SearchBrowseAboutContactDonate
Page Preview
Page 535
Loading...
Download File
Download File
Page Text
________________ किइकम्म ५११-अभिधानराजेन्द्रः भाग-३ किइकम्म तत्राविभागपरिच्छेदप्ररूपणां करोतिअविभागपलिच्छेओ, चरित्तपञ्जवपएसपरमाणू / घरमाणस्स परूपण, चउविहा भावओ णं सा॥ इहं संयमस्थानकेवलिप्रज्ञाच्छेदनकेन छिद्यमानं निरंशतया यदा विभाग न यच्छति तदाऽसावन्तिमोऽशांशविभागपरिच्छेद उच्यते / स चारित्रपर्यायश्चारित्रप्रदेशश्चारित्रपरमाणुर्वा भण्यते / परमाणोश्च सामान्यतश्चतुर्विधा प्ररूपणा, द्रव्यक्षेत्रकालभावभेदात् / द्रव्यत एकाणुकः, क्षेत्रत आकाशप्रदेश:, कालत: समय: भावतस्त्वेकणकालकादि। अत एव वा चारित्रादिभागपरिच्छेदाः / ते चानन्ता अनन्तानन्तकप्रमाणाः। तथा चाहते कित्तिया पएसा, सव्वागासस्स मग्गणा होइ। ते जत्तिआपएसा, अविभागतओ अणंतगुणा / / ते चारित्रस्य प्रदेशा: कियन्त: किं प्रमाणा इति चिन्तायां निर्व-चनमाहसर्वस्य लोकालोकगतस्याकाशस्य मार्गणा भवति। यावन्त: किल सर्वाकाशस्य प्रदेशास्ततस्तेभ्य: सर्वाकाशप्रदेशे-भ्यश्यारित्रस्या विभागपरिच्छेदाः, अनन्तगुणाः सर्वजघन्येऽपि संयमस्थाने प्रतिपत्तव्याः, एषा प्रतिभागपरिछेदप्ररूपणा। सर्वजघन्यात् संयमस्थानात् द्वितीयं संयमस्थानं ततस्तस्मादनन्त-भागवृद्धम्। किमुक्तं भवति? प्रथम संयमस्थानगतनिर्विभागा-पेक्षया द्वितीये संयमस्थाने निर्विभागा भागा अनन्ततमेन भागेनाधिका भवन्तीति, एषा स्थानान्तरप्ररुपणा। तस्मादपि यदवन्तरंतृतीय तत्र तेऽनन्तभागवृद्धा एवं पूर्वस्मादुत्तरोत्तराणि अनन्नततर्मन भागेन वृद्धानि निरन्तरं संयमस्थानानि तावद्वक्तव्यानि यावदङ्गुल-मात्रक्षेत्रासंख्येयभागगतदेशराशिप्रमाणानि भवन्ति। एतावन्ति च समुदितानि स्थानानि कण्डकमित्युच्यते। एषां कण्डकप्ररूपणे अस्माच कण्डकात्परतो यद्यदनन्तरं संयमस्थानं भवति तत् पूर्व-स्मादसंख्येयभागाधिकम् / एतदुक्तं भवति-पाश्चात्यकण्डकसत्कचरमसंयम स्थानगतनिर्विभागभामापेक्षया कण्डकानन्तरे संयमस्थाने निर्विभागाभागा असंख्येयतमेन भागेनाधिकार प्राप्यन्ते, तत: पराणि पुनरपि कण्डमक मात्राणि संयमस्थानानि यथोत्तरमनन्तभागवृद्धानि भवन्ति। तत: पुनरेकं संख्येयभागाधिकं संयमस्थानं, भूयोऽपि तत: पराणि कण्डकमात्राणि संयमस्था-नानि यथोत्तरमनन्तभागवृद्धानि भवन्ति, तत: पुनरप्येकमसंख्येयभागाधिकं संयमस्थानम्। एवमनन्तभागाधिकै: कण्डक प्रमाणैः संयमस्थानैर्यवहितानि असंख्येयभागाधिकानि संयमस्थानानि तावद्वक्तव्यानि यावत्तान्यपि कण्डकप्रमाणानि भवन्ति। ततश्चरमादसंख्येयभागाधिकसंयमस्थानात्पराणि यथोत्तरमनन्तभागवृद्धानि कण्डकमात्राणि संयमस्थानानि भवन्ति, तत: परमेकं संख्येयभागाधिकं संयमस्थानम्, ततो मूलादारभ्य यावन्ति संयमस्थानानि प्रागतिक्रान्तानि तावन्ति भूयोऽपि तेनैव क्रमेणाभिधाय पुनरप्येकं संख्येयभागाधिकं संयमस्थानं वक्तव्यम्, इदं द्वितीयं संख्येयभागाधिकं संयमस्थानमनेनैव क्रमेण तृतीय यावत् संख्येयभागाधिकानि संयमस्थानानि कण्डकमात्राणि भवन्ति तावद्वाच्यम्, तत उक्तक्रमेण भूयोऽपि संख्येयभागाधिक-संयमस्थान-प्रसङ्गे संख्येयगुणाधिकमेकं संयमस्थानं वक्तव्यम्, तत: पुनरपि मूलादारभ्य यावन्ति संयमस्थानानि प्रागतिक्रान्तानि तावन्ति भूयोऽपि च वक्तव्यानि, तत: पुनरप्येकं संख्येयगुणाधिकं संयमस्थानं वक्तव्यम्, ततो भूयोऽपि मूलादारभ्य तावन्ति संयमस्थानानि तथैव वक्तव्यानि, तत पुनरप्ये कं संख्येयगुणाधिकं संयमस्थानम्। अमून्यप्येव संख्येयगुणाधिकानि संयमस्थानानि तावद्वक्तव्यानि यावत् कण्डकमात्राणि भवन्ति, तत उक्तक्रमेण पुनरपि संख्येयगुणाधिकं संयमस्थानं वक्तव्यं, तत: पुनरपि मूलादारभ्य यावन्ति संयमस्थानानि प्रागतिक्रान्तानि भवन्ति तेनैव क्रमेण भूयोऽपि वक्तव्यानि, तत: पुनरप्येकमसंख्येयगुणाधिकं संयमस्थानं वक्तव्यं, ततो भूयोऽपि मूलादारभ्य तावन्ति संयमस्थानानि तथैव वक्तव्यानि, तत. पुनरप्येकमसंख्येयगुणाधिकं संयमस्थानं वक्तव्यम्, अमूनिचैवमसंख्येय गुणाधिकसंयमस्थानानितावद्वक्तव्यानि यावत्कण्डकप्रमाणानि भवन्ति, तत: पूर्वपरिपाट्या पुनरप्यसंख्येयगुणाधिकसंयमस्थानप्रसङ्गे अनन्तगुणाधिकं संयमस्थानं वक्तव्यं, ततो भूयोऽपि मूलादारभ्य यावन्ति संयमस्थानानि प्रागतिकान्तानि तावन्तितथैव क्रमेण भूयो वक्त-व्यानि, तत: पुनरप्येकमनन्तगुणाधिकं संयमस्थानं वक्तव्यं, ततो भूयोऽपि मलादारभ्य तावन्ति संयमस्थानानि तथैव वक्तव्यानि, ततः पुनरप्येकमनन्तगुणाधिकं संयमस्थानं वक्तव्यम्, एवमनन्तगुणाधिकानि तावद्वक्तव्यानि यावत्कण्डमात्राणि भवन्ति / ततो भूयोऽपि तेषामुपरि पञ्चवृद्ध्यात्मकानि संयमस्थानानि मूलदारभ्य तथैव वक्तव्यानि, यत्पुनरनन्तगुणवृद्धिस्थानं तत्र प्राप्य षट्-स्थानस्य परिसमाप्तत्वात् / इत्थंभूतात्मसंख्येयानि कण्डकानि समुदितानि षट्स्थानकं भवति, तस्माश्च प्रथमषट्स्थानका-दूर्ध्वमुक्तक्रमेणैव द्वितीयं षट्स्थाननमुत्तिष्ठति, एवमेव च तृतीयम, एवं षट्स्थानककान्यपि तावनाच्यानि यावदसंख्येया लोकाकाशप्रदेशप्रमाणानि भवन्ति। उक्तं च-छट्ठाणमए अवसाणे अन्नं छट्ठाणयं पुणोऽनंत / एवमसंखा लोगा, छट्ठाणाणं मुणेयव्वा / इत्थंभूतानि चासंख्येयलोकाकाशप्रदेशप्रमाणानि षटस्थानकानि संयमश्रेणि-रुच्यते। तथा चोक्तम-"छटाणा उ असंखा. संजमसेढी मुणेयव्वा" तदैवंकृताऽविभागपरिच्छेदस्थानान्तरकण्डकषट्स्थानकानां प्ररूपणा। सांप्रतमध: स्थानरूपणा. क्रियन्तेप्रथमादसंख्येय-भागवृद्धात्स्थानादधः कियन्ति संयमस्थानान्यनन्तभागवृद्धानि ? उच्यतेकण्डकमात्राणि तथा प्रथमासंख्येयभागवृद्धात् स्थानादध: कियन्ति असंख्येयभागवृद्धानिस्थानानि? उच्यते-कण्डकमात्राणि / एवमुत्तरोत्तरस्थानादधोऽध आनन्तर्येण तावत् मार्गणा कर्त्तव्या यावत्प्रथमादनन्तगुणवृद्धात् स्थानादध: कियन्ति असंख्येयगुणवृद्धानि स्थानानि ? उच्यते-कण्डकमात्राणि / / इदानीमेकान्तरिता मार्गणाः क्रियन्ते-तत्र प्रथमात्संख्येयभागवृद्धात् स्थानादध: कियन्त्यनन्तभागवृद्धानिस्थानानि? उच्यते कण्डक-वर्ग: कण्डकं च। तथा प्रथमासंख्येयगुणवृद्धात् स्थानादध: कियन्ति असंख्येयगुणवृद्धानि स्थानानि ? उच्यते कण्डकवर्ग: कण्डकं च। एवमुक्तप्रकारेण द्वयन्तरिता त्र्यन्तरिता चतुरन्तरिता च मार्गणा सुधिया परिभावनीया / / अथ पर्यवसानद्वारम्-तत्रानन्तगुणवृद्धकण्डकादुपरि पञ्चवृद्धयात्मकानि सर्वाणि स्थानांनि गत्वा पुनरनन्तगुणवृद्धं स्थानं न प्राप्यते, षट्स्थानस्य परिसमाप्तत्वात्। ततस्तदेव सर्वान्तिमस्थानं षट्स्थानकस्य पर्यववसानम्। अथ भाष्यकार: प्रकारान्तरेणाध:पर्यवसानद्वारयोः युगपत्प्ररूपणायाऽऽह
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy