________________ किइकम्म ५१०-अभिधानराजेन्द्रः भाग-३ किइकम्म वियडणपश्चक्खाणे, सुए खुराईणिगा वि हु करेंति। मज्झिल्ले न करिती, सो चेव करेइ तेसिं तु // विकटनमनालोचनं, प्रत्याख्यानं प्रतीत, तयोः, तथा श्रुते चोविश्यमानसमुद्दिश्यमानादौ रात्निका अपि ज्येष्ठाचार्या अप्युपसंपदं प्रतिपन्ना अवमरात्निकस्याचार्यस्य वन्दनकं कुर्वन्ति। ये तु मध्यम क्षामणकवन्दनं तन्न कुर्वन्ति, किंतुसएवाचार्यस्तेषां रात्निकानां करोति। (7) अथ यदुक्तं तिस्रः स्तुतयो दातव्या इति तत्र विधिमाहथुइमंगलम्मिगणिणा, उचरिते सेसगा थुती दिति। धम्मट्ठ मेरसारण, विणयो य ण फेडितो एवं / / पाक्षिकादिषु यद्यप्याचार्योऽवमरात्निकस्तथापि स एवावश्यके समापिते प्रथमतस्तिय: स्तुतीर्ददाति / दैवसिकरात्रिकयोरपि प्रथममाचार्येण स्तुतिमङ्गलं प्रारम्भणीयम्, ततः शेषैः / अतएवाहस्तुतिमङ्गले गणिना आचार्येणोचारिते सति शेषा: साधवः स्तुतीर्घवते, ददतीत्यर्थः / धर्मार्थ गुरुपादमूल एव कियन्तमपि कालं तिष्ठन्ति। किमर्थमिति चेत्? अत आह-काचिन्मर्यादा सामाचारी विस्मृता भवेत् तस्या: स्मारणं गुरवः कुर्वीरन्, परमोपकारिणश्च गुरवः, तत एवं प्रतिक्रमणानन्तरं कियन्तमपि कालं तेषु पर्युपास्यमानेषु विश्रमणादिविधानेन विनयोऽपि प स्फेटितो न हापितो भवति॥ अथ के पुनस्ते ये आचार्यस्यापि रत्नाधिका भवन्तीत्युच्यतेअन्नेसिं गच्छाणं, उवसंपन्नाण वंदणं तहियं / बहुमाण तस्स वयणं, उवसेवाऽऽलोयणा भणिया / / अन्येषां गच्छानां संगन्धिन आचार्या रत्नाधिकतरा: सूत्रार्थनिमित्तं कमप्यवमरात्निकमाचार्यमुपसंपन्नास्तेषां मध्यमवन्दनकम् अवमरानिकेन दातव्यं शेषकालं, तेऽपि रात्निकास्तस्यावमरात्निकस्य बहुमानं पूज्योऽयमस्माकं गुणाधिकतयति लक्षणं वचनमाज्ञानिर्देशं कुर्वन्ति। अवमेऽपि च तत्रालोचना भणिता भगवद्भिः। किमुक्तं भवति ?-तस्य पुरत आलोचनं प्रत्याख्यानं च वन्दनकं दत्वा विहितमिति भगवतामुपदेशः। (5) अथ पर: प्राह-कस्य पुन: कृतिकर्म कर्त्तव्यं कस्य वा नेति? उच्यतेसेढीठाणठियाणं, कितिकम्मं वाहिराण भयितव्वं / सुत्तत्थजाणएणं, कायट्वं आणुपुय्वीए।। संयमश्रेण्या: संबन्धीनि विशुद्धिप्रकर्षापकर्षकृतस्वरूपभेद-रूपाणि यानि स्थानानि तेषु स्थितानां कृतिकर्म कर्त्तव्यम् / ये तु संयमश्रोणिस्थानेभ्यो बाह्यास्तेषां भक्तव्यं कर्त्तव्यं वा न वेतिभावः / तत्र कारणे समुत्पन्ने सूत्रार्थज्ञेन गीतार्थेन आनुपूर्व्या " वायाइ नमोक्कारो" इत्यादिकया वक्ष्यमाणपरिपाट्या, कर्त्तव्यम्, अन्यथा तु नेति पुरातनीगाथासमासार्थः। __ सांप्रतमेनामेव विवरीषुराहसेढीठाणठियाणं, कितिकम्मं सेढि इच्छिमो णाउं। तम्हा खलु सेढीए, कायव्य परूवणा इणमो॥ संयमश्रेणिस्थानस्थितानां कृतिकर्म कर्तव्यमित्युक्ते कश्चिद् विनेयोब्रूयात्-वयं तामेव श्रेणिं प्रथमतो ज्ञातुमिच्छामः। सूरिराह यत एवं भवत: श्रेणिविषया जिज्ञासा साऽऽस्माभिरपि कर्तव्या श्रेणे: प्ररूपणया इयं वक्ष्यमाणलक्षणा। अतस्तामेव चिकीर्षुः प्रथमत: श्रेणिस्थितानां कृतिकर्मकरणे विधिमाहपुच्वं चरित्तसेढी, ठियस्स पच्छा ठिएण कायव्वं / सो पुण तुल्लचरित्तो, हविज्ज ऊणो व अहियो वा। पूर्व प्रथमं य: सामायिकस्य छेदोपस्थापनीयस्य वा प्रतिपत्त्या चारित्रश्रेण्यां स्थितस्तस्य पश्चास्थितेन कृतिकर्म कर्त्तव्यम्। स पुन पूर्वस्थितस्तं पश्चास्थितमपेक्ष्य निश्चयतस्तुल्यचारित्रो न्यूनो वा अधिको वा भवेत्। यत:निच्छयओ दुन्नेयं, को भावे कम्मि वट्टई समणो। ववहारओ य कीरइ, जो पुव्वठिओ चरित्तम्मि!। निश्चयतस्तस्ववृत्त्या क: पूर्वस्थित: पश्चास्थितो वा श्रमणः, कस्मिन् भावे चारित्राध्यवसायरूपे मन्दे मध्ये तीव्र वा वर्तते इति दुज्ञेयम्, तदपरिज्ञानाच कथं निश्चयनयाऽभिप्रायेण कृतिकर्म कर्तुं शक्यम्। व्यवहारतस्तु व्यवहारनयमङ्गीकृत्य पुन: क्रियते कृतिकर्म य: पूर्व चारित्रे स्थितस्तस्येति। ननु फलसाधकत्वान्निश्चयस्यैव प्रामाण्यं, न व्यवहारस्येत्याहववहारो वि हु बलवं, जं छउमत्थं पि वंदई अरहा। जा होइ अणाभिन्नो, जाणतो धम्मओ एयं // व्यवहारोऽपि, आस्तां निश्चय इत्यपिशब्दार्थ: / हुनिश्चितम् बलवान्। यद्यस्माच्छद्यस्थमपि स्वगुरुप्रभृतिकं वन्दते अरहा केवली। कियन्त काल-मित्यादियावदसौ (अणाभिन्नो त्ति) केवलितया अनभिज्ञानो भवति तावदेनं व्यवहारनयबलवत्त्व लक्षणं धर्मतो जानन् छद्यस्यमपि वन्दते इति। कथं पुनरसौ केवलितया ज्ञायत इत्याहकेवलिणा वा कहिए, अवंदमाणो व केवलिं अन्नं। वागरणपुटवकहिए, देवयपूआसु व सुगंति / / अन्येन केनापि केवलिना कथिते-अयं केवली ज्ञात इत्यास्याते राति अवन्दमानो वा केवलिनमन्यं केवलितया ज्ञायते। व्याकरणपूर्व वा अतिशयज्ञानगम्यार्थकथनपुरस्सरं तेनैव केवलिना स्वयमेव कथिते सति, देवतापूजासुवा यथासंविहितदेवै: क्रियमाणां महिमां दृष्ट्वा गुरुप्रभृतयस्तं केवलिनं विदन्ति। अथ श्रेणिप्ररूपणामाहअविभागपलिच्छेया, ठाणंतरकंडए य छट्ठाणा। हिट्ठा पज्जवसाणे, वड्डी अप्पाबडं जीवा। अविभागपरिच्छेदप्ररूपणा, स्थानान्तरप्ररूपणा, कण्डकप्ररूपणा, षट्स्थानप्ररूपणा, अध:प्ररूपणा, पर्यवसानप्ररूपणा, वृद्धिप्ररूपणा, अल्पबहुत्वप्ररूपणा, जीवप्ररूपणा, चामूनि प्रतिद्वाराणि। तद्यथाआलावगणणविरहिय-अविरहिय फासणा परुपणया। गणणपयसेढिअवहा-रभाग अप्पावहुं समया // आलापकप्ररूपणा, गणनाप्ररूपणा, विरहितप्ररूपणा, अविरहितप्ररूपणा, स्पर्शनाप्ररूपणा, गणनपदप्ररूपणा, श्रेण्यपहारप्ररूपणा, भागप्ररूपणा, अल्पबहुत्वप्ररूपणा, समयप्ररूपणा इति द्वारगाथाद्वयम्।