________________ एगल्लविहार २१-अभिधानराजेन्द्रः - भाग 3 एगल्लविहार विस्तरार्थं भाष्यकृदाह। संथरमाणस्स विही, आयारदसासु वण्णितो पुट्वि / सो चेव य होइ विही, तस्स विभासा इमा होति।। संस्तरन् नाम उच्यते यः सूत्रोक्तविधिना प्रतिमाप्रतिपत्तियोग्यतामुपागतः मासिक्यादीनां च प्रतिमानां मध्ये या प्रतिमा प्रतिपन्नस्तां सम्यक्परिपालयितुं क्षमस्तस्य संस्तरतो विधिः समाचारी। आचारप्रधाना दशा आचारदशास्तासु दशाश्रुत-स्कन्धेष्वित्यर्थः / भिक्षुप्रतिमाध्ययने पूर्वं वर्णिणतः स एव इहापि अस्मिन्नप्यधिकृतसूत्रव्याख्याप्रस्तावे परिपूर्णो भवति ज्ञातव्यः तस्य प्रस्तावायातत्वात्। तथाहि एकाकिविहारप्रतिमामुपसंपद्य विहरेदित्युक्तं ततः साक्षादुपात्ता एकाकि विहारिप्रतिमेति भवति / तद्विधिप्ररूपणावसरः के वलं सकलभिक्षुप्रतिमाध्ययनं प्रतिपाद्य इति तत एवावधारणीयः / इह पुनस्तस्यैकाकिविहारिप्रतिमाविधि-विभाषा कर्त्तव्यः / यथा ईदृशस्य एकाकिविहारि प्रतिमाप्रतिपत्तिः कल्पते अनेन च प्रकारेण प्रतिपद्यते। ईदृशश्च एकाकिविहारि-प्रतिमाया अयोग्य इति / सा इयं वक्ष्यमाणा भवति / तामेवाभिधित्सुराह। घरसउणिसीहपध्वइय-सिक्खपरिकम्मकरण दो जोहा। करणेलगच्छखडदुग, गच्छाएमा ततो नीती।। परिकर्मकरणे द्वौ दृष्टान्तौ तद्यथा गृहेऽवस्थितःशकुनिह-शकुनिस्तथा सिंहश्च वने व्यवस्थित इति गम्यते तथा (पव्वइयसिक्खत्ति) प्रव्रजनं प्रव्रजितं प्रव्रज्या इत्यर्थः / शिक्षा ग्रहणासेवनरूपं शिक्षाद्विकं एते द्वे द्वारे वक्तव्ये एतच शेषद्वाराणा-मर्थग्रहणादीनामुपलक्षणमतस्तान्यपि वक्तव्यानि। ततः परिकर्मकरणं वक्तव्यं तदनन्तरं परिकर्मितः परीक्षायां द्वौयोधौ दृष्टान्तत्वेनोपन्यसनीयौ। ततः स्थिरीकरणनिमित्तं तस्योपसर्गव्यावर्णनायां सूत्रार्थकरणव्यवस्थितैडकाक्षरूपं क्षपकद्विकज्ञातं वक्तव्यम् / तत एवं कृतपरिकसिन् गच्छारामात् सर्वर्तु-कपुष्पफलोपगमारामरूपात् गच्छाद्विनिर्गच्छति। एष द्वारगाथा-संक्षेपार्थः / सांप्रतमेनामेव विवरीषुः प्रथमतो गृहकुशनिदृष्टान्तं भावयति॥ वासगगयं तु पोसति, चंचूपूरेहि सउणियां सावं। वारेइ य उडतं, जाव समत्थं न जायं तु // शकुनिका पक्षिणी आत्मीयं शावं (वासगगयंति) प्राकृतत्वाद् आद्याकारस्य लोपः आवासो नीममावास एवावासक स्तद्गतं तुरेवकारार्थः। आवासकगतमेव शावं चञ्चूपुरैश्चञ्चूभरणैः पुष्णाति पुष्टीकरोति / यदि कथमप्यसंजातपक्षोऽपि वालचापले नावा साबहिर्जिगमिषुरुड्डीयते ततस्तमुड्डीयमानं वारयति प्रतिषेधयति / सा चैवं तावत्करोति यावत्समर्थो न जायते / गाथायां तु नपुंसकनिर्देशः प्राकृतत्वात्। समर्थस्तु जातः सन्न प्रतिषिध्यते। ततो निरुपद्रवं स्वेच्छया विहरति। भावितः शकुनिदृष्टान्तः॥ संप्रति सिंहदृष्टान्तं भावयति॥ एमेव वणे सीही, सा रक्खइ छावपोयगं गहणे। खीरमिउपिसियचट्विय, जाखायइ अस्थियाइं पि॥ एवमेव शकुनिकागतेनैव प्रकारेण वने किं विशिष्ट इत्याह गहने अतिशयेन गुपिले स्थिता सती सिंहीशावपोतकंशाव एवाति-लघुत्वात्पोतः पोतकः शाक्पोतकस्तंरक्षयति। व्याघ्रादिभ्यस्तथा क्षीरेण स्तन्येन मृदुचर्वितपिशितेन च तावदात्मीयं शावपोतकं पुष्णाति यावदस्थीन्यपि खादति॥ मारियममारिएहिं, ता तीरावेति छावएहिं तु / वणमहिसहत्थिवग्घाण, पच्चलो जाव सो जातो॥ वनमहिषादीनां शावकारितैरमारितैर्वा तावन्तमात्मीयशावं तीरयति समर्थीकरोति यावत्तेषां वनमहिषहस्तिव्याघ्राणां स्वयमेव व्यापादने प्रत्यलंः समर्थो जातो भवति। कृता सिंहदृष्टान्तभावना / / सांप्रतमनयोरेव निदर्शनयोरुपमानार्थमिदमाह - अकयपरिकम्ममसहं, दुविहा सिक्खा अकोवियमवत्तं / पडिवक्खेण उवमियो,सउणिगसीहादिछावहिं।। न कृतानि परिकर्माणि वक्ष्यमाणानि येन स तथा तमकृतपरिक माणमकृ तपरिकर्मत्वादे वासहमे काकि विहारप्रतिमा प्रतिपक्षुमसमर्थम् / तथा द्विविधायां शिक्षायां ग्रहणासेवनरूपायामकोविदमनभिज्ञम् / तथा श्रुतेन वयसा वा प्राप्तयोग्यताकं (पडिवक्खेणंति) ये ये प्राक् शकुनिपोतसिंह शावकानां संजातपक्षत्वादयो गुणा उक्तास्तेषां प्रतिपक्षण प्रातिकुल्येनासंजातपक्षत्वादिना विशिष्टाः शकुनिसिंहादिशावका आदिशब्दात् व्याघ्रादि परिग्रहस्तैरुपमितस्तथाहि यथा शकुनिपोतोऽसंजातपक्षो यद्यावासाद्विनिर्गत्य स्वच्छन्दमापरिभ्रमति ततः स काकढङ्का-दिभ्यो विनाशमाविशति / सिंहपोतकोऽपि यदि क्षीराहारो गुहातो विनिर्गत्य वने स्वेच्छया विरहति ततः सोऽपि वनमहिष-व्याघ्रादिभिरुपहन्यते। एवं साधुरप्यकृतपरिका द्विविध-शिक्षायामकोविदः श्रुतेन वयसाऽप्राप्तयोग्यताको यदि गच्छादेकाकिविहारप्रतिमाप्रतिपत्तये विनिर्गच्छतिततः स नियमादात्मविराधनां संयमविराधनांच प्राप्नोतीति / तदेवं "घरसउणिसीहत्ति" व्याख्यातम् / संप्रति प्रव्रजितशिक्षादीनि द्वाराणि वक्तव्यानि। तत्संग्राहिका चेयं गाथा - पटवजा सिक्खावय-सत्थग्गहणं व अणियतो वासे। निप्पत्तियवीहारो, सामायारी ठिती चेव।। अस्या व्याख्यानं कल्पे सविस्तरमुक्तमत्र तुलेशतोऽर्थमात्रमभिधीयते। प्रथमतस्तावत्प्रव्रज्या भवति। सा च द्विविधा धर्मश्रवणतोऽभिसमागमतश्च तत्र या आचार्यादिभ्योधर्म-देशनामाकर्ण्य संसाराद्विरज्य प्रतिपद्यते सा धर्मश्रवणतः या पुनर्जातिस्मरणादिना सा अभिसमागमतः / प्रव्रजितस्य च शिक्षा-पदं भवति / शिक्षा च द्विधा ग्रहणशिक्षा आसेवनाशिक्षा च / तत्र ग्रहणशिक्षा सूत्रावगाहनम् आसेवनाशिक्षा सामचार्यभ्यसनं शिक्षापदनन्तरं चार्थग्रहणकरणंतदनन्तरं चानियतो वासो नाना-देशपरिभ्रमणं कर्त्तव्यं गतमन्तरेण नानादेशीयशब्दाकौशलेन नानादेशीयभाषात्मक स्य सूत्रस्य परिस्फुटपूरणार्थनिर्णयकारित्वानुपपत्तेः / तदनन्तरं वाचनाप्रदानादिना गच्छस्य निष्पत्तिनिष्पादनं कर्त्तव्यम् / तदनन्तरं विहारोऽभ्युद्यतो विहारो जिनकल्पादिप्रतिपत्तिलक्षणः करणीयः / तस्य च विहारस्य या सामाचारी सा वक्तव्या। तथा स्थितिर्जिनकल्पादीनां क्षेत्रे कालादिद्वारेषु चिन्तनीया। तत्र प्रव्रज्या, शिक्षा, पदमर्थग्रहण-मनियतो वासः, निष्पत्तिर्विहारः, सामाचारीति सप्त द्वाराणि प्रतिमायामुपयोगीनि / तत्रापि प्रव्रज्या शिक्षापदमर्थग्रहणं चेति / त्रीणि द्वाराणि प्रतिमां प्रतिपत्तुकामस्य नियमतो भवन्ति शेषाणां भजना तथा चाह - पवजासिक्खावय-मत्थग्गहणं च सेसए भयणा।