________________ एगल्लविहारपडिमा 25 - अभिधानराजेन्द्रः - भाग 3 एगल्लविहारपडमा पारेहितं पि मंते, ! देव य अच्छी चवेडपामणया। काउस्सग्गा कंपण-एलगमए एइ निवित्ती।। परिकर्मणायामुदाहरणं क्षपकः / वलामोटिकायां श्रुतपर्याय-त्वेन परिकर्मणायामेव प्रतिपत्तावाहरणं शैक्षकः सोऽपि शैक्षकस्तथा क्षपक इव तिष्ठति कायोत्सर्गेणावतिष्ठते। ततो देवतया प्राभातिके उपसर्गे कृते सशैक्षकः पारयति पारयित्वा च क्षयकं ब्रूते। यथा भहन्त! त्वमपि पारय जातंप्रभातमिति ततो देवतया चपेटाप्रदानेन तस्याक्ष्णोः पातनमकारि तदनन्तरं शैक्षकानुकम्पया देवताराधनार्थ कायोत्सर्गः कृतस्तेन देवताया आकम्पनमावर्जनम भूत्ततः / सद्योमारितस्य एडकस्य प्रदेशयोरक्ष्णोस्तत्र निर्वृत्तिर्निष्पत्तिः कृता / एष गाथाद्वय संक्षेपार्थः / भावार्थः कथानकादवसेयस्तचेदम्'एगो खवगो एगल्लविहारपडिमाए परिकम्म करेइ सो पडिसं ठितो सुत्तत्थाणि करेति / अन्नो खवगो अप्पसुत्तो आयरियं विन्नवेति / अहंपि परिकम्मं करेमि / आयरिएणं भणियं तुम सुएणं अपज्जत्तो न पाओग्गोसि वारिज्जमाणो असुणित्ता तस्स जमलतो तहेवपडिमं ठितो। देवया चिंतेइएस आणाभंगेवदृत्तित्ति। अडरत्तेपभायं दंसेति। ततो सेहखवगो पारित्ता भणति। तं खवर्ग पारेहि / सेह खवगो देवयाए चेवडाए आहतो / दोवि अच्छीणि पडियाणि तं दर्दू इयरो तदणुकंपणट्ठा देवयाए आकंपणनिमित्तं धणियं काउसग्गेण ठितो। ततो सा देवया आगता भणति खवग ! संदिसह किं करेमि / खवगेण भणियं कीस ते सेहो दुक्खावितो। देहि से अच्छीणि। ताहे तीए देवयाए भणीयं अच्छीणि अप्पदेसी भूयाणि खवगो भणइ कहवि करेहि / ताहे सज्जो मारियस्स एलगस्स सप्पएसाणि / सेहखबगस्स लाइयाणि" / सांप्रतमेतस्य निदर्शनोपनयमाह - भावियममावियाणं, गुणा गुणण्णाइ विति तो थेरा। वितरंति भावियाणं, दव्वादिसु भेयपडिवत्ती।। भावितानां कृतपरिकर्मणानां गुणा यथा क्षपकस्य अभावितानाकृतपरिकर्मणानामगुणा यथा शैक्षकः क्षपकस्य इति एवं भाविता गुणा गुणज्ञाः स्थविराः आचार्यास्तत आपृच्छानन्तरं यान् भावितान् सम्यग् जानन्ति तेषां भावितानां प्रतिमाप्रतिपत्तिं वितरन्ति समनुजानन्ति एतेन "आपुंछणा विसज्जण'' इत्येत व्याख्यात-मधुना पडिवजणं इत्येतव्याख्यानायाह। (दव्वादिसुभेय-पडिवत्ती) द्रव्यादौ द्रव्यक्षेत्रकालभावेषु शुभेषु प्रशस्तेषु प्रतिमायाः प्रतिपत्तिर्भवति कथमित्याह - निरुवसग्गनिमित्तं, उवसग्गं वंदिऊण आयरिए। आवस्सियं च काउं, निरवेक्खो वचए भयवं / / पूर्वं समस्तमपिस्वगच्छमागत्य यथार्ह क्षमयित्वा तदनन्तर-माचार्येण सकलस्वगच्छसमन्वितेन सकलसंघसमन्वितेन च शैक्षनिरुपसर्गनिमित्तमुपसर्गाभावेन सकलमपि प्रतिमानुष्ठानं निर्वहत्वित्येतन्निमित्तं कायोत्सर्ग करोति तद्यथा "निरुवसग्ग-वत्तियाए सद्धाए मेहाए" इत्यादि / कायोत्सर्गानन्तरं च सूत्रोक्तविधिना प्रतिमा प्रतिपद्य आचार्यान् वन्दते वन्दित्वा च आवश्यकीं कृत्वा स भाण्डमात्रोपकरणः सिंहगुहातो निरपेक्षं पूर्वापक्षाविरहितो भगवान् व्रजति आचार्याश्च सकलसंघसमन्विताः पृष्ठतोऽनुव्रजन्ति। ते चतावद्गच्छन्ति यावद्रग्रामस्य नगरस्य वा आघाटस्ततो निरीक्षमाणास्तावदासते यावत्। दृष्टिपथातीतो भवति ततः सर्वे विनिवर्तन्ते। संप्रति वक्ष्यमाणवक्तव्यतासंसूचनाय द्वारगाथामाह - परिचियकालामंतण-खामणतवसंजमे य संघयणा। भत्तोवहिनिक्खेवे, आवण्णो लाभगमणे य॥ परिचितश्रुतः सन् यावन्तं कालंपरिकर्म यस्य करोति तस्य तावत्कालो वक्तव्यः तथा स्वगणामन्त्रणं वक्तव्यं तथा तपः संयमः संहननं तथा भक्तमलेपकृदादि उपधिर्यावत्संख्याको जघन्यत उत्कर्षतश्च तावत्संख्याको वक्तव्यः / तथा निक्षेप उपधेर्न कर्तव्यो वसतरेन्यत्र गच्छतेति वाच्यम्।तथा मनसापि यत्प्रायश्चित्तमपन्नं भवति तद्दातव्यम्। तथा सचित्ताचित्तलाभो यथा कर्त्तव्यस्तथा भणनीयः / तथा गमनं विहारस्तद्यस्यां पौरुष्यां कर्त्तव्यं तस्याः कथयितव्यम् / एष द्वारगाथासंक्षेपार्थः / सांप्रतमे नामेव व्याचिख्यासुः प्रथमतः परिचितकालद्वारमाह - परिचितसुओ उ मग्गसिर-मादि जाते उ कुणति परिकम्म। एसो चिय सो कालो, पुणरेव गणं उवग्गम्मि।। परिचितमत्यमभ्यस्तं स्वीकृतं श्रुतं येन स परिचितश्रुतः सन्मार्गशीर्षमासमादि कृत्वा यत्परिकर्म करोति। एष एतावत्प्रमाण एव साधोः प्रतिमाप्रतिपित्सोर्जधन्यपदे उत्कर्षतः कालः परिकर्मणाया एतावत्प्रमाणोत्कृष्टपरिकर्मणाकालानन्तरं च यद्यप्यवधानप्रतिमा प्रतिपित्सुस्तथापि अग्रयस्य मुखस्यवर्षा-कालसंबन्धिनः समीपमुपग्रयमाषाढमास इत्यर्थः। तस्मिन्वर्षा-कालयोग्यमुपधिं ग्रहीतुं पुनरेत्यागच्छति / स्वगणमिति एवं तचेदमुत्कलितमुक्तमिदानीमेतदेव सविशेषतरं विवृणोति। जो जति मासे काहिति, पडिमं सो तत्तिए जहण्णेण। कुणति मुणी परिकम्म, उक्कोसं भावितो जाव।। यो मुनिर्यति (यावत्) मासान् प्रतिमां करिष्यति स तति (तावत्) मासान् जघत्येन परिकर्म करोति तद्यथा मासिकां प्रतिमा प्रतिपित्सुरेकं मासंद्वैमासिकी द्वौ मासौ त्रैमासिकीं त्रीन्मासान् एवं यावत्सप्तमासिकी सप्त मासान् एवं च मार्गशीर्षा-दारभ्य सप्तमासिक्याः परिकर्म ज्येष्ठमासे समाप्तिमुपयाति। एतानेवचजघन्यपदे उत्कृष्टकालः। ततः परं प्रतिमानां मासैः परिमाणासंभवात् उत्कर्षतस्तमधिकृत्य पुनः परिकर्मणाकालो यावता कालेन परिपूर्ण मागमोक्तेन प्रकारेण भावितो भवति तावान्वेदितव्यः / तत्र जघन्यपद परिकर्मणाकालमधिकृत्य कासांचित्प्रतिमानां तस्मिन्नेव वर्षे प्रतिपत्तिः कासांचिद्व - न्तरेऽभिधित्सुराह - तय्वरिसे कासिंची, पडिवत्ती अन्नहिं उवरिमाणं। आइण्णपइण्णस्स उ, इच्छाए भावणा सेसे // कासांचिदाद्यानां प्रतिमानां तद्वर्षे एव यस्मिन्वर्षे परिकर्मसमारब्धवान् तस्मिन्नेव वर्षे प्रतिपत्तिरुपरितनीनान्यस्मिन्वर्षे / इयमत्र भावना। मासिक्या द्वैमासिक्यास्त्र्यैमासिक्याश्चतुर्मा-सिक्या वा तस्मिन्नेव वर्षे प्रतिपत्तिः / कस्मादिति चेत्परिकर्मणाकालस्य प्रतिमाकालस्य च आषाढमासपर्यन्ता-दर्वाक लभ्यमानत्वात् / पाथमासिकी षाण्मासिकी-साप्तमासिकीनामन्यस्मिन्वर्षे परिकर्म अन्यस्मिन्वर्षे प्रतिपत्ति-मार्गशीर्षमासादारभ्य परिकर्मकालस्य प्रतिमाकालस्य चाषाढ-मासपर्यन्तादर्वाग् लभ्यमानत्वादिति येन च या प्रतिमा पूर्वमाचीर्णा / तस्याचीणप्रतिमस्य तां प्रतिमा प्रति परिकर्मणा इच्छया यदीच्छा भवति ततः करोति नो चेन्नेति / किमुक्तं भवति / चिरकाल कृततया यदि गताभ्यासो भवति ततः करोति परिकर्मणा