________________ एगल्लविहारपडिमा 23 - अभिधानराजेन्द्रः - भाग 3 एगल्लविहारपडमा यावन्मूलमित्यादि / ननु पूर्वमपि तस्य स्वाभिधानमिव सर्वमपि श्रुतं पूर्वादिरूपमतिपरिचितमेव ततः कस्मादेवमिदानीमभ्य-स्थति उच्यते कालपरिमाणावबोधनिमित्तम् / तथा हि स तथा सूत्रमाचारनामकनवमपूर्वगततृतीयवस्तूक्तप्रकारेण परावर्तयति। यथा उच्छ्वासपरिमाणं यथोक्तरूपमवधारयति / तत उच्छ्वास-परिमाणावधारणात् उच्छ्वासनिःश्वासपरिमाणावधारणं तस्मात्ऽस्तोकस्य स्तोकान्मुक्तस्य मुहूर्तार्द्धपौरुष्याभ्यां पौरुष्याः पौरुषी-भिर्दिनानामुपलक्षणमेतत्रात्रीणां च दिनरात्रीभ्यां वाऽहोरा-त्राणाम् एवं मुहूर्तात् पौरुषीदिनानि अहोरात्रांश्च काले कालविषये जानाति। उक्तं च।''जइ वि य से वण्णादी, सनाममिव परिचियं सुयं तस्स / कालपरिमाणहेतुं, तहावि खलु तज्जयं कुणति। उस्सासीतो पाणू, ततो यथोवो ततो वि य मुहुत्तो। मुहुत्तेहिं पोरिसीतो, जाणंति निसाय दिवसाय' उक्ता सूत्रभावना। सांप्रतमेकत्वभावनामाह - अण्णो देहातो अहं, नाणत्तं जस्स एवमुवलद्धं / सो किं वि साहरिकं, न कुणइ देहस्स भंगे वि॥ अहं देहादन्य इत्येवमेकत्वभावनया यस्य साधोः परिकर्मणां कुर्वतः शरीरादात्मा नानात्वमुपलब्धः स दिव्यादिषु उपसर्ग-वेलायां देहस्य भङ्गेऽपि विनाशेऽपि किञ्चिदपि (आहरिक्कमिति) उत्रासं न करोति। गता एकत्वभावना। संप्रति बलभावनामाह - एमेव य देहबलं, अभिक्खमासेवणाए तं होइ। लंखकमल्ले उवमा, आसकिसोरे य जोग्गविए / / एवमेव अनेनैव प्रकारेण बलभावनयापि देहस्तथा भावयितव्यो यथा देहस्य करणीयेषु योगेषु बलं न हानिमुपगच्छति ननु तपसा क्रियमाणेन नियमतो देहबलमुपगच्छति ततः कथमुच्यते बलभावनया तथा देहो भावयितव्यो यथा देहबलंन हानिमुपया-तीति सत्यमेतत् किं तु देहबलं धृतिबलसूचनार्थं ततोऽयं भावार्थो बलभावनया तथा यतेत यथा देहोपचयेऽपि धृतिः समुत्साहवती समुत्साहमतितरां समुपजायते। यथा प्रबलामपिपरीषह चमूमंतिसोपसर्गामपि लीलया योधयति। तथा चोक्तं "कामं तु सरीरबलं, हायति तवभावणा पसुत्तस्स / देहावए वि सत्ती, जह होति धिती तहा जयइ / करिणो परीसहचमू, जइ उव्वेजाहि सोवसग्गावि / दठुरपहकर वेगा, भय जणणी अप्पसत्थीणं / / धितिधणियबद्धकच्छो, जा होइ अणाइलो तमव्वहितो / बलभावणाए धीरो, संपुण्णमणोरहो होइ"ततोऽपि च सर्वा अपि भावना धृतिबलपुरस्सराः / विशेषतो धृतिबल- भावना भावयित-व्या। प्रबलदैवाद्युपसर्गोपनिपातेऽपि स्वकार्य साधयति न खलु धृतेः किंचिदसाध्यमस्ति। आह च। "धितिबलपुरस्सरातो, हवंति सव्वावि भावणा तोया / तं तु न विजइ सत्तं, जंधिइमंतो न साहेइ" / तचतपोबलप्रभृतीनामभीक्ष्ण-सेवनया भवंति / अत्रोपमा दृष्टान्तो लंखको मल्लश्च न केवलं लंखको मल्लकश्च दृष्टान्तः किं त्वश्वकिशारश्च किं विशिष्ट इत्याह / यो ज्ञापितः परिकर्मित इत्यर्थः / एषां च दृष्टान्तानामियं भावना / लेखकोऽभ्यासं कुर्वन्नभ्यासप्रकर्षवशतो रज्जावपि नृत्यं करोति। मल्लोऽपिकरणानि पूर्व दुःखेनाभ्यस्यन् कालेन कृताभ्यासः पश्चादयत्नेन प्रतिमल्लं जयति / अश्वकिशोरोऽपि हस्त्यादिभ्यो भयं गृह्णानो दुःखं तत्पाचे प्रथमतः स्थाप्यमानोऽभ्यासप्रकर्षवशतो न मनागपि तद्भयं करोति / तथा च सति संग्रामे हस्त्यादिभिश्च परि भवनेऽपि न भङ्गमुपयाति / एषा दृष्टान्तभावना / दान्तिकयोजना त्वियम् एवमभीक्ष्णा- सेवनया तपसा न क्लाम्यति सत्वावष्टम्भतो देवादिभ्यो न विभेति। सूत्रतः सूत्रार्थचिन्तनप्रमाणेन कालं दिनरात्रिगतागतरूपं जानाति / एकत्वभावनातो यथोक्तस्वरूपो निस्सङ्गो भवति। क्लभावनातोऽध्वन्य वष्टम्भतः प्राणात्ययेऽपि नात्मानं मुञ्चति / तदेवं परिकर्मकरणं व्याख्यातम् / संप्रति 'दो जोहा' इत्येतत्व्याख्यातव्यम्। तत्र परिकर्मणि कृते आचार्येण स परीक्षणीयः किमसौ कृतसम्यक्परिक किं वा नेति तत्र द्वे योधनिदर्शने ते एवाह - पञ्जोयमंतीवई खंड-कण्णसाहस्सिमल्ल पारिच्छा। महकाल छगलसुरघड, ताल पिसाए करे मंसं // अवन्तीपतिः प्रद्योतः खण्डको नाम मन्त्री / अन्यदा राज्ञः पार्श्वे साहस्त्रिकः साहसिकयोधी मल्लः समागतः। तस्य खण्डकर्णेनामात्येन महाकालश्मशाने छागेन सुराघटेन परीक्षा कृता / तत्र तालप्रमाणः पिशाचस्तालपिशाचस्तस्य करे हस्ते मांसं दत्तवान् / द्वितीयो मल्ल आगतः सोऽपि तथैवपरीक्षितः केवलंस तालपिशाचागयमगमत्।। एष गाथा संक्षेपार्थः / भावार्थः कथानकादवसेयस्तचेदम् / अवंती जणवए पजोयस्स रण्णो मंती खंडकणो नाम अन्नया सहस्संपि जो जुद्धेइ सो आगतो ओलग्गामिति रायाण विण्णवेत्ति रण्णा भणियं ओलग्गाहि ततो सो भणइ मम वित्ती जा सहस्सजोहाणं सा दायव्वा / / ततो खंडकण्णो चिंतेइ / परिक्खामि ताव एयस्स सत्तं जइ सत्तमंतो। होइ ततो सचं सहस्सजोही ततो खंडकण्णेण छगलओ सुरघडओ य दातुं भणितो अज्ज कण्हचउद्दसीए रत्तिं महाकाले मसाणे भक्खेयव्यं / ततो सो महाकालं गंतुं छगलयं उद्दवेत्ता पडलेउं मंसं खाइयं सुरं च पाउमाढत्तो नवरं तालपिसातो आगंतुंहत्थं पसारेतिमम विदेहित्ति। ततो सोसहस्सजोही अभीतो पिसायस्स वि देइ। अप्पणो य खायतिय रण्णायपचंतियपुरिसा पडियारगा पेसिया ते जहवित्तं पासित्ता रण्णो खंडकण्णस्स य कहेंति। सच्चं सहस्सोही एसोत्ति वित्ती दिण्णा अन्नो वि आगंतुं विण्णवेति ओलग्गामित्ति / सोवि तहेव परिक्खिउमाढत्तो। तालपिसातो आगतो। भीतो नट्ठो परिचारगेहिं रण्णो खंडकण्णस्स य जहावित्तं कहियं / न दिण्णा सहस्सजोहवित्ती"। एवमाचार्योऽपि किमयं कृतसम्यक्परिकर्मा किं वा नेति तपःप्रभृतिभिः तं परीक्षेत। कथमिति चेदत आह - न किलामति दीहेण वि, तवेण न वि तासितो वि वीहेति / छण्णेवि ठिते वेलं, सहेति पुट्ठो अवितहं तु // परपच्छसंथुएहि, निसिज्जई दिट्टि एगमाईहिं। दिट्ठीसुहवण्णेहि य, अब्भत्थवलं समूहति / / आचार्यस्तपः कारापणादिना प्रकारेण तं सम्यक्परीक्षेत तद्यदा दीर्धेनापि तपसा न क्लाम्यति तदा स तपःपरिकर्मितो ज्ञातव्यः। यदा तु न वित्रासितो मारिप्रभृतिश्वापदादिभिर्न विभेति तदा सत्वपरिकर्मितः यदातुमेघच्छन्ने नभसि वसति- मध्ये वा स्थितः कियगतं दिवसस्स कियद्वा गत रात्रेः कियद्वा शेषमिति दिवसस्स रात्रेर्वा वेलां पृष्टः सन्नवितथा साधयति कथयति तदाज्ञातव्यः ससूत्रभावनापरिकर्मितः / तथा पूर्व- संस्तुता भार्याश्वश्रूश्वशुरादयस्तेषु पूर्वसंस्तुतेषु व