________________ काल 476 - अभिधानराजेन्द्रः - भाग 3 काल तथा चैतदेवाहवाससहस्साई चुल-सीइगुणाई य होज पुष्वगं / पुथ्वंगसहस्साई, चुलसीइगुणा हवइ पुट्वं / / सुगमा। संप्रति यथोक्तमेव पूर्वपरिमाणं मुग्धजनवियोधनार्थ वर्षकोटिभिः प्ररूपयतिपुटवस्स उ परिमाणं, सत्तरिखलु होति सयसहस्साई। छप्पण्णं साहस्सा, बोधव्वा वासकोडीणं॥ पूर्वस्य परिमाणं खलु निश्चितं भवति वर्षकोटीनां सप्ततिः शतसहस्राणि, तदुपरिषट् पञ्चाशत्सहस्राणि बोद्धव्यानि॥ पुव्वाण सयसहस्सं, चुलसीइगुणं लयंगमिह भवति। तेसिं पि सयसहस्सं, चुलसीइगुणं लया होइ। तत्तो महालया वी, चुलसीइंचेव सयसहस्साणि। नलिणंगं नाम भवे, एत्तो वोच्छं समासेण / / पूर्वाणां शतसहसं लक्षं चतुरशीतिगुणमिह प्रवचने एक लताङ्गं भवति। किमुक्तं भवति ?-चतुरशीतेः पूर्वलक्षण्येक लताङ्गमिति / तेषामिति लताङ्गानां शतं प्रवचने सहस्रं च चतुरशीतिगुणमेका लता भवति / चतुरशीतिलताशतसहस्राण्येका महालता / ततो महालतारूपात् संख्यास्थानादू यानि संख्यास्थानानि भवन्ति (एत्तोवोच्छंसमासेणं ति) इतो नलिनानि, अत ऊर्ध्वं संख्यास्थानान्येव क्रमेण केवलानि निर्वक्ष्यामि, न प्राक्तमनसंख्यास्थानानीव प्रत्येकं गुणकारनिर्देशेन। यस्तु वक्ष्यमाणसंकलनागुणकारः स पर्यन्ते कथयिष्यते इति। प्रतिज्ञातमेव निर्वाहयतिनलिण महानलिणंगं, हवइ महानलिणमेव नायव्वं / पउमंगं तह पउमं , तत्तो महापउमअंगं च / 1 / / हवइ महापउमं वि य तत्तो कमलंगमेव नायट्वं / कमलं महकमलंगं, तत्तो परतो महाकमलं / / 2 / / कुमुयंगं तह कुमुयं, तत्तो य महाकुमुयअंगं च / परतो य महाकुमुयं, तुडियंगं हवइ तुडियं तु / / तत्तो महतुडियंग, महातुडियमेव नायव्वं / अडमंग पिय परतो, अडडमेव हवइ महाअडडंगं / / एवं चेव च तत्तो,नायव्वं महाअडडमेवं / ऊहंग पि य ऊहं, भवइ महल्लं च ऊहंगं / / तत्तो य महाऊहं, हवइ तु सीसप्पहेलियाअंग। तत्तो परओ सीसग-पहेलिया होइ नायव्वा / / इह सर्वत्राऽपि चतुरशीतिशतसहस्रप्रमाणो गुणकारः "एस्थ सयसहस्साइं" इत्यादिवक्ष्यमाणवचनानं चतुरशीतिनलिनाङ्गशतसहस्राण्येकं नलिनं चतुरशीतिनलिनशतस्राणि एकं महानलिनाङ्ग, चतुरशीतिमहानलिनाङ्गशतसहस्राण्येकं महानलिनम्, चतुरशीतिमहानलिनशतसहस्राणि एकं पद्माङ्गम्, चतुरशीतिसहस्राण्येकं पद्या ततश्चतुरशीतिपद्मशतसहस्राण्येकं महापद्माङ्गम् / “हवइ' इत्यादि द्वितीयगाथा-चतुरशीतिमहापद्माङ्गशतसहस्राण्येकं महापद्म, महापद्म शतसहण्येकं कमलाङ्गम्। चतुरशीतिकमलाङ्गशतसहस्राण्येकं कमलम्। चतुरशीति कमलशतसहस्राण्येकं महाकमलाङ्गम्, ततः परतश्चतुरशीतिमहाकमलाङ्गशतसहस्राण्येकं महाकमलम्। "कुडुयंगमित्यादि' तृतीयगाथा-ततश्चतुरशीतिमहाकमल शतसहस्राणि एकं कुमुदाङ्गम्। चतुरशीतिकुमुदा-ङ्गशतसहस्राण्येकं कुमुदम्। तथा ततः कुमुदरूपात्संख्यास्थानादूर्ध्व चतुरशीतिकुमुदशतसहस्राण्येकं महाकुमुदाङ्गम, ततः परतश्चतुरशीतिमहाकुमुदाङ्गशत-सहस्राण्येकं महाकुमुदम् / चतुरशीतिमहाकुमुदशतसहस्राण्येकं त्रुटिताङ्गं बोधव्यम् / "तुटियेत्यादि" चतुर्थगाथा-चतुरशीतित्रुतिताङ्गशतसहस्राणि एकं त्रुटितम्, चतुरशीतित्रुटितशतसहस्राणि एकं महात्रुटितम्।ततः परतश्चतुरशीतिमहात्रुटितशतसहस्राण्येकमटटाङ्गम्, चतुरशीत्यटटाङ्ग शतसहस्राणि एकमटटम्, ततः परतश्चतुरशीतिअटटशतसीस्राणि एकं महाटटाङ्गम, चतुरशीतिमहाटटाङ्गशतसहस्राण्येक महाटटम्, परतश्च महाटटशतसहस्राध्ये कमूहाङ्गम्, चतुरशीत्यूहाङ्गशत-सहस्राण्ये कमूहम्, चतुरशीत्यूहशतसहस्राण्येकं महोहम्, चतुरशीतिमहोहशतस्राण्येक शीर्षप्रहलिकाङ्गम्, चतुरशीतिप्रहेलिकाङ्गशतसहसाण्येका शीर्ष - प्रहेलिका ज्ञातव्या। संप्रत्येषु संख्यास्थानेषु गुणकारनिर्देशमाहएत्थ सयसहस्साई, चुलसीइं चेव होइ गुणकारो। एक्केक्कम्मि उठाणे, अह संखा होइ कालम्मि। अत्र एषु नलिनादिषु सर्वसंख्यास्थानेषु शीर्षप्रहेलिकापर्यन्तेषु मध्ये एकैकस्मिन्संख्यास्थाने पूर्वसंख्यास्थानमधिकृत्य गुणकारो भवति चतुरशीतिशतसहस्राणि / किमुक्तं भवति ?-पूर्वं पूर्व संख्यास्थान चतुरशीतिशतसहस्रमुत्तरमुत्तरं संस्थास्थानं भवति; एतच प्रागेव भावितमिति / इह स्कन्दिलाचार्यप्रवृत्तौ दुःषमानुभावतो दुर्भिक्षप्रवृत्त्या साधूनां पठनगुणनादिकं सर्वमप्यनेशत्, ततो दुर्भिक्षातिक्रमे सुभिक्षप्रवृत्तौ द्वयोः सङ्घमेलापकोऽभवत्। तद्यथा-एको बलभ्यामेको मथुरायाम्। तत्र च सूत्रार्थसंघटनेन परस्परं वाचनाभेदो जातः। विस्मृतयोर्हि सूत्रार्थयोः स्मृत्वा स्मृत्वा संघटने भवत्यवश्यं वाचनाभेद इतिनकाचिदनुपपत्तिः। तत्रानुगयोगद्वारादिक-मिदानीं वर्तमान-मायुरवाचनानुगतम् / ज्योतिष्करण्डक सूत्रकर्ता चाचार्यो बालभ्यः, ततो यदिदं संख्यास्थानप्रतिपादनं तद् बालभ्यवाचनानुगतमिति नास्यानुयोगद्वारप्रतिपादितसंख्यास्थानैः सह विसदृशत्वमुपलभ्य विचिकित्सितव्यमिति। संप्रत्युपसंहारमाह-(अह त्ति) एषा अनन्तरोदिता संख्या भवति काले कालविषया। एसो पण्णवणिजे, कालो संखेज्जओ मुणयव्वो। वोच्छामि असंखेजं, कालं उवमाविसेसेणं / / एषोऽनन्तरोदितस्वरूपः कालः प्रज्ञापनीय इति / अत्र शक्तावनीयप्रत्ययभूतोऽयमर्थः-प्रतिनियतप्रमाणतया प्रतिपादयितुमशक्यः संख्येयो ज्ञातव्यः / अत ऊर्द्धवमसंख्येयं संख्यातीतकालं वक्ष्यामि / ननु यः संख्यातीतः स कथं प्रतिपादनीय इत्यत आहःउपमाविशेषेण उपमाभेदेन, पल्योपमया इत्यर्थः / ज्यो०२ पाहु०। अय पल्योपमसागरोपमयोरतिप्रचुरकालत्वेन क्षयमसम्भावयन् प्रश्नयन्नाहअस्थि णं मंते ! ए ए किं पलिओवमसागरोवमा णं खएइ