________________ काल 475 - अभिधानराजेन्द्रः - भाग 3 काल त्रिविधः कालो भगवद्भिस्तीर्थङ्करगणधरौनिर्दिष्टः। तद्यथा संख्येयोऽ-- संख्येयोऽनन्तश्च / तत्र समसयादिः शीर्षप्रहेलिकापर्यन्तः संख्येयः, असंख्येयः पल्योपमादिकः। अनन्तः अनन्तोत्सर्पिण्यवसर्पिण्यादिकः। ज्यो०१ पाहु। तत्र प्रथमतः संख्येयं कालं विवक्षुरिदमाहसमए आवलिआ आण पाणु थोवे लवे मुहुत्ते अहोरते पक्खे मासे उऊ अयणे संवच्छरे जुगे वाससए वाससहस्से पुथ्वंगे पुटवे तुडिअंगे तुडिए अडडंगे अडे अववंगे अववे हुहुअंगे हुहुए उप्पलंगे उप्पले पउमंगे एउमे णलिणंगे णलिणे अत्थिनिऊरंगे अत्थिनिऊरे अउअंगे अउए नउअंगे नउए पउअंगे पउए चूलिअंगे चूलिआ सीसपहेलिअंगे सीसपहेलिआ पलिओवमे सागरोवमे अवसप्पिणी उस्सप्पिणी पोग्गलपरिअट्टि अतीतद्धा अणागतद्धा सव्वद्धा। अनु०॥ (अस्य व्याख्या आणुपुव्वी' शब्दे द्वितीये भागे 151 पृष्ठे द्रष्टव्या) कालो परमनिरुद्धो, अविभजो तं तु जाण समयं तु। समयाय असंखेजा, हवइ हु उस्सासनिस्सासो। कालः परमनिरुद्धः परमनिकृष्टः / एतदेव व्याचष्टे-अविभेद्यो विभक्तुमशक्यः / किमुक्तं भवति ? यस्य भूयोऽपि विभागः कर्तुं न शक्यते स कालः परमनिरुद्धः, इत्थंभूतं परमनिरुद्धं कालविशेष समयं जानीहि। स च समयो दुरधिगमः,तं हि भगवन्तः केवलिनोऽपि साक्षात् केवलज्ञानेन विदन्ति, न तु श्रृङ्गग्राहिकया परेभ्यो निर्देष्टुं शक्नुवन्ति / निर्देशो हि प्रथमतः कायप्रमाणेन भाषाद्रव्यण्यादाय पश्चाद्वाक्पर्याप्तिकरणप्रयोगतो विधीयते, ततो यावत्समय इत्येतावन्त्यक्षराण्युच्चार्यन्ते तावदसंख्येयाः समयाः समतिक्रामन्तीति न साक्षाद्विनि ठितरूपतया निर्देष्टु शक्यन्ते / इत्थंभूताः समया असंख्येया एक उच्छासनिःश्वासो भवति / किमुक्तं भवति ?-अनन्तरोक्तस्वरूपाः समया जघन्ययुक्ताः संख्यातकप्रमाणा एका आवलिका, संख्येया आवलिका एक उच्छ्वासः, तावत्प्रमाण एव एको निःश्वासः। तयोश्चायं भेदः-ऊर्द्धवगमनस्वभाव उच्छ्रासः, अधोगमनस्वभावो निःश्वासः। उस्सासो निस्सासो, दोहिं वि पाणु त्ति भन्नए एक्का। पाणा य सत्त थोवा, थोवा वि य सत्त लवमाहू। अट्ठ य तीसं तु लवा, अद्धलवो चेव नालिया होइ।। पुरुषस्य शारीरिकबलोपेतस्यानुपहतकरणग्रामस्य निरुजस्य प्रशस्ते यौवने वर्तमानस्यानाकुलचेतसो य एक उच्छ्पासः संख्येयावलिकाप्रमाणः, यश्चैको निश्वासः संख्यातावलिकाप्रमाण एव, तौ द्वावपि समुदितावेकः प्राणो भण्यते / प्राणो नाम कालविशेषः / एतदुक्तं भवति यथोक्तपुरुषगतोच्छ्वासनिःश्वासप्रमितः कालविशेषः प्राण इति / यच्च पुरुषस्य शारीरिकवलोपेता-दिविशेषकलापोपादानं तदन्यथा . भूतपुरुष संबन्धिनावुच्छासनिःश्वासौ न प्राणरूपकालविशेषप्रमितिहेतू भवत इति प्रतिपत्त्यर्थम् / ते च प्राणाः सप्त सप्त संख्या एकः स्तोकः, स्तोकानपि च सप्तसंख्यानेकं लवमाहुः पूर्वसूरयः / ते पि च लवा अष्टात्रिंशत्संख्या अर्द्धलवः / अर्द्ध लवस्य अर्द्धलवम्, समेंऽशे / अर्द्ध नपुंसकम् / / 2 / / इति समासः / चैवशब्दः समुचये। एका नालिका भवति। सार्धा अष्टात्रिशल्लवाः समुदिता एका नालिका भवतीत्यर्थः / ज्यो०१ पाहु०। (नालिकादि (घटिकादि)प्रमाणं स्वस्थाने द्रष्टव्यम्) (10) संप्रति मुहूर्तादिप्रमाणमाहवे नालिया मुहुत्तो, सढिपुण नालिया अहोरत्तो। पन्नरस अहोरत्ता, पक्खो तीसं दिणा मासा / / द्वेनालिकेद्वे घटिके समुदिते एको मुहूर्तः, स च धरिमप्रमाणचिन्तायां पलशते, मेयप्रमाणचिन्तायां चत्वार आढकाः। षष्टिः पुनर्नालिका घटिकाः समुदिता एको अहोरात्रस्त्रिंशन्मुहुर्ता एकोऽहोरात्रमित्यर्थः / तत्र च मेयप्रमाणचिन्तायां विंशत्युत्तरमाढकशतम्, धरिमप्रमाणचिन्तायां षट् पलसहस्राणि,तानि यदि भारीकृत्य चिन्त्यन्ते तदा त्रयो भारा भवन्ति। पशदशअहोरात्रा एकः पक्षः, स च मेयप्रमाणचिन्तायामष्टादश आढकशतानि, धरिमप्रमाणचिन्तायां पञ्च चत्वारिंशद् भाराः, तथा त्रिंशद् भाराः। तथा त्रिंशदिनान्यहोरात्र एको मासः। स च धरिमप्रमाणचिन्तायां नयति राः, मेयप्रमाणचिन्तायां षट्त्रिंशदाढकशतानि। संवच्छरो उ वरास, मासा पक्खा य ते चउव्वीसं / तिन्नेव सया सहा, हवंति राइंदियाणं तु // ते अनन्तरोक्तप्रमाणा मासा द्वादशसंख्या एकः संवत्सरो भवंति। ते च द्वादश मासाः पक्षतया चिन्त्यमानाः चतुर्विं यशतिः पक्षाभवन्ति / रात्रिन्दिवतया चिन्त्यमानास्त्रीणि शतानिषष्टीनि; षट्यधिकानि भवन्ति रात्रिंदिवानामहोरात्राणाम् / एष च संवत्सरो यदा मेयरूपतया चिन्त्यते तदा शतद्वयाधिकानि त्रिचत्वारित्सहस्राण्याढकानां भवन्ति (43200) तोल्यरूपतया तु चिन्त्यमानो भारणामेकं सहस्र मशीत्यधिकम् (1080) / एष च संवत्सरो लोके कर्मसंवत्सर इति, ऋतुसंवत्सर इति च प्रसिद्धिंगतः। तथाहि-लौकिकास्त्रिंशतमहोरात्रान् मासं परिगणयंति, इत्थंभूतमासद्वयात्मकं च वसन्तादिकमृतुं, तथाभूतानां षण्णां वसन्तादीनामृतूनां समुदायं संवत्सरम्। यानिचलोके कर्माणि प्रवर्तन्ते तानि सर्वाण्यमुं सुवत्सरमधिकृत्य, एष कर्मसंवत्सरः, सावनसंवत्सर ऋतुसंवत्सर इतिक्ष्यातः। तथा चाहइय एस कमो भणिओ, नियमा संवस्सरस्स कम्मस्स। कम्मो त्ति सावणो त्ति य, उउ त्ति य तस्स नामाणि / / एष पूर्वोक्तः क्रमो भणितो ज्ञातव्यो नियमात् कर्मणाः कर्मनानः संवत्सरस्य, तस्य चैवंरूपस्यसंवत्सरस्यामूनि नामानि। तद्यथा-कर्मेति कर्म लौकिको व्यवहारः तत्प्रधानतः संवत्सरोऽप्युपचारात्कर्म / (सावणो त्ति) सवनं कर्मसु प्रेरणं, सुप्रेरणे इति वचनात् / तत्र भव एष संवत्सर इति सावनः / ऋतुर्लोकप्रसिद्धो वसन्तादिः, तत्प्रधान एष संवत्सर इत्युपचारात् ऋतुः / ज्यो०२ पाहु० ('संवच्छर' शब्देस्य विशेषः) संप्रत्युत्तरः कालविशेषश्चिन्त्यतेतत्रान्तरोदितस्वरूपैश्च तुभिर्युगैर्विशतिवर्षाणि, पञ्चविंशतानि व षशतं, दश शतवर्षाणि वर्षसहस्रं, शतं सहस्रवर्षाणां वर्षलक्ष, चतुरशीतिवर्षलक्षाण्येकं पूर्वाङ्ग,चतुरशीतिः पूर्वाङ्गलक्षाणि पूर्वम्।