SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ काल 471 - अभिधानराजेन्द्रः - भाग 3 काल दिकालप्रकल्पनं व्यर्थम्। सम्म०२ काण्ड। जै समयेन विशिष्टपरापरप्रत्ययादिलिङ्गानुमेये द्रव्यभेदे, सम्म२ काण्ड। (४)कालसिद्विःअथ काल एव कथमवसीयत इति चेत् ? उच्यते-यकुलचम्पकाशोकादिपुष्पप्रदानस्य नियमेन दर्शनात, नियामकश्च काल इति / स्था०१ठा०१उ०। कालो नाऽस्ति, अनुपलम्भात्; यच्च वनस्पतिकुसुमादिकाललक्षणमाचक्षते, तत्तेषामेव स्वरूपमिति मन्तव्यम् / असत्यम्। तेषामपि स्वरूपस्य वस्तुनोऽनतिरेकात्। कुसुमादिकरणमकारणं तरूणां स्यात्। प्रश्न०२ आश्र० द्वार। (5) काललक्षणम्कालस्तुपरमार्थतो द्रव्यं नास्तीतिशङ्कमानं निराकुरुतेवर्तनालक्षणः कालः, पर्यवद्रव्यमिष्यते। द्रव्यभेदात्तदानन्त्यं, सूत्रे ख्यात सविस्तरम्॥१०॥ (वर्तनेति) सर्वेषां द्रव्याणां वर्तनालक्षणो नवीनजीर्णकरणलक्षणः कालः पर्यायद्रव्यमिष्यते। तत्कालपर्यायेषु अनादिकालीनद्रव्योपचारमनुसृत्य कालद्रव्यमुच्यते / अत एव पर्यायेण द्रव्यभेदात् तस्य कालद्रव्यस्यानन्त्यम् / अनन्तकालद्रव्यभावनं सूत्रे उत्तराध्ययने सविस्तरं ख्यातम् / तथा च तत्सूत्रम्-'धम्मो अधम्मो आगासं, दव्वमिक्किक्कमाहियं / अणंताणि य द्रव्याणि, कालो पुग्गलजंतओ''||१|| एतदुपजीव्यान्यत्राप्युक्तम्- 'धर्माधर्माकाशाद्येकैकमतः परं त्रिकमनन्तम्" इति / ततो जीवद्रव्यमप्यनन्तं, तस्य च वर्तमानपर्यायस्यार्थ कालद्रव्यमथनन्तमित्युक्तमागमे। विस्तरस्तु ततोऽवधारणीयः द्रव्या०१० अध्या०। कथं पुनर्द्रव्यस्य कालोऽन्तङ्गः, न तु क्षेत्रमित्यादिजंवत्तणाइरूवो, वत्तुरणत्थंतरं मओ कालो। आहारमत्तमेव उ, खेत्तं तेणतरंगं सो॥२०२७।। वर्त्तना आदिर्येषां परिणामादीनां ते वर्तनादयः, त एव रूपं यस्यासौ वर्त्तनादिरूपः तीर्थकरादीनां संमतः कालः। उक्तं च-"वर्त्तना परिणाम: क्रिया परापरत्वेचकालस्योपग्रहः" इति। तत्र विवक्षितेन नवपुराणादिना तेन तेन रूपेण यत्पदार्थानां वर्त्तनं शश्वद्वनं सा वर्तना। परिणामोऽभ्रादीनां सादिः, चन्द्रविमानादीनामनादिः / क्रिया देशान्तरप्राप्तिलक्षणा / देवदत्ताद् यज्ञदत्तः परः पूर्वमुत्पन्नः, यज्ञदत्तात्पुनर्देव-दत्तोऽपरोऽर्वागुत्पन्न इत्यादिरूपंपरापरत्वम्, इत्येतानि कालस्योपग्रह उपकारः। एतानि चत्वार्यपि कालकृतत्वात्तलिङ्गानीति भावः / स च, वर्तनादिरूपः कालो यद्यस्माद्वर्तितुर्द्रव्यादनान्तरमभिन्नस्वरूप एव वर्तते, क्षेत्रंतु द्रव्यस्याधारमात्रमेव, न त्वर्थान्तरम्। तेन द्रव्यस्यान्तरङ्गः कालः, बहिरङ्गं तु क्षेत्रम्, अतो द्रव्यनिर्गमादनन्तरं कालनिर्गमोऽभिधीयत इति / विशे० तेषामेव द्रव्यकालादिभेदानां प्रतिपादनार्थं नियुक्तिकारः प्राहदव्वे अद्ध अहाउ य, उवक्कमे देसकालकाले य। तह य पमाणे वन्ने, भावे पगयं तु भावेणं // 2030 // इह नामस्थापने सुखावसेयत्यान्नोक्ते, शेषास्तुनयकालभेदाः प्रोच्यन्तेतत्र द्रव्य इति वर्तनादिरूपा द्रव्यकासो वाच्यः / (अद्ध त्ति)चन्द्रसूर्यादिक्रियाऽभिव्यङ्गयोऽर्द्धतृतीयद्वीपसमुद्रान्तर्वर्त्यद्धाकालः समयादिलक्षणो वाच्यः / तथा यथायुष्कालो देवाद्यायुष्ककालो देवाऽऽद्यायुष्कलक्षणो वक्तव्यः / तथा--उपक्रमकालोऽभिप्रेतार्थसामीप्यानयनलक्षणः समाचारी, यथाऽऽयुष्कभेदभिन्नोऽभिधानीयः / तथा-देशः प्रस्तावोऽवसरो विभागः पर्याय इत्यनर्थान्तरम: स देशारूपः कालो देशकालो वक्तव्यः, अभीष्टवस्त्ववाप्त्यवसरकाल इत्यर्थः। तथाकालकालोऽभिधानीयः, तत्रैकः कालशब्दोऽनन्तरनिरूपित-शब्दार्थः, द्वितीयस्तु समयपरिभाषया कालो मरणमु च्यते / ततश्च कालस्य मरणक्रियारूपस्य कलनं कालः, काल इत्यर्थः। तथा-प्रमाणकालोऽद्धाकालस्यैव विशेषभूतो दिवसादिलक्षणो वक्तव्यः / तथा वर्णश्चासौ कालश्च वर्णकालो भणनीयः / तथा (भावे त्ति) औदयिकादेर्भावस्य सादिसपर्यवसानादिभेदभिन्नः कालो भावकालः प्ररूपणीयः। (पगयं तु भावेण त्ति) प्रकृतं प्रस्तुतं पुनरत्र भावेन भावकालेनेहाधिकारः। शेषास्तु द्रव्यकालादयः कालभेदमात्रतः प्ररूपिताः इति नियुक्तिगाथाद्वारसंक्षेपार्थः।।२०३०॥ अथ प्रतिद्वारं विस्तरार्थमभिधित्सुराहचेयणमचेयणयस्सय, दव्वस्स ठिई उ जा चउ विगप्पा। सा होइदव्वकालो, अहवा दवियं तयं चेव / / 2031 / / चेतनमिति विभक्तिव्यत्ययात्षष्ठी द्रष्टव्या। चशब्दतु समुचये। ततश्च चेतनस्य सुरनारकादेः, अचेतनस्य च पुद्गलस्कन्धादेः, द्रव्यस्य च याऽवस्थानरूपा स्थितिः सादिसपर्यवसानादिभेदाच्चतुर्विकल्पा चतुर्भेदा सा स्थितिर्भवति / किमित्याह-द्रव्यस्य कालो द्रव्यकालः, तत्पर्यायत्वात्। अथवा तदेव सचेतनाचेतनरूपं द्रव्यं कालो द्रव्यकालः प्रोच्यते, पर्यायपर्यायिणोरभेदोपचारादिति नियुक्तिगाथार्थः / / 2031 / / अथैता भाष्यकारो व्याचिख्यासुराहदव्वस्स वत्तणा जा, स दव्वकालो तदेव वा दव्वं / न हि वत्तणा इभिन्नं, जम्हा दवं जओऽमिहियं / / 2032 / / सुत्ते जीवाजीवा, समयाऽऽवलियादओ पवुचंति। दव्वं पुण सामन्नं, भण्णइ दय्वट्ठयामेत्तं // 2033 / / द्रव्यस्य या सादिसपर्यवसानादिलक्षणा तेन रूपेण वृत्तिर्वर्तना सद्रव्यस्य कालो द्रव्यकालः समुत्कीर्त्यते। अथवा-तदेव चेतनाचेतनं द्रव्यं कालो द्रव्यकाल इष्यते / कुत इत्याह-न खलु यस्माद्वर्तनापरिणामादिभ्यो भिन्नं पृथग्भूतं द्रव्यमस्ति, यतोऽभिहितं स्तूत्रे आगमे / किमभिहितमित्याह-(जीवाजीवेत्यादि) समयावलिकादयः केऽभिधीयन्ते? इत्याहजीवाजीवाः जीवाजीवद्रव्याण्येव समायावलि-कादयो भण्यन्ते, नपुनस्तद्व्यतिरिक्तास्त इति भावः तदेवं जीवाऽजीवेभ्योऽव्यतिरिक्तः समयावलिकादिरूपः कालः / ते च जीवाऽजीवाद्रव्यार्थतामात्ररूपं सामान्यतो द्रव्यमुच्यते।ततो द्रव्यमेव कालो द्रव्यकाल इति सिद्धम्। इह चागमोऽक्तोऽर्थ एव लिखितः, सूत्रं पुनरित्थमवगन्तव्यम् --''किमियं भंते ! काले ति पयुचई ? गोयमा ! जीया चेव, अजीव चेव त्ति"। कथं पुनश्चेतनस्याचेतनस्य च द्रव्यस्य चतुर्विधा स्थितिरित्याहसुरसिद्धभव्वऽभव्वा, साइसपञ्जवसियादओ जीवा। खंधाणागयतीया, नभादओ चेयणारहिया।।२०३४॥ सुरग्रहणस्योपलक्षणत्वात्सुरनारकतिर्यङ्गनुष्याः, सुरत्यादिप
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy