________________ एगल्लविहारपडिमा 24 - अभिधानराजेन्द्रः - भाग 3 एगल्लविहारपडमा न्दनार्थमुपागतेषु गाथायां तृतीया सप्तम्यर्थे प्राकृतत्वात्। दृष्टिरागादिभिर्न स्निग्धदृष्ट्यादिभिः आदिशब्दात् मुखविकाशादि परिग्रहः न सज्यते न सङ्गमुपयाति / तदा स एकत्वभावनापरिकर्मिमतो वेदितव्यः / एतदेव व्याचष्टे / दृष्टिमुखवाभ्यां स्निग्धया दृष्ट्या अविलोकनेन स्फारीकृतकान्तिमुखवणकरणेन च उपलक्षणमेतत् / संभाषादिना च तस्याध्यात्मबलमेकाकित्वभावनाबलं (समूहति) परिभावयन्ति सूरयः / बलभावनामाह - उभयतो किसो किसदढो, दढो किसोया वि दोहि वि दढो य। वीयचरमापसत्था, धितिदेहं समप्पिया भंगा।।। बलचिन्तायां चतुर्भङ्गी तद्यथा उभयतो धृतिदेहाभ्यां कृशः किमुक्तं भवति / शरीरेण कृशोधृत्या च कृशः एष प्रथमो भङ्गः (किस-दढोत्ति) शरीरेण कृशोधृत्या च दृढः एष द्वितीयः (दढो किसो यावित्ति) शरीरेण दृढो धृत्या कृशः एष तृतीयः। द्वाभ्यामपि च शरीरेण धृत्वा च दृढः एष चतुर्थः / अत्र द्वितीयचतुर्थों भङ्गौ धृतिदेहसमाश्रितौ धृतिदेहविषयौ प्रशस्तावेकाकिविहार-प्रतिमायोग्यौ द्वितीयस्य दृढधृत्याश्रयत्वात् / चरमस्य दृढधृतिदेहा-श्रयत्वात् / एते च एकाकिविहारप्रतिपत्तये कृतपरिकर्माणः स्वयमेवात्मानं तुलितमतुलितं वा प्रायो जानन्ति / ज्ञात्वा च प्रतिमाप्रतिपत्तये आचार्यान्विज्ञपयन्ति तथा चाह - सुत्तत्थझरियसारा, सुत्तेण कालं तु सुठु नाऊणं / परिचिय परिकम्मेण य, सुटूव तुलेऊण अप्पाणं / / तो विण्णवें ति धीरा, आयरिए एगविहरणमतीओ। परिएगस्सु य सरीरे, कयकरणा निव्वसहाणे॥ सूत्रार्थयोझरणेन क्षरणेन साराः शोभनाः सूत्रार्थझरणसाराः सूत्रेण सूत्रपरिकर्मतः कालं दिवसरात्रिगतमभ्रच्छन्नगगनादा-वपि सुष्टु ज्ञात्वा परिचितेन स्वभ्यस्तेन परिकर्मणा तपः प्रभृतिपरिकर्मणा सुष्ठु आत्मानं तुलयित्वा धीरा महासत्वा एकविहरणमतिका एकाकिविहाराभिप्रायाः पर्याये गृहस्थपर्याय प्रव्रज्यापर्याये च श्रुते पूर्वगते शरीरे च कृतकरणाः कृताभ्या-सास्तीव्रश्रद्धाकाः प्रवर्द्धमानश्रद्धाकास्ततस्तुलनानन्तरमाचा-र्यादीन् विज्ञपयन्ति / अत्र यो नाचार्यः स आचार्य विज्ञपयति। यथा भगवन् कृतपरिकाहमिच्छामि युष्माभिरनुज्ञात एकाकिविहारप्रतिमा प्रतिपत्तुमिति। यः पुनराचार्यस्सस्वगच्छाय कथयति तथा परिकर्मिमतोऽहमतः प्रतिपद्ये एकाकिविहारप्रतिमा-मिति यदुक्तं / "परियागसुयसरीरे इति" तद्व्याख्यानार्थमाह - एगूणतीसवीसा, कोडी आयारवत्थुदसमं च। संघयणं पुणआदि-ल्लगाण तिण्हं तु अन्नयरं। द्विविधपर्यायो गृहिपर्यायो व्रतपर्यायश्च। तत्र यो जन्मत आरभ्य पर्यायः सगृहिपर्यायः सचजघन्यतः एकोनत्रिंशद्-वर्षाणि कथमिति चेदुच्यते। इदं गर्भाष्टमवर्षप्रव्रजिनो विंशतिवर्षपर्यायस्य च दृष्टि-वाद उद्दिष्टः / एकेन वर्षेण योगः समाप्तः। सर्वमीलनेनजातान्येकोनत्रिंशद्वर्षाणि।व्रतपर्यायः प्रव्रज्याप्रतिपत्तेरारभ्य स च जघन्यतो विंशतिवर्षाणि तावत् प्रमाणपर्यायस्येव दृष्टिवादोद्देशभावात्। उत्कर्षतो जन्मपर्यायो वा देशोना पूर्वकोटी एतच / पूर्वकोट्यायुष्के वेदितव्यं नान्यस्य / उक्तं च / "पडिमापडिवण्णस्स उ, गिहिपरियातो जहण्ण- गुणतीसा / जति परियालो तीसा, दोण्हविउकोसदेसूणा" श्रुतंजघन्यतो नवमस्य पूर्वस्य तृतीयमाचारनामकं वस्तु यावत्तत्र कालज्ञानस्याभिधानात्। उत्कर्षतो यावद्दशमं पूर्व चशब्दस्यान-उक्तार्थसूचनाद्देशोनमिति द्रष्टव्यम्। तथा चोक्तम् "आयार-वत्थतइयं, जहन्नगं होइ नवमपुटवस्स / तहियं कालन्नाणं, दस उक्कोसाणि भिन्नाणि" / संहननं पुनरादिमानां त्रयाणां संहनना-नामन्यतमद्यदा तेन पृष्टं प्रतिमा प्रतिपद्येऽहमिति तदा स स्थिरीकरणनिमित्तमिति वक्तव्यः॥ जइ विसि तीए उवेओ, आयपरे दुक्करं खु वरेग्गं / आपुच्छणेणुसज्जण-पडिवजणगच्छसमवायं / / यद्यप्यसि भवसि त्वं तथा परिकर्मणया उपेतो युक्तः तथाऽप्यात्मपरेषु आत्मपरविषयेषु आत्मसमुत्थेषु परसमुत्थेषु उभयसमुत्थेषु चेत्यर्थः / परीषहेष्विति गम्यते / दुष्करं खलु वैराग्यं रागनिग्रहणमुपलक्षणमेतत् द्वेषनिग्रहणं चेति हेतोभूय आप्रच्छना क्रियते किं त्वया कृता सम्यक्परिकर्मणा किं वा नेति / एवमा प्रच्छनायां कृतायां यदि सम्यकृतपरिका ज्ञातो भवति ततस्तस्य विसर्जनमनुज्ञा तस्य क्रियते / अनुज्ञातश्च गच्छसमवायं कृत्वा प्रशस्तेषु द्रव्यक्षेत्रकालभावेषु प्रतिपादनं प्रतिमायाः प्रतिपत्तिं करोति / एष गाथासंक्षेपार्थः। - सांप्रतमेनामेव विवरीषुः पूर्वार्द्ध तावह्याख्यानयति॥ परिकम्मितो वि वुचइ, किमु य अपरिकम्ममंदपरिकम्मा। आयपरोभयदोसेसु, होइ दुक्खं खु वेरग्गं / / परिकर्मितोऽपि सुछु कृतपरिकापि उच्यते आपृच्छ्यते इति तात्पर्यार्थः / यथा त्वया कृता सत्परिकर्मणा किं वा न कृतेति किमुत अकृतपरिकर्मा मन्दपरिका वा ते सुतरामाप्रच्छनीया इति भावः / कस्मादेवमाप्रच्छना क्रियते इति चेदत आह / यत आत्मपरोभयदोषेषु आत्मपरोभयसमुत्थेषु परीषहेषु समुत्थितेषु दुःखं खलु भवति। वैराग्यं रागोपशमलक्षणमेतत्। द्वेषोपशमो वा ततो मा भूत् प्रतिपत्तौ कश्विह्याघात इत्याप्रच्छना क्रियते। अथ के ते आत्मपरोभयाः समुत्थाः परीषहा इति तान्प्रतिपादयति। पढमवीयाइलाभे, रोगे पण्णायिगा य आयाए। सीउण्हादीउ परे, निसहियादी उ उभए वि॥ प्रथमः परीषहः क्षुद् द्वितीयः पिपासा आदिशब्दात्तत्पर इत्यादिपरीषहपरिग्रहः / तथा लाभपरीषहः रोगपरीषहः प्रज्ञादिकाः प्रज्ञादयः परीषहा आदिशब्दादज्ञानादिपरिग्रहः / एते आत्मनि आत्मसमुत्थाः परीषहाः / तथा शीतोष्णादयः शीतोष्णदंशमशकादिपरीषहाः परे परविषयाः परसमुत्था इत्यर्थः / नैषेधिकीवर्षादयः पुनः परीषहाउभयस्मिन् उभयसमुत्थाः। संप्रति 'करणेलगच्छत्ति" व्याख्यानार्थमुपक्रमते। एएसु समुप्पण्णेसु, दुक्खं वेरग्गभावणा काउं। पुव्वं अभावितो खलु, स होइ एलगच्छोओ।। यः खलु पूर्वमभावितो यथोक्तपरिकर्मणया अपरिकर्मि तो भवति। यथा शैक्ष एडकाक्षस्तस्य एतेषु आत्मपरोभयसमुत्थेषु परीषहेषु दुःखं महत्कष्टं वैराग्यभावना। उपलक्षभेतत् द्वेष-निग्रहभावनाश्च कर्तुं न शक्यन्ते एवं रागद्वेषनिग्रहभावनां कर्तुमिति भावः / यस्तु सम्यक् कृतपरिकर्मा भवति स करोत्ययत्नेन वैराग्यभावनां यथा क्षपकस्तथा चाहपरिकम्मणाए खंवगो, सेह वलामोडिए वि तहगत्ति। पाभातियउवस्सग्गे, कयम्मि पारेइ सो सेहो।