________________ एगल्लविहारपडिमा 22- अभिधानराजेन्द्रः - भाग 3 एगल्लविहारपडमा सामायारिविसेसे, नवरं दुत्तो उपडिमाए। प्रव्रज्या प्रव्रजनशिक्षापदमर्थग्रहणमनियतो वासः शिक्षाद्विकम् अर्थ ग्रहणमर्थपरिज्ञानमित्येतत् त्रयं प्रतिपित्सोर्नियमेन भवति शैषिके | अनियतवासिनिष्पत्तिलक्षणद्वारद्विके भजना विकल्पना य आचार्यपदार्हस्तस्य नियमादिदं द्वारद्वयमस्ति शेषस्यतुनास्ती-त्यर्थः / विहारः पुनः प्रतिमाप्रतिपत्तिलक्षणोऽस्त्येव सामाचार्या अपि जिनकल्पिकसामाचारीतो विशेषोऽस्ति नवरं सामाचारी-विशेषः प्रतिमायां प्रतिमागतो दशाश्रुतस्कन्धे भिक्षुप्रतिमा-मध्ययोऽन्य उक्तः प्रतिपादित इति सन पुनरुच्यते। संप्रति परिकर्म करणं वक्तव्यम् / तत्र पर आह ननु तत्परिकर्म किं गच्छ एव स्थितः करोति उत गच्छाद्विनिर्गत्येति / सूरिराह - गणहरगुणेहिं जुत्तो, जति अन्नो गणहरो गणे अस्थि / निग्गति गणातो इहरा, कुणति गणे चेव परिकम्मं / / यदि नाम गणे गच्छे अन्योऽन्यगणधरः गणधरपदार्ह इत्यर्थः / गणधरगुणयुक्तो विद्यते न च प्रयोजनेनान्यत्र गतस्ततस्तं गणे स्थापयित्वा गणाद्विनिर्गच्छति विनिर्गत्य च परिकर्म करोति / इतरथा तथाविधान्यगणधरयुक्तगणधरत्वा भावे गण एव स्थितः सन्परिकर्म करोति अत्र पर आह। ननु तेन पूर्वं द्विधां शिक्षा शिक्षमाणेनात्मा भावित एव ततः किमिदानीं भावनाभिः परिकर्मणयेत्यत आह ! जइ विहु दुविहा सिक्खा, आइल्ला होति गच्छवासम्मि। तहवि य एगविहारे, जा जोग्गा तीए भावेति॥ यद्यपि द्विविधा शिक्षा आद्यसूत्रग्रहणसामाचार्यासेवनलक्षणा भवति गच्छावासे तथापिगच्छावासे योग्यतातः एकाकिविहारे या योग्या शिक्षा तद्योग्यसामाचार्यभ्यासरूपा तया स आत्मानं भावयति तद्भूतसामाचार्यभ्यासश्च पञ्चभिर्भावनाभिर्भवति / ततस्ताभिर्विशेषतः आत्मानं परिकर्मयति। तवेण सत्तेण सुत्तेण, एगत्तेण वलेण य। तुलणा पंचहा वुत्ता, पडिम पडिवअत्तो / प्रतिमा प्रतिपद्यमानस्य प्रपितत्तुकामस्य तुलना परिकर्मणा / पञ्चधा | पञ्चप्रकारा प्रोक्ता तद्यथा तपसा सत्वेन सूत्रेण एकत्वेन बलेन च। तत्र तपोभावनाप्रतिपादनार्थमाह - चउभत्तेण उ जतते, छ?हिं अट्ठमेहिं दसमेहि। बारसचउदसमेहि य, धीरो धीमं तुलेअप्पा || प्रथमतश्चतुर्थेन यतते। किमुक्तं भवति / प्रथमतो नियमेन त्रीन् वारान् चतुर्थकरोति तत्र यदि त्रिरपि कृते चतुर्थे क्लाम्यति ततस्तावदभ्यस्थति चतुर्थयावचतुर्थं कुर्वन् मनागपिन क्लाम्यमुपयाति। एवं चतुर्थेन यतित्वा त्रीन्वारान्षष्ठं करोति तत्रापि यदि वारत्रयं कृते षष्ठे क्लाममुपैति ततश्चतुर्थवत् षष्ठेऽप्यभ्यासं तावत्करोति यावत्तस्यापि करणे ग्लानिर्नोपपद्यते एवं षष्ठरात्मानं भावयित्वा अष्टमैर्भावयति। तदनन्तरं दशमैस्ततो द्वादशै-रुपलक्षणमेतत् ततोऽनेन प्रकारेण षोडशादिभिश्च धीरो धृतिमान् आत्मानं तुलयति परिकर्मयति स च तावतुलयति / यावत्षण्मासान् सोपसर्गेऽपि न क्षुधाहानिमुपगच्छति उक्तं च - जाव णभत्थो पोरिसिमाई तवो उतं तिगुणं। कुणइ छुहा वि जइहा, रिगिनदिसीहेण दिहतो।। एकेक ताव तवं, करेति जह तेण कीरमाणेणं / हाणी न होइ जइया वि, होज छम्मास उवसग्यो / / तत्र यदुक्तं चतुर्थादिषु तावदभ्यासं करोति यावन्न क्लाम्यति तत्र गिरिनदीसिंहदृष्टान्तः। तथाहि यथा सिंहो गिरिनदीं तरन् परतटे चिह्न करोति यथा अमुकप्रदेशे वृक्षाधुपलक्षिते मया गन्तव्य- मिति संचरन् तीक्ष्णे नोदकवेगेनापहियते / ततः प्रत्यावृत्त्योत्तरति / एवं प्रमाणतस्तावत्तरणं करोति यावदभग्नः सन् सकलामपि गिरिनदी शीघ्र तरति। एवं साधुरपियदि चतुर्थ षष्ठमष्टमादि वा त्रीन्वारानकृत्वा क्लमं यातिततश्चतुर्थादिकं प्रत्येकं तावदभ्यस्यति यावन्न क्लाम्यतीति। तथा चैनामेव सिंहदृष्टान्त-योजनामाह - जह सीहो तह साहू, गिरिनदिसीहो तवोधणो साहू / वेयावचकिलंतो, अभिन्नरोमो य आवासे / / यथा सामान्येन गुहायां वर्तमानः सिंहस्तथा गच्छे वर्तमानः साधुर्यथा च गिरिनदीमुत्तर अभ्यासकरणे प्रवृत्तः सिंहस्तथा तपोधनः तपः करणाभ्यासप्रवृत्तः साधुः / एवं चतुर्थषष्ठाष्टमादि तपः कुर्वन् स आत्मवैयावृत्त्यकरो ज्ञातव्यः / कस्मादिति चेदुच्यते। यस्मात्स तपसा पूर्वसंचितं कर्ममलं शोधयन्नात्मन एवोपकारे वर्त्तते / ततः स आत्मवैयावृत्त्यकरः एवमात्मनो वैयावृत्त्ये अक्रान्तः सन् (आयासेत्ति) अवश्यकरणीयेषु योगेषु न भिन्नरोमा भवति / गतं तपोभावनाद्वारम्। अधुना सत्वभावनाद्वारमाह - पढमा उवस्सयम्मि, विइया बाहि तइया चउक्चम्मि। सुण्णघरम्मि चउत्थी,पंचमिया तह मसाणम्मि / प्रथमा सत्वभावना उपाश्रये कथमिति चेत् उपाश्रस्यान्तर्निशि प्रतिमया प्रतिदिवसमवतिष्ठते स च तथावतिष्ठमानो मूषि कमार्जारादिस्पर्शनादिभयं तावद् जयति यावत्तत्स्पर्शनादिभावे रोमोद्भेदमात्रकरमपि भयं नोपजायते / उक्तंच "छक्कस्स व खइयस्स व, मूसियमादीहि वा निसिचरेहिं / जह न विजायइ रोमुग्गमो वि तह चेव वाडोवा" द्वितीया सत्वभावना उपाश्रय-स्यबहिरुपच्छन्नेतत्र हि प्रतिमा प्रतिपन्नस्य बहुतरं मार्जारादिभयं संभवति। ततस्तज्जयार्थं द्वितीया। भवसत्वभावना तृतीया सत्यभावना चतुष्के तत्रातिप्रभूततरं त्रिविधं तस्करारक्षिकस्वापदादिभ्या भयम् / चतुर्थी शून्यगृहे, पञ्चमीका स्मशाने / तत्र हि यथोत्तरं सविशेषा सविशेषतरा त्रिविधा बाधा उक्तं च 'सविसेसतरा बाहि, तक्करआरक्खिसावयादीया। सुण्ण-घरमसाणेसु य, सविसेसतरा भये तिविहा' एताभिः पञ्चभिरपि सत्वभावनाभिस्तावदात्मानं भावयति यावद्दिवा रात्रौ वा देवैरपि भीमरूपैर्न चालयितुं शक्यते। उक्तं च "देवेहि भेसिया अविदिया वा रातो वा भीमरूवेहिंतो सत्तभावणाए वहति भरं निज्झतो संगलं" ।गता सत्वभावना। संप्रति सूत्रभावनामाह - उकवितोवकवियाई, सुत्ताई करेइ सोयव्वाई। सुत्तट्ठपोरिसीतो, दिणे य काले अहोरत्ते / / सोऽधिकृतप्रतिमाप्रतिपत्तिनिमित्तं परिकर्मकारी साधुः सर्वाण्यपि सूत्राणि उत्कवितोऽपकवितानि करोति / किमुक्तं भवति उपरितनादारभ्योत्करेणाधोऽवतरतिमूलाद्वासमारभ्यक्रमेणोपर्युपर्यवगाहते। एकान्तरिताया एकग्रहणेन सर्वं मूलादारभ्य तावत्परावर्तयति यावत्पर्यन्तः / ततः उपरितनभागा-दारभ्य गुणितं मुञ्चन्सर्वमगुणितं तावत्पश्चादानुपूर्व्या गुणयति