________________ एगल्लविहारपडिमा 26 - अभिधानराजेन्द्रः - भाग 3 एगल्लविहारपडमा समागच्छति / यधुदकभयेन पलायते यदि वा प्लवते तरति / अथवा सहसा वृक्षमारोहति तदा तस्य प्रायश्चित्तं चतुर्लधुएवमेव अनेनैव प्रकारेण शेषेष्यप्यग्न्यादिसमुत्थितेषु यदि प्रतीकारं करोति चतुर्लघु / इयमत्र भावना। अग्नौ प्रसर्पति सर्प वा समागच्छति यदि पलायते अन्यं वा प्रतीकारं करोति तदा प्रायश्चित्तं प्रत्येकं चतुर्लघु एतानि च पुरुषमेधोदकाग्निहस्तिसर्परूपाणि देवताकृता-ऽन्यपि संभाव्यन्ते स्वाभाविकानि च तत्र यदि देवताकृतानि यदि वा स्वाभाविकानि सर्वेष्वप्येतेषु प्रत्येकं चतुर्लघु / सांप्रतमत्थण-आलोयणेत्यादि व्याचिख्यासुराह - जेट्ठ अज्ज पडिच्छाहि, अहं तुब्भेहिं समं वचामि। इति सकलुणमालत्तो, मुज्झिज्जइ से अथिरभावो॥ अथ वा देवता संयतीवेषं कृत्वा कायोत्सर्गे समाप्ते विहारक्रमं प्रति प्रस्थितं तमव्यक्तं साधुंप्रतिपन्नं ब्रूयात्।अहोज्येष्ठार्य! अहमपियुष्ममिः समं व्रजामि तत्प्रतीक्षस्व तावत् यावत्पादलग्नं कण्टक-मपनयामि इति एवं तथा देवतया कृतसंयतीवेषया सकरुण- मालप्तः स वराक: शैक्षत्वादेवास्थिरभावो मुह्यति मोहमुपगच्छति मुह्यश्च यदि प्रतीक्षणादि करोति तथा प्रायश्चित्तं तदेवाह॥ अत्थति अवलोए तिय-लहुगा पुण कंटओ उ मे लग्गति। गुरुगा नियत्तमाणे, तह कंटगमग्गणे चेव / / तत्र यदि कण्टको मे लग्न इति वचः श्रुत्वा (अत्थतित्ति) प्रतीक्षते तदा प्रायश्चित्तं लघुकाश्चत्वारो लघुमासाः / अथापि तत्संमुखमवलोकते तदापि चतुर्लधु / एतच "आसन्नतो लहुवो" इति वक्ष्यमाणग्रन्थादवसितम्। अय दूरात्तदा तस्मिन् दूरान्नि-वर्तमाने चत्वारो गुरुका गुरुमासास्तथा (कंटगमग्गणे चेवेति) यदि कण्टकमपनेष्यामीति / तत्पादलग्नं कण्टकं मृगयते तदापि प्रायश्चित्तं चतुर्गुरु / / छेदो कंटकपाय-ग्गहणे छल्लहुछग्गुरू वा। चलण मुक्खिवइ दिम्मि, छग्गुरुगा परिणतो भवति / / यदाहं प्रतिसेवे इति तदा छेदः अकरणे प्रतिसेवायाः षट् लघवो | लघुमासाः। अथ तस्याः संयत्याः पादं गृह्णाति कण्टकोद्धारणाय तदापि षट् लघु यदि पुनश्चरणं पादमुत्क्षिपति उत्पाटयति कण्टकोद्धारणाय तदाषट् गुरु।पादे उत्पाटिते सति यदि सागारिकं पश्यति तदा तस्मिन्नपि दृष्ट षड् गुरु सागारिकदर्शनानन्तरं यदि भावः परिणतो भवति यदाहं प्रतिसेवे इति तदा छेदः करणे प्रतिसेवाकरणे मूलं एतत्प्रायश्चित्तविधानं भिक्षोरुक्तं गणा-वच्छेद्याचार्ययोः पुनरिदमाह (सत्तद्दत्ति) अत्र पूरणप्रत्ययान्तस्य लोपः प्राकृतत्वात्ततोऽयमर्थः / गणावच्छेदिनः प्रायश्चित्तविधानं द्वितीयाचतुर्लघुकमारब्धं समाप्तमनवस्थाप्यं / प्रायश्चित्तं यावदसेयम् / आचार्यस्य प्रथमा चतुर्थगुरुकादारब्धमष्टम / पारञ्चित्तं प्रायश्चित्तं यावत्। एतदेवाह / / लहुगा य दोसु दोसु य, गुरुगा छम्मासलहुगुरू छेदो। भिक्खुगणायरियाणं, मूलं अणबद्ध पारंची।। भिक्षुगणाचार्याणां भिक्षुगणवच्छेद्याचार्याणां यथाक्रमं प्रायश्चित्तविधान मूलमनवस्थाप्यं पाराश्चित्तं च यावत्तद्यथा भिक्षौर्दयोः प्रतीक्षणेऽवलोकने च चत्वारो मासा लघवः द्वयोर्निवर्तने कण्टकमार्गणे च चत्वारो गुरुकाः (छम्मा-सलहुगुरुत्ति) अत्र दोसु इति प्रत्येकममिसंबध्यते द्वयोः कण्टकग्रहणे पादग्रहणे च षण्मासालघवः द्वयोः पादोत्क्षेपेसागारिकदर्शने च षड् गुरु प्रतिसेवाभिप्राये च्छेदः प्रतिसेवाकरणे मूलं गणावच्छेदिनो यथाऽनवस्थाप्यं पर्यन्ते भवति तथा वक्तव्यम्। तच्चैवं गणा-वच्छेदिनः प्रतीक्षणे चत्वारो लघुकाः अवलोकने चत्वारो गुरवः / निवर्तने चत्वारो गुरवः कण्टकमार्गणेषट् लघु कण्टकग्रहणे षट् लघुसंयतीपादग्रहणे षट् गुरुपादोत्पाटने छेदः। सागारिक-दर्शने छेदः। प्रतिसेवाभिप्राये मूलम्। प्रतिसेवाकरणेऽनवस्था-ऽप्यम्। आचार्यस्य यथा पाराश्चितमन्ते भवति तथा वक्तव्यं तचैवमाचार्यस्य प्रतीक्षणे चतुर्गुरु निवर्तने कण्टकमार्गणे च षट् लघु कण्टकग्रहणे पादग्रहणे च षट् गुरु / पादोत्पाटने छेदः / सागारिकदर्शने मूलं प्रति सेवाभिप्राये मूलम् / प्रतिसेवाकरणे पाराञ्चितमिति। ___ संप्रति यदुक्तं "गुरुगा निवत्तमाण'' इति तत्र विशेषमाह - आसन्नातो लहुओ, दूरनियत्तस्स गुरुतरो दंडो। चोगयसंगामदुर्ग, नियट्टखिसंति अणुग्घाया। संयत्या आसन्नात्प्रदेशान्निवृत्तेलघुको दण्डः चत्वारो लघु-मासा दण्ड इत्यर्थः / दूरान्निवृत्तस्य गुरुतरश्चत्वारो गुरुमासाः। एवमाचार्येण प्ररूपिते चोदकः प्रश्नयति / तत्र चोदकाचार्यनि दर्शनं संग्रामद्विकं निदर्शनं तं च भनप्रतिज्ञं निवृत्तं प्रत्यागतं सन्तं ये (खिसंतित्ति) हीलयन्ति तेषामनुद्धाताश्चत्वारो गुरुका मासा प्रायश्चित्तमित्युत्तरार्द्धसंक्षेपार्थः / इदानीमेतदेवोत्तरार्द्ध विवरीषुः प्रथमतश्चोदकवचनं भावयति॥ दिटुं लोए आलो य, भंगविणिए य अवणियनियत्तो। अवराहे नाणत्तं, न रोयए केयणं तुज्झे। प्रागुक्ताचार्य प्ररूपणानन्तरं परः प्रश्नयति / ननु संयत्याः प्रत्यासन्नात्प्रदेशात्प्रतिनिवृत्तस्य गुरुतरेण दण्डे न भवितव्यं दूरात्प्रतिनिवृत्तस्य लघुतरेण न चैतदनुपपनं यतो लोकेऽपि दृष्टं तथा ह्येकस्य राज्ञो नागरमपरो राजा वेष्टयितुकामः समागच्छति तं च समागच्छन्तं श्रुत्वा नगरस्वामी भयात्प्रेषयति / तथा यूयं तत्र गत्वा युध्यध्यमिति / तत्रैको भटः परबलमतिप्रभूत-मालोक्यदर्शनमात्र एव भग्नः प्रत्यागतोऽन्यो युध्वा चिरकालं संजातव्रणो भग्नः समागतः अपरः परबलेन सह युध्वाऽसंजात-व्रण एव भग्नः प्रतिनिवृत्तः। तत्रैषां भटानां मध्ये यः आलोक भङ्गी दर्शनमात्रतो भग्नः प्रतिनिवृत्तस्तस्य बहुतरोऽपराधः यः पुनः संजातवृणो यश्चाद्रणित एतौ द्वावपि भनौ सन्तौ प्रतिनिवृत्ता-वित्यपराधिनौ केवलमालोकभङ्गापेक्षयाऽल्पतरापराधो दूरात्प्रतिनिवृत्तत्वादेवं लोके दूरासन्नभेदेनापराधेनानात्वमिदम् उपलब्ध तत एव दृष्टान्तबलेन यन्मयोक्तं संयत्याः प्रत्यासन्नात् प्रदेशात् प्रतिनिवृत्तस्य भूयान् दण्डो दूरात्प्रतिनिवृत्तस्याल्पतर इति / ततः केन कारणेन युष्मभ्यं न रोचते। सूरिराह / / अक्खयदेहनियत्तं, बहुदुक्खभएण जं समाणेह। एयमहं न रोयति, को ते विसेसो भवे एत्थ / / यद्वहुदुःखभयेन परबलेन सह युध्यमानस्य प्रभूतंदुःखं मरण-पर्यवसानं भविष्यतीति भयेन सुकृत्तदेहः सन् निवृत्तः प्रतिनिवृत्तोऽ कृत्तदेहनिवृत्तस्तत्समानम् एतन्मान रोचते विषमत्यात्तथा हि। नसर्वथा अत्राकृत्तचारित्र प्रतिनिवर्तते किं तु कृ तचारित्रस्ततो-ऽप्यत्र स उपन्यसनीयोयोऽधिकृतस्तदा वान्तिकेन सहमानतामव-लम्बतेन चासो तथेति पर आह। यदेष दृष्टान्तस्तवन भासते ततः कोऽत्रास्मिन् विचारे तव विशेषो भवेत् विशिष्टो दृष्टान्तः स्यात्। सूरिराह -