SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ एगल्लविहारपडिमा 26 - अभिधानराजेन्द्रः - भाग 3 एगल्लविहारपडमा मन्यथातिशेष येन या प्रतिमांपूर्व नाचीपर्णा तस्यतां प्रति नियामानावना परिकर्मणा भवति। सांप्रतमामन्त्रणक्षामण तपःसंयमद्वाराण्याहआमंतेऊण गणं, सवालवुड्डा उलंखमादेत्ता। उग्गतवभावियप्पा, संजमपढमेव वितिए वा॥ गणं गच्छं सह बाला यैस्ते सवालास्ते च ते वृद्धाश्च तैराकुल-मामन्त्र्य समाहूय क्षमयति। यथा यदि किञ्चित्प्रमावतोमया न सुष्ठ भवतां वर्तितं तदहं निःशल्यो निष्कषायं क्षमयामीति / ये च पूर्वविरुद्धास्तानेवं सविशेषत क्षमयति / एवमुक्ते ये लघवस्ते आनन्दाश्रुप्रपातं कुर्वाणः भूमिगतशीषस्तिं क्षमयन्ति ये पुनः श्रुतपर्यायवृद्धास्तान् पादेषु पतित्वा स क्षमयति / उक्तं च "किंचि पमाएणं, न सुष्ठ भे वट्टियं मए पुचि। तं खामेमि अहं खु, निस्सल्लो निक्कसाओ य। आणंदअंसुपायं, कुणमाणा ते वि भूमिगयसीसा। तं खाति जहारिहं, जहारिहं, खामिया तेण"। एवं क्षमयतस्तस्य के गुणा इति चेत् उच्यते / निःशल्यता विनयप्रतिपत्तिर्गिस्य प्रकाशनम् अपहृतभारस्येव भार वाहस्य लघुता एकाकित्वप्रतिपत्त्यभ्युपगमः / क्वचिदप्यप्रतिबद्धता / एते प्रतिमासु प्रतिपद्यमानासु क्षमयतो गुणाः। उक्तं च "खामंतस्स गुणा खलु, निस्सल्लय विणयदीवणा मग्गे / लाघविणं एगत्तं, अपडिबंधो उ पडिमासु" / गतमामन्त्रणाद्वारम् / स एवं च क्षामयि-त्वा भावितात्मा तपोभावनाभावितान्तः उग्रं तपः करोति / गतं तपोद्वारम। स च तथा प्रतिमा प्रतिपन्नः संयमे प्रथमे वा सामायिकलक्षणे वर्तते। द्वितीये वा छेदोपस्थापने। तत्र प्रथमे मध्यमतीर्थकरतीर्थेषु विदेहतीर्थकरतीर्थेषु च द्वितीये भरतादिषु प्रथमपश्चिमतीर्थकरतीर्थेषु एतच्च प्रतिपद्यमानकानधिकृत्योक्तं, वेदितथ्यम् / पूर्व प्रतिपन्नाः पुनः पञ्चानां संयमानामन्यतमस्मिन्संयमे भवेयुः उक्तंच। 'पढमेवा वीएवा, पडिवजइ सेजमम्मि पडिमातो / पुव्वपडिपन्नतो पुण, अन्नयरे संजमे हुञ्जा" गतं सेयमद्वारम्। अधुना भक्तद्वारमुपथिद्वार चाह - पग्गहियमलेवकडं, भत्तजहण्णेण नवविहो उवही। पाउरणवज्जियस्सउ, इयरस्सदसा विजावाए। भक्तमुपलक्षणमेतत् पानकं च अलेपकृतं कल्पते तथा प्रगृहीतमिहालेपकृद्भिक्षाया उपरितनानां तिसृणां भिक्षाणां मध्यमामध्यमग्रहणे चाद्यन्तयोरपि ग्रहणं ततोऽयमर्थः सप्तसु चउहि पिण्डैषणासु मध्ये उपरितनीनां चतसृणामन्यतमस्याः पिण्डैषणायाः अभिग्रहः / आद्यानां तिसृणां पिण्डैषणानां प्रतिषेधः एतच चूर्णिकारोपदेशात् विवृतम् तथाचाह चूर्णिकृत् "उपरिल्लहिं पिंडेसणाहिं अन्नयरीए | अभिग्गहो सेसासु तिसु उम्गहो इति"|| गतं भक्तद्वारमुपधिद्वारमाह / जघन्येनोपधिर्नवविधः / पात्रपात्र-बन्धपात्रस्थापना-पात्रकसरिका-पटल-रजवाण-गोच्छक-मुखवस्त्रिकारजोहरणलक्षण एष च नवविधो जघन्यत उपधिर्यः प्रावरणवर्जीकृतप्रावरण परिहाराभिग्रहस्तस्य वेदितव्यः। इतरस्य कृतप्रावरणपरिग्रहस्य दशादिको विज्ञेयो यावत्द्वादशविधः। तत्रैकसौत्रिककल्पपरिग्रहे दशविधः सौत्रिककल्पद्वयपरिग्रहे एकादशविधः / कल्पत्रयस्यापि परिग्रहे द्वादशविधः / गतमुपधिद्वारम्। संप्रति निक्षेपद्वारमाह - वसहीए निग्गमणं, हिंडंतो सवभंडमादाय। नयनिक्खिवइ जलाइसु, जत्थ से सूरो वयति अत्थं / / वसतेः सकाशाद्यदि निर्गमनं भवति ततो नवविधोपधि- धारणेनैव भाण्डमुपकरणमात्मीयं वसतौ न निक्षिपति / किंतु सर्वभाण्डमादाय हिण्डते हिण्डमानश्च यत्रैव जलादिषु जले स्थले ग्रामे नगरे कानने वने वातस्य सूर्यो व्रजत्यस्तं तत्रैव कायोत्सर्गेण अन्यथा वाऽवतिष्ठतेन पुनः पदमात्र मुत्क्षिपति। गतं निक्षेपद्वारम्।। अधुना आपन्नलाभगमनद्वाराण्याह। मणसावि अणुग्धाया, सचित्ते चेव कुणति उवदेसं / अचित्तजोगगहणं, भत्तं पंथो य तइयाए। मनसापि आस्तां वाचा कायेन चेत्यपिशब्दार्थः / यानि प्रायश्चित्तानि आपद्यते तानि सर्वाण्यपि तस्यानुद्धातानि गुरूणि भवन्ति / गतमापन्नद्वारम् / लाभद्वारमाह (सचित्ते- चेत्यादि) लाभो द्विविधः सचित्तस्य अचित्तस्य च तत्र सचित्तस्य प्रव्रजितुं कामस्य मनुष्यस्य अचित्तस्य भक्तपानादेः / तत्र यदा सचिंत्तस्य लाभ उपस्थितो ज्ञायते यथा नूनमेष प्रव्रजिष्यति वतु स्थास्यति तदा तस्मिन्सचित्ते प्रव्रजितुमुपसंपद्यमानतया संभाविते उपदेशमेव करोति नतु तं प्रव्राजयति / तस्य तामवस्थामुपमतस्य प्रव्रज्यादानानर्हत्वात्। एवकारो भिन्नक्रमः स च तथास्थानं योजितः अचित्तस्य पुनर्योग्यस्य भक्तस्य पानस्य वा ग्रहणं करोति / गतं लाभद्वारम् / गमनद्वारमाह / भक्तं भिक्षाचर्याः पन्थाः पथि विहारक्रमकरणाय गमनं ततीयस्यां पौरुष्यां नान्यदा। तदा फल्पत्वात् तदेवं भिक्षोः प्रतिमाप्रतिपत्तिविधिरुक्तः। संप्रति गणावच्छेद्यादिषुतमाह - एमेव गणायरिए, गणनिक्खिवणम्मि नवरि नाणत्तं / पुथ्वोवहिस्स अहवा, निक्खिवणमपुष्वगहणं तु / / एवमेव अनेनैव भिक्षुगतेन प्रकारेण(गणित्ति)गणावच्छेदिनि (आयरिएत्ति) आचार्योपाध्याये वक्तव्यं किमुक्तं भवति यथा भिक्षौ प्रतिमां प्रतिपत्तुं प्रतिपन्ने च विधिरुक्तस्तथा गणावच्छेदिनि आचार्योपाध्याये च प्रतिपत्तव्यः / तथा च सूत्रकारोऽपि तत्सूत्रे अतिदेशत आह "एवं गणावच्छेदंएवं आयरितोवज्झाए" एवं भिक्षुगतेन सूत्रप्रकारेण गणावच्छेद एवमेव आचार्यश्च उपाध्यायश्च आचार्योपाध्यायम् / तद्यथा "गणावच्छेयए वा गणातो अवक्कम्माएगल्लविहारपडिमं उवसंपजित्ताण विहरेज्जा से इयज्जा दोचं पि तमेव ठाणं उक्संपज्जित्ताणं विहरित्तए पुणो आलोएज्जा, पुणो पडिक्कमेजा। पुणो छेदस्स परिहारस्स वा उवट्ठाएजा। तथा आयरितोवज्झाए य गणातो अस्स एगल्ल-विहारपडिम उवसंपञ्जित्ताणं विहरे इत्यादि "व्याख्याऽप्यस्य सूत्रद्वयस्य तथैव। अथ किमविशेषेण भिक्षाविव प्रतिमा-प्रतिपत्तिविधिरनुसरणीयो यदि वास्ति कश्चिद्विशेषस्तत आह (गणनिक्खेवणं इत्यादि) नवरं नानात्वं भेदो गणनिक्षेपणे। इयमत्र मावना गणा वच्छेदी गणावच्छेदित्वं मुक्त्वा प्रतिमा प्रतिपद्यते आचार्योऽन्यंगण धरं स्थापयित्वेति विशेषः / अथवा इदं भिक्षुगतविधेर्गणावच्छेद्याचार्ययोर्विधिः / नानात्वं गणाच्छेदी आचार्यो वा पूर्वगृहीतमुपधिंनिक्षिप्य अन्यमुपधि प्रायोग्यमुत्पाद्य प्रतिमा प्रतिपद्यते इत्युक्तम् / समाप्तप्रतिमानुष्ठानस्य गच्छं प्रत्यागमने राजादिभिः क्रियमाणं सत्कार कोऽपि भिक्षुर्गणा-वच्छेदी आचार्यो वा दृष्ट्वा जातसंवेगः सन् स्वाचार्याणां पुरत आपृच्छनं करोति / यथा भगवन्नहमप्येकाकि विहारप्रतिमा प्रतिपद्य इति / ते चाचार्या विशिष्टश्रुतविदो जानन्तिं भाविनं चेति / / तस्यायोग्यतामुदीक्षमा
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy