________________ किइकम्म ५०६-अभिधानराजेन्द्र: भाग-३ किइकम्म गुणविकलत्यात्। तथा संयतानामपि ये पार्श्वस्थादिभ: सार्द्ध संसर्ग कुर्वन्ति तेषामपि कृतिकर्म न कर्तव्यम्। आह-कुतोऽयमर्थोऽवगम्यते ? उच्यते-मालामरुकाभ्यां भवंति, दृष्टान्त इति वचनात् / वक्ष्यते च"असुइट्ठाणे पडियेत्यादि" "पक्कणकुलेत्यादि (वेरुलियत्ति) संसर्गजदोषनिराकरणाय वैडूर्यदृष्टान्तो भविष्यति। वक्ष्यते च - "सुचिरं पि अत्थमाणा" इत्यादि। तत्प्रत्यवस्थानं च "अंबस्स य लिंवरस य" इत्यादिना सप्रपञ्चं वक्ष्यते। (णाणे त्ति) दर्शनचारित्राऽऽसेवनसामर्थ्यविकला ज्ञाननयप्रधाना एवमाहुः-ज्ञानिन एव कृतिकर्मकर्त्तव्यम्। वक्ष्यते च"कामं चरणं भावो, तं पुण णाणसहिओ समाणे त्ति। नय नाणं तुन भावो, तेण णाणिं पणिवयामो " इत्यादि (दसणे त्ति) ज्ञानचरणधर्मविकला: स्वल्प-सत्त्वा एवमाहुःदर्शनिन एव कृतिकर्म कर्तव्यम्। वक्ष्यते च" जड नाणेण विणा चरणं नाणदंसणिस्सइय नाणं / ण य दरिसणं ण भावो, ते णरदिष्टुिं पणिवयामो'' इत्यादि। तथाऽन्ये संपूर्णचरणधर्मानुपालनासमर्था नित्यवासादि प्रशंसन्ति संगमस्थविरोदाहरणेनापरे चैत्याद्यालम्बनं कुर्वन्ति। वक्ष्यतेच"जाहे वि य परितंता, गामागरनगरपट्टणमदुता। तो केती नियवासी, संगमथेरं ववइसंति' इत्यादि। तदत्र नित्यवासे च ये दोषा:, चशब्दा-त्केवलज्ञानदर्शनपक्षे चैत्यभक्तिपक्षे चार्यिकालाभविकृतिपरि-भोगपक्षे च ते वक्तव्या इति वाक्यशेषः / एष तावद्गाथासंक्षे-पार्थः / / 6 / / सांप्रतं यदुक्तं पञ्चानां कृतिकर्म न कर्त्तव्यम्, अथ के एते पञ्च इति तान्स्वरूपतो निदर्शयन्नाहपासत्थो ओसन्नो, होइ कुशीलो तहेव संसत्तो। अहछंदो वि अएए, अवंदणिज्जा जिणमयम्मि // 7 // इयमन्यकर्तृकी सोपयोगा चेति व्याख्यायते-तत्र पार्श्वस्थ दर्शनादीनां पार्श्व तिष्ठतीति पार्श्वस्थ: / अथवा मिथ्यात्वादयो बन्धहेतवः पाशा:, पाशेषु तिष्ठतीति पाशस्थ: / आव०३ अ०। कृतिकर्म कर्त्तव्यम्कप्पइ निग्गंथाण वा निग्गंथीण वा अहारायणियाए किइकम्म करित्तए। अथ कोऽस्य सूत्रस्य संबन्ध इत्याहसंथारं हु रुहंते, किइकमं कुणइ वाचियं सायं / पातो विय पणिवायं, पडिबुद्धो एक्कमेक्कस्स॥ सायं प्रदोषसमयपौरुष्यां पूर्णायां गुरुप्रदत्तायां भुवि प्रस्तीर्थ संस्तारकमारोहन वाचिकं कृतिकर्म 'नम: क्षमाश्रमणेभ्यः' इति लक्षणं वाचनिकं प्रणामं करोति। प्रातरपिच प्रभातेऽपि प्रतिबुद्धः, सन् एकैकस्य साधोः प्रणिपातं वन्दनं यथारत्नाधिकं करोति, अत इदं कृतिकर्मसुत्रमारभ्यते। अनेन संबन्धेनायातस्यास्य व्याख्या-कल्पते निर्ग्रन्थानां वा निर्गन्थीनां वा यथारालिकं यो यो रत्नाधिकस्तदनतिक्रमेण कृतिकर्म कर्तुमिति सूत्रसंक्षेपार्थः। अथ विस्तरार्थ भाष्यकार आहकिइकम्मं पि य दुविहं, अब्भुट्ठाणं तहेव वंदणगं / वंदणगं तहि ठप्पं, अब्भुट्ठाणं तु वोच्छामि।। कृतिकर्म द्विविधम् / तद्यथा-अभ्युत्थानं, वन्दनकं च। तत्र वन्दनकं स्थाप्यम्, अभ्युत्थानं तु सांप्रतमेव वक्ष्यामि। बृ०३ उ० / (अभ्युत्थानम् अब्भुट्ठाण शब्दे प्र० भा०६६३ पृष्ठे उक्तम्। वन्दकं ' वंदगण ' शब्दे वक्ष्यते।) (5) अथ द्रव्यक्षेत्रकालभावत: कृतिकर्मकरणविधिमाहआयरियवज्झाए, काऊणं सेसगाण कायव्यं / उप्परिवाडी मासिग, मदरहिए तिण्णिय थुईओ। प्रतिक्रमणसूत्राकर्षणानन्तरमाचार्योपाध्याययो: प्रथमं कृतिकर्म कृत्वा तत: शेषसाधूनां यथारत्नाधिकक्रम कर्त्तव्यम् / अथोत्प-रिपाटया वन्दते ततो लघुमासिकं, तेनापि चाचार्यादिना मदरहितेन वन्दनकं प्रतीच्छनीयम्। प्रतिक्रमणे च समापिते तिस्र: स्तुतयः स्वरेण छन्दसाव प्रवर्द्धमाना दातव्याः। आह-शेषसाधूनां किं सर्वेषामपि वन्दनं विधेयम्, उत नेत्य-त्रोच्यतेजा दुचरिमो त्ति ता हो-इ वंदणं तीरिए पडिक्कमणे। आइण्णं पुण तिएह, गुरुस्स दुण्हं व देवसिए। प्रतिक्रमणसूत्रे तीरिते पार प्रापिते सति वन्दनं भवति यावद् द्विचरमसाधुः। द्वौ साधू अवशिष्यमाणौ यावत् सर्वेषामपि वन्दनं कृत्वा क्षामणकं कर्तव्यमिति भावः / एष विधिः पूर्व चतुर्दशपूर्वधरदशपूर्वधरादिकाले आसीत, संप्रति पुन: पूर्वाचार्यराचीर्णमिदम्-त्रयाणां साधूनां वन्दकं कर्तव्यम् तत्रेकस्य गुरोर्द्वयोश्चाशेषसाध्यो: पर्यायज्येष्ठयोः देवसिके, उपलक्षणत्वाद् रात्रिके वा आवश्यके अयं विधिरवगन्तव्यः / पाक्षिके तु पञ्च साधवो वन्दित्वा क्षमयितव्याः / चातुर्मासिके सांवत्सरिके च सप्त। आह चावश्यकचूर्णिकृत-" पविखए पंच अवस्स, चाउम्मासिए संवच्छरिप सत्त अवस्सं ति"। आह-किमत्र कारणं मौलं विधिमुल्लुक्ष्य पूर्व सूस्य इत्थम-भिनवा सामाचारी स्थापयन्तीत्युच्यतेधिइसंघयणादीणं, मेराहाणिं तु जाणिउंथेरा। सेहअगीतट्ठा विय,ठवणे आइण्णकप्पस्स / / धृतिनिसावष्टम्भरूपा, संहननं वजऋषभनाराचादि, तयोः, आदिशब्दाद् द्रव्यक्षेत्रकालादीनां च या परिहाणिर्या च मर्यादा या सिद्धान्ताभिहितनिरपवादसमाचारीरूपा हानि:, तां ज्ञात्वा पूर्वसूरयः ऐदंयुगीनसाधुजनोचितस्याचीर्णकल्पस्य स्थापनां कुर्वन्ति। किमर्थमित्याहशैक्षाणामगीतार्थानां वाऽनुग्रहार्थम्मा भूदमीषां बहुतरसाधूनां वन्दित्वा क्षमयतां विशिष्टधृतिसंहननादिबलाभावात्परिभग्नानां विपरिणाम इति। (6) अथाचीर्णस्यैव लक्षणमाहअसढेण समाइण्णं, जं कत्थइ कारणे असावज्ज / ण णिवारियमण्णेहिं, बहुमणुमयमेतमाइण्णं / / अशठे न रागद्वेषरहितेन कालिकाचार्यादिवत्प्रमाणस्थेन सता समाचीर्णम् आचरितं भाद्रपदशुद्धचतुर्थीपर्युषणापर्ववत्। कुत्रचित् द्रव्यक्षेत्रकालादौ कारणे पुष्टालम्बने असावा प्रकृत्या मूलोत्तरगुणसाधनाय अबाधकम्।नच नैव निवारितमन्यैस्तथाविधैरेव तत्कालप्रवृत्तिभिर्गीतार्थः, अपि तु बहु यथा भवत्येवमनुमतमेतदाचीर्णेमुच्यते। अथ ये आचार्यस्यापि पर्यायज्येष्ठास्तैः किमाघार्यस्य वन्दनक कर्त्तव्यमुत नेत्यत्रोच्यते