________________ काल 472 - अभिधानराजेन्द्रः - भाग 3 काल यामधिकृत्य सादिसपर्यवस्थितयः / सिद्धाः प्रत्येकं सिद्धत्वमधिकृत्य साद्यपर्यवसानाः / भव्यजीवाः, भव्यत्वमाश्रित्य, केचनाप्यनादिसपर्यवसानाः; "सिद्धे नो भव्ये नो अभव्वे" इति वचनात् सिद्धत्वप्राप्तौ भव्यत्वनिवृत्तेः। अभव्यजीवाः, अभव्यत्वङ्गीकृत्य, अनाद्यपर्यवसिताः। इत्येवं चेतनद्रव्यस्य सादिसपर्यवसितादिका चतुर्विधा स्थितिः / अचेतनद्रव्य-मुररीकृत्याह-(खंधेत्यादि) द्वयणुकादिस्कन्धः सादिसपर्यवसिताः, एकेन व्यणुकत्वादिना परिणामेनोत्कृष्टतोऽपि पुद्गलद्रव्यस्यासंख्येयकालमेव स्थितेः। अनागताद्धा भविष्यत्कालरूपा साद्यपर्यवसिता। अतिक्रान्तकालरूपा अतीताद्धा अनादिसपर्यवसिता।। आकाशधर्माधर्मास्तिकायादयस्त्वनाद्यपर्यसिताः / इत्येवं चेतनारहितस्यापि द्रध्यस्य चतुर्विधा स्थितिः। तदेवमभिहितो द्रव्यकालः।।२०३४।। (अद्धाकालस्वरूपोपदर्शनं अद्धाकाल' शब्दे प्रथमभागे 563 पृष्ठे कृतम्) अथाऽऽयुष्ककालं विभणिषुर्भाष्यकारस्तत्स्वरूपमाहआउयमेत्तविसिट्ठो, स एव जीवाण वत्तणाइमओ। भण्णइ अहाउकालो, वत्तइ जो जचिरं जेण / / 2037 / / स एवोक्तरूपोऽद्धाकालो वर्तनादिमयो जीवानां नारकतिर्यड्नशमराणां यथायुष्ककालो भण्यते / किं सर्वोऽपि ? न इत्याह-आयुष्कमात्रविकशष्टः, नारकाद्यायुष्कमात्रविशेषित इत्यर्थः / अत एवायं यथायुष्ककालो भण्यते / यद्येन तिर्यग्मनुष्यादिना जीवेन यथा येन रौद्रार्तधर्मध्यानादिना प्रकारेणोपार्जितमायुर्यथायुष्कम, तस्याऽनुभवनकालो यथायुष्ककालः / कियन्तमवधिं यावदसौ भवतीत्याह-यो / जीवो येनात्मबद्धेनायुषा (जचिरं ति) यावन्तमन्तर्मुहमादिकं त्रयस्त्रिंशत्सागरोपमपर्यन्तं कालं वर्तते, सतस्य जीवस्य तावन्तभवधि यावद्यथायुष्ककालो भवतीति तात्पर्यार्थः / इत्येवं विवक्षामात्रकृतोऽद्धाकालयथायुष्ककालयोर्भेदः / अतोऽद्धाकालस्यैव विशेषभूतत्वात्तदनन्तरं यथायुष्ककाल-माहेति भाव इति गाथार्थः / / 2037 / / इति विहितसंबन्धमेव यथायुष्ककालं नियुक्तिकारः प्राहनेरइयतिरियमणुआ-देवाण अहाउयं तु जं जेण। निय्वत्तियमन्नभवे, पालंति अहाउकालो उ॥२०३८॥ नारकतिर्यग्मनुष्यदेवानां मध्याद्यद्येनजीवेन यथा येन रौद्रध्यानादिना प्रकारेणान्यभवे पूर्वजन्मन्यभिनिर्विर्तिमायुरेतद् यथायुरिहोच्यते / तच्च यदा त एव नारकादयो विपाकतः पालयन्त्यनु भवन्ति, तदाऽसौ तेषां यथयुष्ककालोऽभिधीयते। तुशब्दो द्रव्य कालादिभ्योऽस्य विशेषणार्थ इति नियुक्तिगाथार्थः / / 2038 / / (उपक्रमकालः 'उवक्कमकाल' शब्दे द्वितीयभागे 873 पृष्ठे द्रष्टव्यः) तत्र समाचारः शिष्टजनसमाचरितः क्रियाकलापः, तस्य भाव इति "गुणवचनब्राह्मणादिभ्यः कर्मणि च"(पाणि०) 5 / 1 / 124 / इति ष्यप्रत्यये सामाचार्यम् / ततः सामग्रीत्यादाविव स्त्रीत्वविवक्षायामीप्रत्यये यलोपे च सामाचारी इति भवति; तस्या उपक्रमणमुपरितनश्रुतादिहानयनं सामाचार्युपक्रमः; स चासावुपचारात्कालश्च सामाचार्युपक्रमकालः। यथा बद्धस्यायुष्कस्योपक्रमणं दीर्घकालभोगस्य लघुतरकालेनैव क्षपणं यथायुष्कोपक्रमः, स | चासावुपचारात्कालश्च यथायुष्कोपक्रमकालः / यः सामाचार्युपक्रमण- | द्वारेणोपक्रम्यते कालः स सामाचार्युपक्रमकालः। यस्त्वायुष्कोपक्रम णद्वारेणोपक्रम्यते स यथायुष्कोपक्रमकाल इतीह तात्पर्यम् / तत्र सामाचारी त्रिविधा। कथा।(ओहे दसहा पयविभागे त्ति) ओघः सामान्य तेन सामाचारी ओघसामाचारी, सामान्येन संक्षेपतः साधुसमाचाराभिधानरूपा। सा चौघनिर्युक्तेर्वेदितव्या।दशधा सामाचारी पुनरिच्छाकारमिथ्या दुष्कृतादिदशविध-साधुसमाचाररूपा। विशे० "अज्झवसाणनिमित्ते, आहारे वेणया पराघाए / फासे आणापाण, सत्तविहं भिजए आउं''॥२०४१॥ (सप्तधा आयुर्भिद्यते इति 'आउ' शब्दे द्वितीयभागे 10 पृष्ठे सविस्तरं व्याख्यातम्)। अथ प्रमाणकालभिधित्सया तत्स्वरूपं विवरीषुर्भाष्यकारः प्राहअद्धाकालविसेसो, पत्थयमाणं च माणुसे खित्ते। सो संववहारत्थं, पमाणकालो अहोरत्तं // 2068|| स प्रमाणकाल इति समयविद्भिः प्ररूप्यते। य५ कथंभूतः ? इत्याहअद्धाकालस्यैव विशेषस्वरूपः। अयं च सूर्यादिगतिक्रियाभिव्यङ्गयत्वाद् मनुष्यक्षेत्र एव भवति, न परतः, सूर्यादिगतिक्रियाभावात्। किंविशिष्टः पुनरसावित्याह-अहोरात्रमहोरात्रसंज्ञितः। किमर्थं पुनरसौ प्ररूप्यते ? इल्याह-संव्यवहारार्थं जीवाजीवादिस्थित्यादिमानव्यवहारार्थम् / किंवत् ? प्रस्थकमानवत्। यथा सामान्यमानस्य विशेष भूतं मनुष्यक्षेत्रे धान्यादिमिततत्संव्यवहारार्थम् "दो असईओ पसईओ, दो पसईओ सेइया, चत्तारिसेइयाओ कुडवो, चत्तारि कुडवा पत्थो" इत्यादिना सूत्रे प्ररूपितं प्रस्थकमानम् / तथाऽयमप्यहोरात्ररूपः प्रमाणकाल इति गाथार्थः // 2068 / / विशे० (वर्णकालभावकालादीनां व्याख्या स्वस्थाने) अथाकण्ठतोऽपि सूत्रे जीवाजीवाभ्यामतीतः कालः कथितोऽऽतस्तमेव तथैव सूत्रयन्नाहजीवाजीवमयः कालः, समये न पृथक् कृतः। इत्येके संगिरन्तेऽत्र, धारयन्तः शुभाः मतिम्॥११॥ समये सिद्धान्ते जीवाजीवमयः जीवाजीवरूपः कालः कथितः, पृयक् भिन्नस्ताभ्यां न कृतः, ततो भिन्नः कथं कथ्यते इति पूर्वोक्तमेके आचार्याः सङ्गिरन्ते भाषन्तेअत्र। किं कुर्वन्तः? शुभां विशुद्धां मतिं बुद्धिंधारयन्तः / शुद्ध बुद्धिमतां सुधीराणां यथोक्तश्रीजिनप्रणीतत्त्ववेत्तृणं प्राणीनां सम्यक्त्वावाप्तिः सुलभा भवतीति ध्येयम् / तथा च गौतमेन भद्रकपरिणामशालिना भगवान् पृष्टः, तदाहेति भगवन् ! किमयं कालो जीवस्तथाऽजीवश्चेति प्रश्ने भगवानाह-गौतम ! जीवोऽपि कालः, अजीवोऽपि कालः तदुभयं काल एव जीवाजीवयोः कालेनोपजीव्योपजीवकभावसंबन्धः संतिष्ठत इति। पुनस्तदेवाहआहुरन्ये भचक्रस्य विश्व चारेण या स्थितिः। कालोऽपेक्षाकारणंच, द्रव्यमित्यपि पञ्चमे // 12 // अन्ये आचार्या एवं कथितवन्तः-भचक्रस्य ज्योतिश्चक्र स्य चारेणया विश्वे स्थितिरवस्थाविशेषः स काल इत्यभिधीयते। तथा च वर्तुलाकारं ज्योतिश्चक्रं , तस्य चारेण परत्वापरत्वनवपुराणादिभावस्थितिहेतुः तस्यापेक्षाकारणम् / मनुष्यलो के हि अर्थस्य सूर्यक्रियोपनायकद्रव्यचारक्षेत्रप्रमाणमेवोपकल्पनं घ