________________ काल 473 - अभिधानराजेन्द्रः - भाग 3 काल टते, तत एतादृशं कालद्रव्यं कथ्यते / तत एव श्रीभगवत्यड़े-'कइणं भंते! दव्या पन्नत्ता। गोयमा!छदव्वा पण्णत्ता। तंजहा-धम्मत्थिकाएक जाव अद्धासमए'' एतद्वचनमस्ति। तस्य निरुपचरितव्याख्यानं घटते। तथा च वर्तनापर्यायस्य साधारणापेक्षा न कथ्यते तदा तु गतिस्थित्यवगाहनासाधारणापेक्षाकारणत्वेन धर्माधर्मास्तिकायौ सिद्धौ जातौ तत्रापि अनाश्वास आयाति / अथ च अर्थयुक्तया ग्राह्यमस्ति तस्मात्केवलमाज्ञयैव ग्राह्याऽस्ति परंतु कथं सन्तोषधृती भवेताम् ?12 / एतन्मतन्यं धर्म-संग्रहिण्यां च भाष्यके / अनपेक्षितद्रव्यार्थि-कमते तस्य योजना // 13 // एतमन्तद्वयं धर्मसंग्रहिण्यां श्रीहरिभद्रसूरिणा व्याख्यातम् / तथा च तद्गथा-''जं क्त्तणाइरूवो, कालो दव्वस्स चेव पज्जाओ। सो चेव तवो धम्मो, कालस्स व जस्स जो ण लोए त्ति"॥१॥ एवमेतन्मतद्वयमलं श्रीहरिभद्रसूरिसम्मत धर्मसंग्रहिणीसूक्तं ज्ञेयम् / तथाच एतन्मतद्वये भाष्यके श्रीतत्त्वार्थभाष्वऽपि वाचकैस्तथैव प्रणीतमस्ति।तथा, तद्न्थः"कालश्चेत्येके" इति वचनाद् द्वितीयमतं श्रीतत्वार्थव्याख्याने समर्थितम् / पुनस्तस्य कालस्य अनपेक्षितद्रव्यार्थिकनयमते योजना युक्तिश्च भवति / तथाहि स्थूललोकव्यवहारसिद्धोऽयं कालोऽपेक्षारहितश्च ज्ञेयः / अन्यथा वर्तनापेक्षाकारणत्वेन यत्कालद्रव्यं साधित तत्पूर्वापरादिव्यवहार-विलक्षणपरत्वापरत्वादिनियामकत्वेन दिग्द्रव्यमपि सिद्धं स्यादिति / अथ च"आकाशमवगाहाय, तदनन्या दिगन्यथा। तावप्येवमनुच्छेदात्ताभ्यां चान्यदुदाहृतम्''।।१।। इति सिद्धसेनदिवाकरकृतनिश्चयद्वात्रिंशिकार्थ विसश्य आकाशादेव दिक्कार्य प्रसिद्ध्यतीति ।इम्थमङ्गीकुर्व तां कालद्रव्यं कार्यमपि कथञ्चित्तत एवोपपत्तिः स्यात्। तस्मात् 'कालश्चेत्येके' इति सूत्रमनपेक्षितद्रव्यार्थिकनयेनैव इति सूक्ष्मदृष्ट्या विभावनीयम्।।१३।। (७)अथकालद्रव्याध्किारं दिगम्बरप्रक्रियया उपन्यसन्नाहमन्दगत्याडप्यणुवित् प्रदेशे नभसः स्थितौ। याति तत्समयस्यैव, स्थानं कालाणुरुच्यते // 14|| मन्दगत्या मन्दगमनेनाणुः परमाणुः नभसः आकाशस्य प्रदेशे स्थिती स्थाने यावदिति यावता कालेन गच्छति तत्समस्य तत्कालपरिमितस्य कालस्य स्थानं कालाणुरिति व्यवहारो जायत इति / एकस्य नमसः स्थाने मन्दगतिरणुर्यावता कालेन संचरति तत्पर्यायेण समय उच्यते, तदनुरूपश्च यः स कालः पर्याय समयस्य भाजनं कालाणुरिति / स च एकस्मिन्नाकशप्रदेशे एकैक एवं कुर्वतां समस्तलोकाकाशप्रदेशप्रमाणाः कालाणवो जायन्त इति / इत्थं कश्चिदपरो वदन जैनाभासो दिगम्बर एवास्ति / उक्तं च द्रव्यसंग्रहे- 'रयणाणं रासी इव, ते कालाणु असंखदव्वाणि / " इति दिगत्बरमतमनुसृत्य योगशास्त्राभ्यासेन अपरोऽपि कश्चिदेतद्वचनमुदाजहार // 14 // तदेव दृष्टान्तयन्नाहयोगशास्त्रान्तर श्लोके, मतमतेदपि श्रुतम् / लोकप्रदेशेऽप्यणवो, भिन्ना भिन्नास्तदग्रता ||15|| योगशास्त्रान्ततरश्लोके एतदपि मतं श्रुतं, दिगम्बरमतेऽपि अन्तरश्लोकव्याख्यानमपीष्टमस्ति / यतो लोकप्रदेशेऽपि भिन्ना भिन्ना अणवस्तन्मुख्यत्वमापादयन्ति। लोकप्रदेशे भिन्ना भिन्नाः कालाणवस्त एवं मुख्यकाल इति व्यवहारः। तथाच तत्पाठः"लोकाकाशप्रदेशस्थाः, भिन्नाः कालाणवस्तुये। भावानां परिवर्ताय, मुख्यः कालः स उच्यते"।।१।। इति / अस्य भावार्थ:-लोकाकाशे यावन्तः प्रदेशस्तेषु तिष्ठन्तीति लोकाकाशप्रदेशस्थाः, भिन्नाः पृथक् पृथक् एकनभोदेशे एकः, इत्थं सर्वत्र सर्वे ये कालणवः सन्ति त एव तावन्तः कालाणव इति। तु पुनर्भावानां पदार्थानां परिवर्ताय नूतनं कृत्वा जीणं करोति, जीर्णं कृत्वा नूतन करोति एवं भावानां परिवर्तीय वर्तते स एव मुख्यः सर्वत्र प्रधानपदार्थः काल उच्यते इत्यर्थः।।१५।। पुनस्तदेव चर्चयन्नाहप्रचयो त्वमेतस्य, द्रयोः पर्याययोर्भवेत्। तिर्यक्प्रचयता नास्य, प्रदेशत्वं विना क्वचित् / / 16 / / एतस्य कालाणुद्रव्यस्य प्रचयोर्द्धक्त्वमूद्धर्वताप्रचयः द्वयोः पर्याययोः पूर्वापरयोर्भवत् / यतो यथा मृव्यस्य स्थासकोशकुशूलादिपूर्वापरपर्यायाः सन्ति तथा एतस्य कालस्य समयावलीमुहूर्तादयः पूर्वापरपर्याया वर्तन्ते, परं तु स्कन्धस्य प्रदेशसमुदायः कालस्य नास्ति तस्माद् धर्मास्तिकायादीनामिव तिर्यक्प्रचयता न संभवति, एतावता तिर्यक्प्रचयत्वं नास्ति / तेनैव कालद्रव्यमस्तिकाय इति नोच्यते / परमाणुपुद्गलस्येव पुनस्तिर्यक्प्रचयता नास्ति / तस्मात् उपचारेणापि कालद्रव्यस्य अस्तिकायता न कथनीया इति // 16 // (8) अथैतद्दिगम्बरमतं वादेन दूषयन्नाहएवमणुगतेात्वा, हेतुं धर्माणवस्तदा। साधारणत्वमेकस्य, समयस्कन्धताऽपि च / / 17 / / एवमनया रीत्या यदि अणुगतेः परमाणुगमनस्य हेतुमिति हेतुत्वं लात्वा गृहीत्वा धर्माणवो धर्मद्रव्याणवो भवन्ति तदैकस्या कस्यचित्पदार्थस्य साधारणत्वं गृहीत्वा समयस्कन्धता स्यादिति / अथ योजना एवम्यदि मन्दाणुगतिकार्यहेतुपर्यायसमयभाजनं द्रव्यसमयाणुः कल्पते तदा मन्दाणुगतिहेतुतारूपगुणभाजन धर्मास्तिकायोऽपि सिद्ध्यति / एवमधर्मास्तिकायस्याप्यणुप्रसङ्गता स्यात् / अथ च सर्वसाधारणगतिहेतुतादिकं गृहीत्वा धर्मास्तिकायाघकस्कन्धरूपं द्रव्यं कल्पते तदा देशप्रदेशादिकल्पनाऽपितस्या व्यवहारानुरोधेनपश्चात्कर्तव्या स्यात्। यदिचसर्वजीवाजीवद्रव्यसाधारणवर्तनाहेतुतागुणं गृहीत्वा कालद्रव्यमपि लोकप्रमाणं कल्पयितु युज्यते धर्मास्ति कायादीनामधिकारेण साधारणगतिहेतुताऽऽद्युपस्थितिरेवास्ति / अस्या कल्पनायास्तु अभिनिवेशं विना द्वितीयं किमपि कारणं नस्ति॥१७॥ अथ पुनस्तदेवाह-- अप्रदेशत्वमासूत्र्य, यदि कालाणवस्तदा। पर्यायवचनोद्युक्तं, सर्वमेवौपचारिकम्॥१८|| अप्रदेशत्वं प्रदेशरहितत्वं यदि आसूत्र्य प्रकल्पितस्य कालस्य अणवः कथ्यन्ते तदा पर्यायवचनेन योजितं क्रियते सर्वमप्युपचारेण इदमिति / तथाच यदा एवं कथयत-सूत्रे कालोऽप्रदेशी कथितः तस्यानुसारेण कालाणवः कथ्यन्ते, तदा तु सर्वम -