________________ एगल्लविहारपडिमा 27 - अमिधानराजेन्द्रः - भाग 3 एगल्लविहारपडमा णाः प्रतिषेधनं कृतवन्तः यथा त्वमयोग्यः श्रुतेन वयसा वाऽप्राप्तवात्नच परिकर्मणा तद्योग्या त्वया कृतेति / स एवं प्रतिषिध्यमानोऽपि यदान | तिष्ठति तदा सूरेर्वक्तव्यो यदि न स्थास्यसि तर्हि निवर्तयासि यथा सा देवी का सा देवीति चेत्। अत आह / (देवीसंगामतो नीति) देवी राज्ञा | वार्यमाणाऽपि ततो राज्ञः सकाशाद्विनिर्गच्छति संग्रामे प्रविशतीति प्रतिमाप्रतिपत्तिविधिः इदानीं समाप्तिविधिमाह - तीरियउम्मामणियोग-दरिसणं साहु सन्निव प्पाहे। दंडियभोइय असती, सावगसंघो व सक्कार। तीरितायां समाप्तायां प्रतिमायामुत्प्राबल्येन भ्रमन्तीत्युद्धमाः भिक्षाचरास्तेषां नियोगो व्यापारो यत्र स उद्धामनियोगो ग्रामस्तत्र दर्शनात्मनःप्रकटनं करोति। ततः साधुसंयतं संज्ञिनक सम्यग्दृष्टि श्रावकं (अप्पाहेत्ति) सन्देशयति / ततो दणिक्कस्य राज्ञो निवेदनं सत्कारक करोति / तदभावे भोजिकस्त-स्याप्यभावे श्रावकवर्गस्तस्याप्यभावे संघः साधुसाध्वीवर्गः / इयमत्र भावना / प्रतिमायां समाप्तायां यस्मिन् ग्रामे प्रत्यासन्ने बहवो भिक्षाचराः साधवश्व समागच्छन्ति तत्रागत्यात्मानं दर्शयति / दर्शयंश्च यं साधुं श्रावकं वा पश्यति तस्य सन्देशं कथयति / यथा समापिता मया प्रतिमा ततोऽहमागत इति / तत्राचार्या राज्ञो निवेदयन्तिा यथा अमुको महातपस्वी समाप्ततपः कर्मा संस्तदतिमहता सत्कारेण गच्छे प्रवेशनीय इति। ततः स राजा तस्य सत्कारं कारयितव्यस्तदभावे अधिकृतस्य ग्रामस्य नगरस्य वा नायकः तदभावे समृद्धः श्रावकवर्गस्तदभावे साधुसाध्वी-प्रभृतिकः संघो यथाशक्ति सत्कार करोति / सत्कारो नाम तस्योपरि चन्द्रोदयधारणं नान्दीतूर्यास्फालनं सुगन्धवास प्रक्षेपणमित्यादि। एवंरूपेण सत्कारेण गच्छं प्रवेशयेत्। सत्कारेण प्रवेशनायामिमे गुणाः - उन्मावणा पवयणे,सद्धाजणणं तहेव बहुमायो। ओहावणा कुतित्थे, जीयं तह तित्थवड्डी य॥ प्रवेशसत्कारेण प्रवचने प्रवचनस्य उद्भाजनं प्रावल्येन प्रकाशनं भवति / तथा अन्येषां बहूनां साधूनां श्रद्धाजननं यथा वयमप्येवं कुर्मों महती शासनस्य प्रभावणा भवति / यथा श्रावक श्राविकाणामन्येषां च बहु मानमुपजायते / शासनस्यो- परि यथा अहो महाप्रतापि पारमेश्वरं शासनं यत्रेदृशा महातपस्विन इति / तथा कुतीर्थे जातावेकवचनम्। कुतीर्थानामपभ्राजना हीलना। तत्र ईदृशां महासत्वानां तपस्विनामभावात्। तथा जीतमेतत्कल्प एष यथा समाप्तिप्रतिमानुष्ठानः सत्करणीय इति / तथा तीर्थवृद्धिश्च / एवं हि प्रवचनस्यातिशयमुदीक्षमाणा बहवः संसारात् विरज्यन्ते विरक्ताश्च परित्यक्तसङ्गाः प्रव्रज्यां प्रतिपद्यन्ते ततो भवति तीर्थप्रवृद्धिरिति / तदेवं परिकर्मणाभिधानं प्रतिमा-प्रतिपत्तिः प्रवेशसत्कारश्च भणितः / सांप्रतमधिकृतसूत्रं यत्र योगमर्हति तद्विवक्षुरिदमाह - एएण सुत्तं न गयं, सुत्तनिवातो इमो उ अव्वत्ते। उचारियसरिसं पुण, परूवियं पुष्वमणियं पि।। यदेतदनन्तरं परिकर्मणादिकमुक्तं नैतेन सूत्रं गतं व्याख्यातं जातावेकवचनस्य भावात् / नैतेन त्रीणि सूत्राणि व्याख्यातानि। सूत्राणामन्यविषयत्वात् / तथा चाह ।'"सुत्तनिवातो इमो उ अव्वत्ते" तुशब्दः पुनरर्थे स च पुनरर्थं प्रकाशयन् हेत्वर्थमपि प्रकाशयति / / ततोऽयमधिकृतः सूत्रनिपातो व्यक्तोऽव्यक्त-शब्दविषयः। अव्यक्तो नाम श्रुतेन वयसा वाऽप्राप्तोऽपरिकर्मितश्च पूर्वभणितं च समस्तं व्यक्तविषयमतोऽन्यविषयत्वं च प्रागुक्तमिति / नैतेन प्रागुक्तेन सूत्रत्रय गतमिति / अत्राह / यदेतत्प्राग्व्याख्यातं न तेन यदि सूत्रत्रयं गतं तर्हि तदेतत् कुत आगतम् / सूत्रात्तावन्न भवति सूत्रस्यान्यविषयत्वात् / अन्यस्माचेत्तर्हि न वक्तव्यमसंबद्धत्वात् अत आह (उच्चारिय सरिसमित्यादि) परिकर्मणाभिधानं यच पूर्वमाचारदशासु भिक्षुप्रतिमागतमुक्तं यथा "घरसउणीसीह इत्यादि' / तथा "परिचियकालामंतेणेत्यादि" च प्राग्भणितमपि प्ररूपितमुच्चरितस्य सदृश-मनुगतमिति कृत्वा किमुक्तं भवति // "एगल्लविहारपडिम उवसंपज्जित्ताणं विहरित्तए" इत्युक्तमेतच सूत्रखण्डेव्यक्ते ऽव्यक्तेच समानं ततो यदपि सकलसूत्रो-पनिपातोऽव्यक्तविषयस्तदपि यदेतत्सूत्रखण्ड तत् व्यक्तेऽपि समानमिति व्यक्तविषयं परि-कर्मणादिकमुक्तमित्यदोषः / यदुक्तमयमधिकृतसूत्रोपनिपातो ऽव्यक्तविषय इति / तत्राव्यक्ते यथा प्रतिमाप्रतिपत्तिसम्भवस्तथोपपादयति। आगमणे सक्कारं, को यं दतॄण जायसंवेगो। आपुच्छणपडिसेहण, देवी संगामतो नीति / / संगामे निवपडिम, देवी काऊण जुज्झति रणम्मि। वितियवले नरवती, नाउंगहिया धरिसिया य॥ संग्रामे देवी नृपप्रतिमां राज्ञ आकारं कृत्वा युध्यते सा च तथा रणे संग्रामे युध्यमाना द्वितीयबले प्रतिपक्षबले यो नरपतिस्तेन कथमपि ज्ञाता अरे महिला युध्यतीति सन्नाहापेक्षं कृत्वागृहीता चण्डालैर्घर्षापिता मारिता च एषोऽक्षरार्थः / भावार्थः कथानका-दवसेयस्तचेदम्। "एगेण राणा एगस्सरण्णो नगरं वेढियं। रायासु अंतेउरो नगरब्भंतरे अग्गमहिसी भण्णइ / जुज्झामि वारिजंती वि रन्ना न ठाति ततो सा सन्नहिता खंधावारेण समं निगंतु परबलेण समं जुज्झइ महिलित्ति काउं गहिया, चंमालेहिं धरिसाविता मारिया। दूरेतो पडिमातो, गच्छविहारे वि सो न निम्माते। निग्गंतुं आसन्ना, नियति लहुओ गुरू दूरे।। दूरे तावत्प्रतिमाः। किमुक्तं भवति। तद्विषयमिदं सूत्रत्रिकं तस्य प्रतिमाः प्रतिपत्तव्यास्तावत्दूरे विशिष्टश्रुतक्योभ्यामप्राप्ततया तत्सामाचारीपरिज्ञानस्य परिकर्मणायाश्चाभावात् गच्छविहारे गच्छसामाचार्यामपि सोऽधिकृतसूत्रत्रयविषयो निर्मातो न परिनिष्ठामुपगतः स आचार्येण वार्यते / स च वार्यमाणोऽपि यदा स्व-गच्छान्निगत्य यदि कथमपि बुद्धिपरावर्तनेनासन्नाद्विनिवर्त्तते ततस्तस्य प्रायश्चित्तं लघुकोः मासः / दूरे दूराद्विनिवर्त्तते तत आह - गच्छं दोसो गच्छा, निग्गंतूणं ठितो उ सुण्णघरं / सुत्तत्थसुण्णहियओ, संभरइ इमेसि मे गामी॥ स्वमात्मीयं छन्दोऽभिप्रायो यस्य स स्वच्छन्दः सन् गच्छाद्वि-निर्गत्य शून्यगृहे उपलक्षणमेतत् / श्मशाने वा वृक्षमूले वा देवकुलसमीपे वा कायोत्सर्गेण स्थितः स च सूत्रमर्थं वा न किमपि जानाति यचिन्तयति। ततः सूत्रार्थशून्यहृदय एकाकी सन् एषां वक्ष्यमाणानामाचार्यादीनां स्मरति। तानेवाह - आयरियवसभसंघा-डएयकंदप्पमासियं लहुयं / एमाणिपत्तसुण्णघरे, अत्थमिए पत्थरे गुरुगा / /