________________ करण्ण 470- अभिधानराजेन्द्रः - भाग 3 काल काराण्ण न०(कारुण्य) करुणः करुणायुक्तः, करुणाविषयो वा, तस्य भावः, करुणैव वा कारुण्यम् / ष्यञ् / करुणायां परदुः-स्वप्रहारेच्छायाम, करुणाविषयत्वे च। वाचा "दीनेष्यार्तेषुभीतेषु, पाचमानेषु जीवितम्। उपकारपरा बुद्धिः, कारुण्यमभिधीयते" ||1|| अष्ट०१६ अष्ट। कारेइत्ता अव्य०(कारयित्वा) कृ-णिच्त्वा ।"णेरदेदावावे"||३।१४६। इति शेरावादेशः। विधायेत्यर्थे, प्रा०३ पाद। कारेमाण त्रि०(कारयत्) अन्यैर्नियुक्तै पुरुषैः (जी०३ प्रति०। प्रज्ञा०।०। कल्प०) अनुनायकैः सेवकानां नियोगिकैर्विधापयति, स० / स्त्रियां कारेमाणी। विपा०१ श्रु०२ अ०।। कारेयव्व त्रि०(कारयितव्य) विधापयिवव्ये, पञ्चा०६ विव०। कारोडिय पुं०(कारोटिक)कापालिके, ज्ञा०१ अ01 कालं (देशी) तामिस्र, देवना०२ वर्ग। काल पुं०(काल) कलणसंख्याने। कलनं कालः, कल्यतेवा परिच्छिद्यते वस्त्वनेनेति कालः, कलानां वा समयादिरूपाणां समूहः कालः। कर्म०३ कर्म आ०म० ओघo विशे० तेण वा करणभूतेन दिव्यादिचउक्कयं कलिज्जतीति कालो ज्ञायत इत्यर्थः / नि०चू० उ०। (1) कालनिरुक्तयः। (2) कालस्य द्रव्यान्तरसिद्धौ विचारः / (3) मतान्तर,खण्डनम्। (4) कालसिद्धिः। (5) काललक्षणम्। (6) कालभेदाः। (7) कालविषये दिगम्बरमतनिरूपणम्। (8) ततो दिगम्बरमतदूषणम्। (9) कालनिक्षेपः। (10) मुहूर्तादिप्रमाणम्। (11) समयादीनां संख्येयासंख्येयत्वविचारः। (12) समयादिज्ञानं मनुष्यक्षेत्र एव। (13) काले ज्ञानाचारः। (14) कोणिकभार्यायाः काल्यनामकात्मजवक्तव्यता। (1) तत्र कालशब्दव्युत्पादनार्थमाहकालणं पजायाणं, कलिज्जए तेण वा जओ वत्थु / कलयंति तयं तम्मि व, समयाइकलासमूहो वा // 2028|| कल शब्दसंख्यानयोः / नवपुराणादीनां समयादीनां वा पर्यायाणां कलनं संशब्दनं, संख्यानं वा भवाप्रत्यये कालः। अथवा-मासिकोऽयं सांवत्सरिकोऽयं शारदोऽयमित्यादिरूपेण कल्यते परिच्छिद्यते यस्मादस्त्वनेनेति कालः / अथवा कलयन्ति ज्ञानिनः समयादिरूपेण परिच्छिन्दन्ति तमिति कालः / यदि वा-मासिकोऽयं सांवत्सरिकोऽयमित्यादिरूपतया कलयन्तिपरिच्छिन्दन्ति वस्तु तस्मिन्सतीति कालः / समयादिकलानां वा समूहः कालः। आह-ननुसामूहिके प्रत्यये नपुंसकत्वं प्राप्नोति, यथा-कापोतं मायूरमित्यादि। सत्यम्, किं तु शिष्टप्रयोगाद् रूढितश्चादोषः / तथा चाह-'लिङ्गमशिष्यं लोकाश्रयत्वादिति / तदेवं कालस्यान्तरङ्गता-निरुक्ती भणित। इदानीमुत्तरगाथासंबन्धनार्थमाहसो वत्तणाइरूवो, कालो दव्वस्स चेव पजाओ। किंचिम्मेत्तविसेसेण दव्वकालाइववएसो।।२०२६।। स वर्तनादिरूपः कालो द्रव्यस्यैव पर्यायः। ततः, पर्यायरूपतया तत्त्वत एकरूपस्यापि तस्य किश्चिन्मात्रविशेषविवक्षया द्रव्यकालः, अद्धाकालः यथाऽऽयुष्ककाल इत्यादिव्यपदेशः प्रवर्तत इति भाष्यगाथार्थः / विशेष न्यायमतेन परापरव्यतिकरयोगपद्यायोगपद्यचिरक्षिप्रप्रत्ययलिने द्रव्यभेदे, सम्म (2) सचद्रव्यान्तरम्तथाहि-परः पिताऽपरः पुत्रो, युगपदयुगपद्वा, तथा चिरं क्षिप्रं वा कृतं करिष्यते यत्परापरादिज्ञानं तदादिक्रिया द्रव्यव्यतिरिक्ता पदार्थनिबन्धनं तत्, प्रत्ययविलक्षणत्वात्, घटादिप्रत्ययवत् / योऽस्य हेतुः स पारिशेष्यात् कालः, यतो न तावत्पराऽपरादिप्रत्ययो दिग्देशकृतोऽयम्। स्थविरे अपरदिग्भागावस्थितेऽपिपरोऽयमिति प्रत्ययोत्पत्तेः। तथा यूनि परदिग्भागावस्थितेऽपि अपरोऽयमिति ज्ञानप्रादुर्भावात् / न च बलीपलितादिकृतोडयं प्रत्ययः, तत्कृतप्रत्ययवैलक्ष्यण्येनोत्पत्तेः। नापि क्रियानिर्वर्तितस्तत्प्रतिभाति / तज्ज्ञानवैलक्षण्येन संवेदनात्। तथा च सूत्रम् -"अपरं क्षिप्रमिति काललिङ्गानि'' इत्याकाशदेवास्यापि विभुत्वनित्यत्वैकत्वादयो धर्मा अवगतन्तव्याः / सम्म०२ काण्ड। (3) अथ खण्डनम् दिकालसाधनप्रयोगेष्वप्येते दोषाःसामान्येन साधने सिद्धसाध्यता, विशेषसाधने हेतोरन्ययाद्यसिद्धिरनुमानवाधितत्वं च प्रतिज्ञाया इति समानाः / तथाहि-पूर्वीपरोत्पन्नपदार्थविषयपूर्वापरशब्दसंकेतवशादुद्भूतसंस्कारनिबन्धनत्वात् कृतप्रत्ययस्य कारणमात्रे साध्ये कथं न सिद्धसाध्यता ? विशेषे च कथं नान्वयासिद्धिः? अनुमतिबाधा च प्रतिज्ञायाः पूर्ववद् भावनीया। अत एव नेतरेतराश्रयदोषोऽपि पूर्वपक्षोद्यतोऽपि विशिष्टपदार्थसंकेतप्रभवत्वे अस्य प्रत्ययस्य / किं च -निरंशैकदिक्कालाख्यपदार्थनिमित्तत्वं परादिप्रत्ययस्य प्रसादयितुमभ्युपगतम्। तचायुक्तम् / स्वकोट्यनुकारिप्रत्ययजनकस्य तद्विषयत्वात्। निरंशस्य पौर्वापर्यादिविभागाभावतस्तथाप्रत्ययोत्पादकत्वासंभवात्। तथाभूतप्रत्ययाद्विपरीतार्थसिद्धेरिष्टविपर्ययसाधनाविरुद्धश्चैवं हेतुः स्यात्। अथ बाह्याऽऽध्यात्मिकभावपौर्वापर्यनिबन्धनस्य दिक्कालयोः पौर्वापर्यव्यपदेशस्य भावाना हेतोविरुद्धता। नन्वेवं दिक्कालपरिकल्पना व्यर्थी, तत्साध्याभितमस्य कार्यस्य बाह्या-ध्यात्मिकैः संबन्धिभिरेव निर्वर्तितत्वात्। तथाहि-दिक् पूर्वापरादिव्यवस्थाहेतुरिष्यते, कालश्च पूर्वापरक्षणभवनिमेषकलामुहूर्त प्रहरदिवसाहोरात्रपक्षमासवयनसंवत्सरादिप्रत्ययप्रभवनिमित्तोऽभ्युपगतः / अयं च स्वरूपभेदः स्वात्मनि तयोः समस्तोऽप्यसंवीतसंबन्धिषु पुनविषु विद्यमानस्तत्र प्रत्ययहेतुरिति व्यर्था तत्प्रकल्पना।अथतत्संबन्धिष्वप्ययं भेदो अपरक्रियादिभेदनि-मित्तस्तर्हि तत्राप्येवमित्यनवस्था-प्रशक्तिः। अथ पदार्थेषु पूर्वापरभेदः कालनिमित्तः। ननु कालोऽप्यसौ न स्वत इति, परकालनिमित्तो यद्यभ्युपगम्यते तदाऽनवस्था। अथ पदार्थभेदनिमित्तः, तदेतरेतराश्रयप्रसङ्गः / अथ तत्र स्वतएवायं भेदः,पदार्थेष्वपिस्वतएवायं क्रिनाभ्युपगम्यते? ततश्च पुनरपि