________________ किइकम्म ५१२-अभिधानराजेन्द्र: भाग-३ किइकम्म एयं चरित्तसेटिं, पडिवजह हिट्ठ कोइ उवरिं वा। जो हिट्ठा पडिवज्जइ, सिज्झइ नियमा जहा भरहे। एवं चारित्रश्रेणिं कश्चिज्जीवोऽधस्तात् जघन्यसंयमस्थानेषु प्रतिपद्यते, कश्चित्पुनरुपरि उपरितनेषु पर्यन्तवर्तिषु उपलक्षणत्वान्मध्यमेषु वा संयमस्थानेषु प्रतिपद्यते। तत्र योऽधस्तनेषु संयमस्थानेषु चारित्रश्रेणि प्रतिपद्यते, स नियमात्तत्रैव भवग्रहणेन सिद्ध्यति, यथा भरतश्चकवर्ती। मज्झे वा उवरिं वा, नियमा गमणं तु हिट्ठिमं ठाणं। अंतो मुहुत्तवुड्डी, हीणा वि तहेव नायव्वां // यः पुनर्मध्ये वा मध्यमेषु, उपरिवा उपरितनेषु संयमस्थानेषु चारित्रश्रेणिं प्रतिपद्यते, तस्य नियमादधस्तनं सर्वजघन्यं संयमस्थानं यावद्गमनं भवति, ततोऽसौ तेनान्येन वा भवग्रहणे सर्वाणि संयमस्थानानि स्पृष्टा सिध्यति,या पुनरधस्तनसंयमस्थानेभ्य उपरितनसंयमस्थानारोहणलक्षणा वृद्धिः सा अन्तर्मुहूर्त्तमात्रं भवति, या चोपरितनसंयम स्थानेभ्योऽ.. धस्तनसंयमस्थानेषु वाऽऽरोहणरूपा हानि: साऽपि तथैवान्तर्मुहूर्तमात्राऽवज्ञातव्याः, एतेन वृद्धिद्वारप्ररूपणाऽपि कृता। संप्रति अल्पबहुत्वद्वारं प्ररूप्यते-तत्र सर्वस्तोकान्यनन्तगुणवृद्धानि स्थानानि, कण्डकमात्रत्वात्तेषाम्। तेभ्योऽसंख्येयगुणवृद्धानि स्थानानि,कण्डकमात्रत्यातेषाम् / तेभ्योऽसंख्येयगुणवृद्धानि स्थानानि असंख्येयगुणानि / गुणकारश्च इह कण्डकप्रमाणो ज्ञातव्यः / एकैकस्यानन्तगुणवृद्धस्य स्थानस्याधस्तात्प्रत्येकमसंख्येयगुणवृद्धानि स्थानानि कण्डकमात्राणि प्राप्यन्ते इतिकृत्वा अनन्तगुणवृद्धस्थानकण्डक्स्योपरि कण्डक-मात्राणि असंख्येयगुणवृद्धानि प्राप्यन्ते, तत्त्वनन्तगुणवृद्धं स्थान तेन उपरिष्टादेकस्य कण्डस्याधिकस्य प्रक्षेपः, तेभ्योऽप्यसंख्येयगुणवृद्धेभ्यः स्थानेभ्य: संख्येयगुणवृद्धानि असंख्येयगुणानि, तेभ्योऽपि संख्येयभागाधिकानि स्थानानि असंख्येयगुणानि, तेभ्योऽसंख्येयभागाधिकानि स्थानान्यसंख्येयगुणानि, तेभ्योऽनन्तभागवृद्धानि स्थानानि असंख्येयगुणानि, गुणकारेषु सर्वत्रापि कण्डकानामुपरि चैव कण्डकप्रक्षेपः / प्ररूपितमल्पबहुत्वद्वारम्। जीवपदप्रतिबद्धानां तु आलापगणनादीनां द्वाराणां प्ररूपणा संप्रदायाभावन्न क्रियते। अथ प्रस्तुयोजनां कुर्वन्नाहसेढीठाणठियाणं, किइकम्मं वाहरे न कायव्वं / पासत्थादी चउरो, तत्थ विआणादिणो दोसा। अनन्तरोक्तायाः श्रेणे: संबन्धिषु संयमस्थानेषु स्थितानां साधूनां कृतिकर्म कर्तव्यं, ये तु श्रेणे ह्यास्तेषां न कर्त्तव्यम्। के पुनस्ते इत्याहपार्श्वस्थादयश्वत्वारः, तत्र पार्श्वस्थावसन्नकुशीलसंसक्तयथाछन्दा: पञ्चाप्येको भेद: / काथिकप्राश्निचकमीमांसकसं-प्रसारका द्वितीयः / अन्यतीर्थिकास्तृतीयः / गृहस्थाश्चतुर्थः / एते चत्वारोऽपि श्रेणिबाह्या: मन्तव्याः / तत्राप्येतेषां कृतिकर्मकाणेऽपि, न केवलमभ्युत्थाने इत्यपिशब्दार्थ: / आज्ञादयो दोषा:, प्रायश्चित्तं च प्राग् यथा अभ्युत्थाने पार्श्वस्थान्यतीर्थिकादिविषयं वर्णितं तथैव वक्तव्यम्। शिष्यः पृच्छतिलिंगेन निग्गतो जो, पागडलिंग धरेइ जो समणो। किध होइ णिग्गतो त्ति य, दिटुंतो सक्करकुडेणं / / लिङ्गेन रजोहरणादिना यो मुक्तः स संयमश्रेण्या निर्गत: प्रतीयते, यस्तु | श्रमण: प्रकटमेव लिङ्गं धारयति स कथं निर्गत: श्रेणिबाह्यो भवति। श्रमणलिङ्गस्योपलभ्यमानत्वाद्न भवतीतिभावः / अत्र सूरिराह-दृष्टान्त: शर्कराकुटेनात्र क्रियते। जहा कस्सइ रन्नो दो घडया सक्करा भरिया, ते अन्नया मुदं दाऊण दोण्हं पुरिसाणं समप्पिया, भणितो य-जहा सा सक्खह, जया मग्गिजइ तया दिस्सह। ततः किमभूदित्याहदाउंहिट्ठाखारं, सव्वत्तो कंटियाहि वेढित्ता। सकवाडमणावाचे, पालेति तिसंज्झमिक्खंतो। तयोरेक: पुरुषस्तं राज्ञा समर्पितं घटं गृहीत्वां तस्याध: क्षारं दत्त्वा, यथा कीटिका नागच्छेयुरिति भावः / तत:सर्वत: कण्टिकाभि: तं वेष्टयित्वा सकपाटे पिधानमुक्तेऽनाबाधे प्रदेशे स्थापयित्वा त्रिसंध्यमीक्षमाणः सम्यक् पालयति। द्वितीय: पुन: किंभूतवानित्याहमुई अविद्धवंती-हि कीडियाहिं सवालणीचेव।। जज्जरितो कालेणं, पमायकुडए णिवे दंडो॥ द्वितीय: पुरुषस्तं घट कीटिकानगरस्यादूरे स्थापयित्वा मध्ये मध्ये नावलोकते। तत: शर्करागन्धघ्राणत: समायाताभि: कीटिका-भिर्मुद्रा मविद्धवतीभिः स घटोऽधस्तात् कालेन जर्जरीकृत:, शर्करा सर्वाऽपि भक्षिता, अन्यदा राज्ञा तौ पुरुषौ घटं याचितौ, ततो द्वाभ्यामप्यानीय दर्शितयोर्घटयो: (पमायकुडएत्ति) येन कुटरक्षणे प्रमादः कृतः तस्य नृपेण दण्डः कृतः / उपलक्षणमिदंतेन यस्तं सम्यक् पालितवान् तस्य विपुलां पूजां विदधे। एव दृष्टान्त: / अय-मर्थोपनय:- राजस्थानीया गुरव पुरुषस्थानीया: साधवः, शर्करास्थानीयं यारित्रं, घटस्थानीय आत्मा, मुद्रास्थानीयं रजोहरणं, कीटिकास्थानीयान्यपराधपदानि, दण्डस्थानीया दुर्गतिप्राप्तिः, पूजास्थानीया स्वर्गादिसुखपरम्पराप्राप्तिः / / तथा चामुमेयोपनयन् लेशतो भाष्यकारोऽप्याहनिवसरिसो आयरिओ, लिंग मुद्दा उ सक्करा चरणं / पुरिसा य हुँति साहू, चरित्तदोसा मुइंगाभो ! गतार्था, नवरं मुयिङ्गा: कीटिकाः। यथा तस्य प्रमत्तपुरुषस्य मुद्रासद्भावेऽप्यधः प्रविशन्तीभिः कीटिकाभिर्घटं विभज्य शर्करा विनाशिता, एवं साधोरपि प्रमादिनो रजोहरणमुद्रासद्भावेऽप्यपराधपदैरात्मभिः जर्जरितशर्करातुल्यं चारित्रं कालेन वा सद्यो वा विनाशमाविशति। __ तत्र कालेन यथा विनश्यति, तथा दर्शयतिएसणदोसे सीयइ, अणाणुतावीण चेव वियडेइ। णेवइ करेइ सोधिं,णय विरमति कालतो भस्से / / एषणादोषेषु सीदति, तद्दोषदुष्टं भक्तपानं गृहातीत्यर्थः / एवं कुर्वन्नपि पश्चात्तापं करिष्यतीत्याह-अननुतापी पुर:कर्मादिदोषदुष्टाहारग्रहणादनुपश्चात्तप्तं 'दुष्टं कृतं मयेत्यादि' मानसिकतापंधर्तुं शीलमस्येत्यनुतापी, न तथेत्यननुतापी, कथमेतञ्जायते इति ? आह-न चैव विकटयतिगुरूणां पुरत: स्वदोषं न प्रकाशयति विकटयतिवा, परं तस्य शोधिं प्रायश्चित्तं गुरुप्रदत्तं नैव करोति, नच वैवाशुद्धाहारग्रहणाद्विरमति। एवं कुर्वन् कालत: कियताऽपि कालेन चारित्रात्परिभ्रंश्येत् / यस्तु मूलगुणान् विराधयति स सद्य: परिभ्रंश्यति।