________________ एगल्लविहार २०-अभिधानराजेन्द्रः - भाग 3 एगल्लविहार किंतु निश्चलः निष्प्रकम्प उपविष्टोध्यायी चास्ते ततस्तमेवंभूतं निश्चलनिष्पन्नध्यायितं दृष्ट्वा किं कर्त्तव्यमित्याह (चिट्ठत्ति) स्थातव्यं तेन गुरुव्याघातेन महाहानिसंभवात् यथा चलोऽसौ ततः पृष्टव्यो भगवन् स एषोऽहंगमिष्यामीतिततश्चासावाचार्येण संदिष्ट इदमेवं त्वया कर्त्तव्यमिति व्रज सचेदानीं गन्तुं प्रवृत्तः इत्येतदेवाह। अप्या हि अणुन्नाओ, ससहाउणीति जा पभायं तु। उवयोगं आसन्ने, करेइ गामस्स सा वय भयए॥५३|| संदिष्टः प्राक् पश्चादनुज्ञातो गच्छेति कथं ससहायः कियन्तं कालं यावत् ससहायो व्रजति तावत्प्रभातं जातं सूर्योदय इत्यर्थः। ससहायश्च प्रभातं यावत् व्रजतिस्वापदादिभयात् एवमसौसाधुव्रजन्ग्रामसमीपं प्राप्तः सन् किं करोतित्याह / उपयोगं करोति विषयमुभयविषयं मूत्रपुरीषपरित्याग इत्यथः / कस्मादेवं चेत् ग्रामसंनिधान एव स्थण्डिलसद्भावात् गवादिसंस्थानात्। अथरात्रौगच्छतः कश्चिदपायः संभाव्यतेततः प्रभातं यावत् स्थातव्यम् / तथाचाह। हिडतेणसावयभया, दारा पिहिया पहं अजाणतो। अत्थइ जाव पभायं, वासियभत्तं च से वसभा // 44 // हिमं शीतं स्तेनाश्चौराः स्वापदानि सिंहादीनि एतद्भयात् प्रभातं यावदास्ते यदि पुरस्य द्वाराणि पिहितानि ग्रामस्य फलिहकः पन्थालं या अजानन् तिष्ठति यावत् प्रभातमिति। एवं च प्रभातं यावत् स्थिते गन्तरि वासिकभक्त दोषान्नं (से) तस्य वृषभा गीतार्था आनयन्ति / अथ केभ्यस्तदानीयते। छवणकुलसंखडीए, अणहिंडते सिणेहपयवजं / भत्तट्ठियस्स गमणं, अपरिणेपगाउये वहइ ||4|| स्थापना कु लेभ्यस्तथा (संखडीएत्ति) सामायिकी भाषा भोजनप्रकरणार्येतस्य वा के पुनस्तदानयन्त्यत आह (अण-हिंडतोत्ति) ये भिक्षां पर्यटितवन्तः कस्मात्पुनस्ते भक्तमानयन्ति उच्यते तेषामहिण्डकानां गृहस्था गौरवेण प्रयच्छन्ति / कीदृशं पुनस्तैर्भक्तमानयनीयम् (सिणेहपयवजंति) स्नेहेन घृतादिना पयसा क्षीरेण वजितं भक्तं गृह्णन्ति न तैलं ग्राह्यम् अमङ्गलत्वात्, न घृतं परितापहेतुत्वात्।नदुग्धं भेदकृत्त्वात् काञ्जिक-विरोधत्वात् काञ्चिकं प्रायोपायित्वाच / संयतानां किं पुनस्ते गृह्णन्ति दधिशक्तुकादि तदसौ भुक्त्वा ब्रजति। तथा चाह (भत्तट्ठियस्सगमणंति) भुक्तवतस्ततो गमनं भवति अथ न तस्य भक्तं परिजातमित्यतोऽपरिणते भुक्ते सति स | गव्यूतमात्र यावन्मार्ग वहति क्रोशद्वयं च गब्यूतमिति ओघा (एगागिशब्दे एकाकित्वकारणानि तत्र दोषाश्च द्रष्टव्याः) एगल्लविहारपडिमा स्त्री०(एकाकिविहारप्रतिमा) एकाकिनो विहारो ग्रामादिचर्या स एव प्रतिमाऽभिग्रहः एकाकि विहारप्रतिमा / जिनकल्पप्रतिमायाम्, मासिक्यादिकायां भिक्षुप्रतिमायां च / अष्टभिश्च स्थानः सम्पन्नोऽनगारोऽर्हत्येकाकिविहारप्रतिमाम् / तथा चाह। अट्ठहिं गणेहिं संपन्ने अणगारे अरिहइ एगल्लविहारपडिमं उवसंपज्जित्ताणं विहरित्तएतंजहा सढी पुरिसजाए सच्चे पुरिसजाए मेहावी पुरिसजाए बहुस्सुए पुरिसजाए सत्तिमं अप्पाहिगरणे धिइमं वीरियसंपन्ने। अष्टाभिः स्थानैर्गुणविशेषैः सम्पन्नो युक्तोऽनगारः साधुरर्हति योग्या | भवति। (एगल्लत्ति) एकाकिनो विहारो ग्रामादिचर्या स एव प्रतिमाऽभिग्रहः एकाकिविहारप्रतिमा जिनकल्पप्रतिमा मासिक्यादिका वा भिक्षुप्रतिमा तामुपसंपद्याश्रित्य णमित्यलंकारे विहर्तुग्रामादिषु चरितुं तद्यथा (सड्वित्ति) श्रद्धा तत्वेषु श्रद्धानमा-स्तिक्यमित्यर्थोऽनुष्ठानेषु वा निजोभिलाषस्तद्वत्स कलना किनायकैरप्यचलनीयसम्यक्त्वचारित्रमित्यर्थः / पुरुषजातं पुरुषप्रकारः 1 तथा सत्यं सत्यवादी प्रतिज्ञाशूरत्वात्सद्भ्यो हितत्वाद्वा सत्यम् 2 तथा मेधा श्रुतग्रहणशक्तिस्तद्वन्मेधावी अथवा (मेहावइति) मेधावी मर्यादावृत्तिः 3 तथा मेधावित्वाद्वहु प्रचुरं श्रुतमागमः सूत्रतोऽयंतश्च यस्य तद्बहुश्रुतं तच्चोत्कृष्टतो-ऽसंपूर्णदशपूर्वधरंजघन्यतो नवमस्य तृतीयवस्तुवेदीति 4 तथा शक्तिमत्समर्थ पञ्चविधकृततुलनमित्यर्थस्तथाहि "तवेण सत्तेण सुत्तेण, एगत्तेण वलेण य / तुलणां पंचहा वुत्ता, जिणकप्पं जिणकप्पं पडिवज्जओत्ति" 5 अल्पाधिकरणं निष्कलहः ६धृतिमचित्तस्वास्थ्ययुक्तमरतिरत्यनुलोमप्रतिलोमोपसर्गसहमित्यर्थः 7 वीर्यमुत्साहातिरेकस्तेन सम्पन्नमिति / इहाद्यानामेव चतुर्णा पदानां प्रत्येकमन्तेपुरुषजातशब्दो दृश्यते ततोन्तपादानामप्ययं सम्बन्धनीय इति / अयं चैवंविधोऽनगारः सर्वप्राणिनां रक्षणक्षमो भवतीति। स्था०५ ठा०। (सूत्रम्) जे भिक्खू गणाओ अवकम्म एकल्ल-विहारपडिमं उवसंपज्जित्ताणं विहरित्तए से य इच्छेज्जा दोचं पि तमेव गणं उवसंपज्जित्ताणं विहरित्तए पुणो आलोएज्जा पुणो पडिक्कमेजा पुणो छेयपरिहारस्स उवट्ठावेजा / 26 // एवं गणावच्छेइए / 27 / एवं आयरियउवज्झाए।२८) भिक्खू य गणातो अवक्कम्म इत्यादि।। अथास्य सूत्रस्य पूर्वसूत्रेण सह कः संबन्धः / तत आह। निग्गमणं तु अहिकयं, अणुवत्तनिवा हाधिकाराओ। तं पुण वितिण्णगमणं, इमं तु सुत्तं उभयहा वि / / अनन्तरसूत्रे पारिहारिक निर्गमनमधिकृतमुक्तमिहापि तदेव निर्गमनमुच्यते। अथवा अनन्तरसूत्रे तपसोऽधिकारोऽनुवर्तते / इदापि स एव तपोऽधिकारः / तत्पुनरनन्तरसूत्रं निर्गमनमभिहितवत् / वितीर्णभनुज्ञातवत् इदं सूत्रं निर्गमनमुभयथापि वितीर्णम-वितीर्ण च भाषते / अनेन संबन्धेनायातस्यास्य सूत्रस्य व्याख्या / भिक्षुः प्रागुक्तशब्दार्थः। चः पुनरर्थाद्वाक्यभेदे स च वाक्यभेदः सुप्रतीतः पूर्वसूत्रवाक्याद्वित्तीर्णगमनाभिधायिनोऽस्य सूत्र वाक्यस्य वितीर्णगमनाभिधायितया कथंचिदिन्नत्वात् / गणात् गच्छादवक्रम्यविनिर्गत्य एकाकि विहारप्रतिमां एकाकि-विहार योग्यं मासिक्यादिकां प्रतिमामुपसंपद्य विहरेत्। सचगणस्यस्मरति। संभाव्यते चैतत् तथा हि यः सूत्रार्थतदुभयैरव्यक्तो यश्चाविधिना प्रतिमां च प्रतिपद्यते स मा भङ्गमुपैतु इति। ततः स गणं स्मरन् इच्छेत्। द्वितीयमपि वारम्। एकं वारं पूर्वमपि प्रव्रजयाप्रतिपत्तिकालगणमाश्रितवान् इदानी द्वितीयं वारमतः उक्तं द्वितीयमपि वारं तमेवात्मीयं पूर्वमुक्तगुणव्रतमुपसंपद्य पुनस्तमेकाकिविहारप्रतिमाभङ्गमालोचयेत् / गुरुसमीपे आलोच्य पुनः पुनरकरणतया तस्मात्स्थानात्प्रतिक्रम्य च यदापन्नं प्रायश्चित्तं छेदं परिहारं वा तस्य छेदस्य परिहारस्य वा करणाय पुनरुपतिष्ठेत इह प्रतिमाप्रतिपन्नेन यत्रैवाकृत्यं समासेवितं तत्रैवाह / दुष्ठकृतं मयेत्यादि चिन्तनतस्तदालोचितं प्रतिक्रान्तं च। गुरुसमक्षं तु द्वितीयवारमिति पुनः शब्दोपपत्तिरेषसूत्रसंक्षेपार्थः।