________________ किइकम्म ५१४-अभिधानराजेन्द्रः भाग-३ किइकम्म तत्य भवे जति एवं, अण्णं अण्णेण रक्खए भिक्खु / अस्संजया वि एवं, अणं अण्णेण रक्खंति // तत्रेत्यनन्तरोक्ताःर्थे अभिहिते सति भवेत, परस्याभिप्राय इति वाक्यशेषः / यद्येवं भिक्षु: पुलाकादिरन्यमाचार्यादिक मन्येन स्कन्धावारादिता कृत्वा रक्षति, एकस्य विनाशेनापरं पालयजीतिभावः / तत एवमसंयता गृहस्था अप्यन्यमन्येन रक्षन्त्येव, अतोन कश्चिदसंयतानां संयतानां च प्रतिविशेषः / एवं परेणोक्ते सूरिराहन हु ते संजमहेउं, पालिति असंजता अजतभावा। अच्छित्तिसंजमट्ठा, पाक्षितिजती जतिजणं तु / / न हु नैव तेअसंयता अयतभावव्यवस्थितान गृहस्थान् संयमहेतो: पालयन्ति, किं तु स्वात्मनो जीविकादिनिमित्तं, ये तु यतयस्तथा तीर्थस्याव्यवच्छित्तिर्यश्च तेषां रक्ष्यमाणानामात्मनश्चान्योन्योपकारद्वारेण संयमस्तदर्थं यतिजनं पालयन्ति, तुशब्दो विशेषणार्थ: / एष विशेष: साधूनां गृहस्थानां चेति। किञ्चकुणइ वयं धणहेओ, धणस्स धणितो उ आगमं णाउं। इय संजमस्स वि वतो, तस्सेवाण दोसाय / / यथा धनिको वाणिज्यं कुर्वन्नागमं लाभंज्ञात्वा धनहतोर्द्रव्यो-पार्जनार्थं शुक्लकर्मकरवृत्तिभाटकादिप्रदानेन धनस्य व्ययं करोति। (इयत्ति) एवं पुलाकादेर्मूलगुणप्रतिसेवनां कुर्वाणस्य यः कोऽपि संयमस्य ध्यय: स तस्यैव संयमस्याथीय विधीयमानो न दोषाय संजायते ततः पुष्टालम्बनसहितो मूलगुणमतिसेव्यपि शुद्ध इति स्थितम्, अथापुष्टालम्बनो निरालम्बनो वा प्रतिसेवते तत: संसारो पनिपातमासादयति। तथा चात्र दृष्टान्तमाहतुच्छमवलंबमाणो, पतति निरालम्बनो य दुग्गम्मि। सालंबनिरालंगे, अह दिटुंतो णिसेवंतो॥ इहालम्बनं द्रव्यभावभेदाद्विधा, तत्र गर्तादौ पतद्भिर्य द्रव्यमाल-म्ब्यते तद् द्रव्या बनम् / तय द्विधापुष्टमपुष्टञ्च / अपुष्टं दुर्बलं कुशवल्कलादि, पुष्टं बलिष्ठ तथाविधकठोरवल्ल्यादि। एवं भावालम्बनमपि पुष्टापुष्टभेदात् द्विधा, पुष्टं तीर्थाव्यवच्छित्तिग्रन्थाध्ययनादि, अपुष्टं शठतया स्वमतिमात्रो त्प्रेक्षितमालम्बनमात्रम् / ततश्च द्रव्यालम्बनमपुष्टमवलम्बमानो निरालम्बनो वा यथा दुर्गे गर्तादौ पतति, यस्तु पुष्टालम्बनमवलम्बते स सुखेनैवात्मानं गर्तादौ पतन्तं धारयति। एवं साधोरपि मूलगुणाद्यपराधानिषेवमाणस्य सालम्ब-निरालम्बविषयः, अथायं दृष्टान्तो मन्तव्यः किमुक्तं भवति? - यो निरालम्बनोऽपुष्टालम्बनो वा प्रतिसेवतेस आत्मानं संसारगर्तादौ पतन्तं न संधारयितुं शक्नोति। यस्तु पुष्टालम्बन: स तदवष्टम्भादेव संसारगर्त सुखेनैवातिलड्डयति, यत एवमत पुष्टालम्बनवर्जित: कृतिकर्मणि वर्जनीय इति। अथ श्रेणिस्थानस्थिता अपि ये कृतिकर्मणि नियमेन भजनया वा न व्यवहियन्ते तान्प्रतिपादयतिसेढीठाणे सीमा-कज्जे चत्तारिवाहिरा होति। सेढीठाणे दुयभे-ययाएं चत्तारि भइयव्वा / / श्रेणीस्थानं सीमास्थानमित्यनर्थान्तरम्, तत्रप्रवर्तमाना अपि चत्वारो जना: प्रत्येक बुद्धादयो वक्ष्यमाणा: कार्ये ब्राह्या भवन्ति। इइ कार्ये द्विधावन्दनकार्य, कार्यकार्य च। तत्र वन्दनकार्य द्विधा-अभ्युत्थानं, कृतिकर्म च। कार्यकार्य कुलकार्यादिभेदादनेकविधम्, कार्यमवश्यकर्तव्यरूपं यत्कार्य तत्कार्यकार्यमिति व्युत्पत्ते: / एतद् द्विविधमपि प्रत्येकबुद्धादयो न कुर्वन्तीति भावः / तथा श्रेणिस्थाने वर्तमाना अपि गच्छप्रतिबद्धयथालन्दिकादयश्चत्वारो (दुयभेययाए त्ति) द्विक भेदकमनन्तरोक्त कार्यद्वयविधानमङ्गीकृत्य भक्तव्याः, तत्र व्यवह्यन्ते वा न वेति भावः / इदमेव स्फुटतरमाहपत्तेयबुद्ध जिणक-प्पिया य सुद्धपरिहारिण जहालंदे। एए चउरो दुगभे-दया य कज्जेसु वाहिरगा / / प्रत्येक बुद्धा जिनकल्पिका: शुद्धपरिहारिणोऽप्रतिबद्धयथालन्दिकाश्च, एने चत्वारो जना द्विकभेदानङ्गीकृतेषु कृतिकर्म - कुलकार्यादिषु बाह्या भवन्ति, न द्विषयं व्यवहारपथमवतरन्तीति भावः / गच्छम्मिणियमकजं, कजे चत्तारि होति भइयव्वा। गच्छपडिबद्धआव-प्रणपडिम तह संजतीतो य / / गच्छे पिनिमादवश्यतया कर्त्तव्यं यत्कार्य कुलगणसङ्घविषयं तत्र कार्य चत्वारोजना भक्तव्या भवन्ति-गच्छप्रतिबद्धयथालन्दिका:, (आ-वण्ण त्ति) आपन्नपरिहारिकाः, प्रतिमाप्रतिपन्नाः, संयत्यश्चेति / यथा सङ्ग कुलादिकार्यं कर्तुं न शक्नोति तत एतेऽपि कुर्वन्तीति, वन्दनकार्य तु प्रतिबद्धयथालन्दिका यस्याचार्यस्य पार्श्व तत्रार्थ-ग्रहणं कुर्वते, तस्यावमस्यापि कुर्वन्ति, शेषसाधूनां तु न कुर्वन्ति / आपन्नपरिहारिणां प्रतिमाप्रतिपन्नानां संयतीनां च कृतिकर्म क्रियते वानवा, तेऽपि कुर्वन्ति वा न वेति। इदमपि सविशेषमाहअंतो वि होइ भयणा, ओमे आवण्णसंयतीओ य। वाहिं पिहोइ भयणा, अयवालगवायगे सीसा / / अन्तरेऽपि श्रेणेरभ्यन्तरत: स्थितानामपि वन्दनकं प्रतीत्य भजना भवति। कथमित्याद-(ओमे त्ति) योऽवमरात्निक: स आलोचनादौ कार्ये वन्द्यते, अन्यदा तु नेति। (आवन्न त्ति) आपन्नपरिहारिको न वन्द्यते स पुनराचार्यान् वन्दते। (संजइओ त्ति) संयत्योऽपि उत्सर्गतो न वन्द्यन्ते, अपवादपदे तु यदि बहुश्रुता महत्तरा काचिदपूर्वश्रुतस्कन्धं धारयति ततस्तस्याः सकाशसद्गृहीतव्येषु उद्देशसमुद्देशादिषु सा फेटावन्दनकेन वन्दनीया, न केवलमन्त; किंतु श्रेणेर्बहिरपि स्थितानां कृतिकर्मणि भजना मन्तव्या, कारणे तेषामपि कृतिकर्म विधेयमिति भावः / अथ न कुर्वन्ति ततो महान् दोषो भवति। यथा अजापालकवाचकमवन्दमाना अगीतार्थाः शिष्याः,-दोषं प्राप्तवन्त इति वाक्यशेषः / अथवा (सीस त्ति) संविग्रविहाराल्लिङ्गाद्वा परिच्युतं त्यगुरुं रहरिस शीर्षेण प्रणम्य वक्तव्यम्भगवन् / युष्माभिः परित्यक्ता: सन्त: सांप्रतमनाथा वयमत: कुरुतोद्यम भूयश्चरण-करणानुपालनायामिति। अथ' ओमे आवण्णसंजईओ त्ति 'गाथाऽवयवं विवृणोतिआलोअणसुत्तत्था, खामण ओमे य संजतीसं वा। आवण्णे कन्जकलं, करेइ ण य वंदती अगुरुं / /