश्रयस्य बहि: स्थित्वा सर्वमपि निराबाधनादिकं गवेषयतिव्यम् / अथ गाढतरं निर्बन्धं ते कुर्वन्ति तत उपाश्रयस्यान्तरमभ्यन्तरतोऽपि प्रविश्य गवषेयतां साधूनामियं वक्ष्यमाणा पुरुषविशेषवन्दनविषया यतना भवति। पुरुषविशेष तावदाइमुक्कधुरा संपागड-अकिच चरणकरणपरिहीणा। लिंगावसेसमित्ते, जं कीरइ तारिसंवोच्छं / / धू: संयमधुरा सा मुक्ता परित्यक्ता येन स मुक्तधुरः, संप्रकटानि प्रवचनो यथा तन्निरपेक्षतया समस्तजनप्रत्यक्षाण्यकृत्यानि मूलोत्तरगुणप्रतिसेव नारूपाणि यस्य तत्संप्रकटाकृत्यः / अत एव चरणेन व्रतादिना करणेन पिण्डभविशुद्ध्यादिना परिहीनः / एतादृशे लिङ्गावशेषमात्रे केवलद्रव्यलिङ्गयुक्ते यत् यादृशं वन्दनं क्रियते तादृशमहं वक्ष्ये। वायाएँ नमोक्करो, हत्थुस्सेहो य सीसनमणं वा। संपुच्छणं बण च्छो-भवंदएं वंदणं वा वि // बहिरागमनपथादिषु दृष्टस्य पार्श्वस्थादेर्वा नमस्कारः क्रियते, वन्दामहे भवन्तं वयमित्येवमुच्चार्य ते इत्यर्थः / प्रणामं करोति। अथासौ विशिष्ठतर उग्रतरस्वभावो वा ततोवाचा नमस्कृत्य हस्तोत्सेधमञ्जलिं कुर्यात्, ततो विशिष्टतरे अत्युग्रवस्वभावे वा द्वावपि वा नमस्कारहस्तोत्सेधौ कृत्वा तृतीयं शिरःप्रणाम