SearchBrowseAboutContactDonate
Page Preview
Page 537
Loading...
Download File
Download File
Page Text
________________ किइकम्म ५१३-अभिधानराजेन्द्रः भाग-३ किइकम्म अमुमेवार्थ सविशेषमाहमूलगुणउत्तरगुणे, मूलगुणेहिं तु पागडो होइ। उत्तरगुणपडिसेवी, संचयवोच्छेदतो तस्स // इह प्रतिसेवको द्विधा-मूलगुणप्रतिसेवक उत्तरगुणप्रतिसेवकश्च / तत्र मूलगुणप्रतिसेवायां वर्तमान: प्रकट एव प्रतीयते, यथा चारित्रात्परिभ्रश्यति। उत्तरगुणप्रतिसेवी तु संचयेन बह्वपराधमीलकेनयोऽशुद्धाहारग्रहणादेव व्यवच्छेदः परिणामस्यानुपरमस्ततो भ्रश्येत्, चारित्रात्परिभ्रंशमाप्नुयात्। अत्रैवार्थे दृष्टान्तमाहअंतो भयणा वाहि तु, निग्गते न तत्थ मरुगादिटुंतो। संकर सरिसव सगडे, मंडववत्येण दिटुंतो॥ इह संबन्धानुलोम्यत: प्रथममुत्तरार्द्ध व्याख्ययते-संकरस्तृणादिकचवरः, तदृष्टान्तो यथा-"आरामे सारणीए वहंतीए एणं तणं सयं लग्गं, तंण अवणीयं, अन्न लग्गं, तं पिन अवणीयं, एवं बहूहिं लग्गंतेहिं तत्थ तेण आश्रयेण चिक्खल्लधूलीए संचओजाओ। तेणं संचएणतंपाणियं रुद्धंअन्नओ गंतुंपयट्ट, ताहे सो आरामो सुक्को / एवमभिक्खणं अभिक्खणं उत्तरगुणपडिसेवाए अवराहसंचओ भवइ, तेण संजमजलं वहमाणं निरुज्झइ, तओ चारित्तारामो सुक्खइ'' सर्षपशकटमण्डपदृष्टान्तो यथा-शकटे मण्डपे च कोऽप्येक: सर्षप: प्रक्षिप्त:, सतत्र यात:, अन्य: प्रक्षित:, सोऽपि यातः, एवं प्रक्षिप्यमाणैः सर्षपैर्भविष्यति सुसर्षपो य: तं शकटं मण्डपं वा भनक्ति। एवं चारित्रेऽप्यशुद्धाहारग्रहणादिरेकोऽपराधः प्रक्षिप्तः, स तत्राव-स्थितिं कृतवान् द्वितीय: प्रक्षिप्त: सोप्यवस्थित:, एवमपरापरै-रुत्तरगुणापराधैः प्रक्षिप्यमाणैर्भविष्यति स उत्तरगुणापराध:, येन चारित्रं सर्वथाभङ्गमुपगच्छति। अथ वस्त्रदृष्टान्तो भाव्यते-वस्पे क्वचिदेकस्तैलबिन्दुः कथमपि लग्नः, स न शोधित:, तदाश्रयेण रोणुपुद्गला अप्यवतस्थिरे, एवमन्यत्राप्यवकाशे तैलबिन्दुर्लन:, सोऽपि न शोधित:, एवमन्यान्यैस्तैलबिन्दुभिर्गलद्भिरप्यशोध्यमानैः सर्वमपि तद्वस्त्रं मलिनीभूतम् / एवं चारित्रवस्त्रमप्यपरापरै-रुत्तरगुणापराधैरुपलिप्यमानभचिरादेव मलिनीभवतीति, तदेव-मुत्तरगुणप्रतिसेवी कालेन चारित्रात् परिभ्रश्यतीति स्थितम् / अथ कृतिकर्मविषयं विशेष विभणिषुराह-अंतो भयणा इत्यादि पूर्वार्द्धम् / य: संयमश्रेणेरन्तर्मध्ये स्थितस्तस्य कृतिककर्मकाणे भजना, सा चाग्रे दर्शयिष्यति, यस्तु श्रेणेबहिर्निर्गतस्तस्यनकर्तव्यम्, तथा चमरुको वास्तेन:, तस्य दृष्टान्तः क्रियतेपक्कणउले वसंतो, सउणीपारो वि गरहितो होइ। इय गरहिया सुविहिया, मज्झि वसंता कुसीलाणं / / पक्वणकुलं मातङ्गगृहं, तत्र वसन् शकुनीपारगोऽपि द्विजो गर्हितो भवति। शकुनीशब्देन चतुर्दशविद्यास्थानानि गृह्यन्ते। तानि चामूनिअङ्गानि वेदाश्चत्वारो, मीमांसा न्यायविस्तरः / पुराणं धर्भशास्त्रं च, स्थानान्याहुश्चतुर्दश / / 1 / / तत्राङ्गानि षशिक्षा, व्याकरणं, कल्पः, छन्दो, निरुक्तं, ज्योतिषमिति / (इय त्ति) एवं सुविहिता: साधवः कुशीलानां मध्ये वसन्तो गर्हिता भवन्ति, अतो न तेषु वस्तव्यम्, न वा कृतिकर्मादि विधेयम्। ननु च पार्श्वस्थादीनां कृतिकर्म न कर्त्तव्यमिति भवद्भिरभिहित, तत्र पार्श्वस्थादीनां लक्षणं क्वचिदअपिण्डभोत्रित्वादिकल्पदोषरूपं, क्वचित् तुस्त्रीसेवादिमहादोषरूपमावश्यकादिशास्वेष्वभिधीयते। तदत्र वयं तत्त्वं नजानीमहे कस्य कर्तव्यं कृतिकर्म कस्य वा नेत्याशङ्कावकाशमवलोक्य विषयविभागमुपदर्शयतिसंकिन्नऽवराहपदे, अणाणुतावी य होइ अवरद्धे। उत्तरगुणपडिसेवी, आलंवणवजितो वज्जो॥ इह यो मूलगुणप्रतिसेवी स नियमादचारित्रीति कृत्या स्फुटमेवावन्दनीय इति न तद्विचारणा, परं य उत्तरगुणविषयैर्बहुभिरपराधपदैः संकीर्णः शवलीकृतचारित्र:, अपरं च अपराधे अशुद्धाहारग्रहणादावपराधेकृतेऽपि अननुतापी, 'हा दुष्ठ कृतम्' इत्यादिपश्चात्तापं न करोति, नि:शङ्को निर्दयश्च प्रवर्तत इत्यर्थ: / एवंविध उत्तरगुणप्रतिसेवी यथालम्बनेन ज्ञानदर्शनचारित्ररुपविशुद्धकारणेन वर्जित:, कारणमन्तरेण प्रतिसेवत इति भाव: / तदाऽसौ वज्येः, कृतिकर्मकरणे वर्जनीयः / शिष्य: प्राह: नन्वेवमादापन्नं आलम्बनसहित उत्तरगुणप्रतिसेव्यपि वन्दनीयः / सूरिराहन केवलमुत्तर-गुणप्रतिसेवी, मूलगुणप्रतिसेव्यप्यालम्बनसहित: पूज्यः / __ कथामिति चेदुच्यतेहिट्ठाणठितो वी, पावयणिगगणट्ठया उ अधरे उ। कडजोगि जं निसेवइ, आदिणिगंथो व सो पुजओ।। अधस्तनस्थानेषु जघन्यसंयमस्थानेषु स्थितोऽपि, मूलगुणप्रतिसेव्यपीति भावः / कृतयोगी गीतार्थः, प्रावचनिकस्याचार्यस्य गण-स्य च गच्छस्यानुग्रहार्थमधरे आत्यन्तिके कारणे समुपस्थिते यन्निषेवते, तत्रासौ संयमश्रेण्यामेव वर्तत इति कृत्वा पूज्य: / क इवेत्याह - आदिनिन्थ इव। इह पुलाकवकुशकुशीलनिन्थस्नातकाख्या: पञ्च निर्गन्थाः / तेषामादिभूत: पुलाकस्तद्वत, तस्य ह्येतादृशी लब्धिर्यया चक्रवर्तिस्कन्धावारमपि अभिवादनादौ कुलादिकार्ये स्तभ्नीयात्, विनाशयेद्वा, न च प्रायश्चित्तमाप्नुयात्। तथा चाहकुणमाणो वि य कडणं, कतकरणो णेव दोसमन्भेति। अप्पेण बहुं इच्छइ, विसुद्धआलंवणो समणो।। कडणं कटकमदं कुर्वाणोऽपि कृतकरण: पुलाको नैव स्वल्पमपि दोषमभ्येति प्राप्नोति। कुत इत्याह-यतोऽसौ श्रमणो विशुद्धालम्बन: सन् अल्पेन संयमव्ययेन बहुसंयमलाभमिच्छति। अमुमेवार्थ समर्थयन्नाहसंयमहेउं अज्जे-तणं पिण हु दोसकारगं विति। पावण वोच्छेयं वा, समाहिकारो वणादीणं // प्रावचनिकादेः प्राणव्यपरोपणात् द्विप इव रक्षणेन यः संयमस्तद्धेतोस्तन्निमित्तं पुलाकादेरयतमपि नहि नैव दोषकारकं ब्रुवते। यथा समाधिकरो वैद्यो व्रणादीनां यत्तथाविधौषधप्रलपनेन पावनं, यन्त्र शस्त्रादिना विच्छेदनं, यद्वा व्यवच्छेदं लङ्घनं कारयति, तत्तु इदानीं पीडाकरमपि परिणामसुन्दरमिति कृत्वा न सदोषम् एवमिदमपीति। अथ परस्याभिप्रायमाशङ्कमान आह
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy