________________ कारण 467 - अभिधानराजेन्द्रः - भाग 3 कारण र्थः, तन्तुलक्षणकारणा-श्रित्यतत्वात्। तथा चाह-ते तन्तुसंयोगा येन कारणेन तन्तुधाः , अतो निमित्त कारणं न भवति, तद्विलक्षणरूपत्वात् / भवन्तु तर्हि समवायिकारणम्, तन्तुबत्तेषामपि पटे समवेतत्वात्। नैवम्।यतस्तन्तुद्रव्यात्द्रव्यान्तरं पटः; तस्माच्च द्रव्यान्तरं तन्तवः; द्रव्याणि द्रव्यान्तरमारभन्ते, गुणाश्चगुणान्तरमिति सिद्धान्तादिति / ततः किम् ? इत्याह-द्रव्यान्तरधर्मस्य च यतोन द्रव्यान्तरे समवायः, शीतादीनामिव हुतभुजि, यस्मात्तन्तुधर्माणां तत्संयोगानां पटे द्रव्यान्तरे समवाये इष्यमाणे पटतन्तुलक्षणयोः कार्यकारणयोरेकता प्रप्नोति; इतरेतरगुणसमवायात् / ततश्च यथा पटधर्माः शुक्लादयः पटे समवेतत्वात्तदव्यतिरिक्ताः सन्तो न पटस्य कारणम्, एवं तन्तुसंयोगाअपि न तत्कारणं स्युः, एकत्वे कार्यकारणभावायोगादिति / तदेवं वैशेषिकाः कार्यकारणयोरेकत्वं कथमपि नेच्छन्ति॥२१०७।२१०८|| अचार्यस्तु जैनत्वात्स्यावादितया कारणात्कार्य भिन्नमभिन्नं च पश्यन्नाहजह तंतूणं धम्मा, संयोगा तह पडो वि सगुणा व्व। समवायाइत्तणओ, दय्वस्स गुणादओ चेवं // 2106 / / अभिहाणबुद्धिलक्खण-भिन्ना वि जहा सद थओऽणने। दिक्कालाइविसेसा, तह दवाओ गुणाईआ॥२११०।। उवयारमेत्तभिन्ना, ते चेव जहा तहा गुणाईआ। तह कजं कारण ओ, मिन्नममिन्नं च को दोसो ? / 2111 / / ननु यथा तन्तूनां धर्मा वर्तन्ते, के ? तत्संयोगादयः, तथा पटोऽपि तन्तूनां धर्म एव / यथा तेषामेव तन्तूनां स्वगुणाः शुक्लादयः तद्धर्मः / कुतः?समवायादित्वात् / इह यो यत्र समवेतः स तस्य धर्म एव, यथा तन्तूनां स्वगुणाः शुक्लादयस्तद्धाः , समवेतश्च तन्तुषु पटः / तस्मात्तद्धर्मः पटः। यथा चतन्तूनां धर्मः पटः, एवं द्रव्यस्य गुणादयोऽपि, गुणकर्मसामान्यविशेषसमवाया अपि धर्मा इत्यर्थः / यदि नाम तन्तूनां धर्मः पटः, द्रव्यस्य वा गुणादयो धर्माः, तथापि प्रस्तुते कारणात्कार्यस्य भेदाभेदे किमायातम् ? इत्याह-(अभिहाणेत्यादि) यथा दिक्कालात्मादयो विशेषा अभिधानबुद्धिलक्षणादि-भिभिन्ना अपि, संश्यासावर्थश्च सदर्थः, सत्ता-सामान्यमित्यर्थः / तस्मात्सत्त्वज्ञेयत्वप्रमेयत्वादिभिःरनन्ये अभिन्नाः। तथा तेनैव प्रकारेण द्रव्याद्गुणकर्मसयामान्यसमवायादयोऽनन्ये अभेदवन्तः। इदमुक्तं भवति-दिक्कालादीनामन्यदभिधानम्, अन्यच सामान्यस्य, अन्यादृशी दिगादिषु बुद्धिः, अन्यादृशी च सत्तासामान्ये; अन्यत् दिगादीना लक्षणं स्वरूपम्; अन्यादृशं च सत्तासामान्यस्य, इत्येवमभिधानादिवैलक्षण्याद्यथा भिन्ना अपि दिकालादयः सत्तासामान्यात्सत्त्वज्ञेयत्वादिभिरभिन्नाः; तथा द्रव्यादपि तन्त्वादिशुक्लगुणादयोऽभिधानादिभिर्भिन्ना अपि सत्त्वज्ञेयत्वादिभिरभिन्ना इति / यद्यभिन्नास्तर्हि भेदः कथमित्याह-(उवयारेत्यादि) ते चैव दिगादयो यथोपचारमात्रतः सत्तासामान्याद्भिन्नास्तथा गुणादयोऽपि द्रव्याद् भिन्नाः / इदमुक्तं भवति-यथा सत्तासामान्या-दभिन्नेष्वपि दिगादिष्वभिधानादिभेदागद उपचयैते, एवं द्रव्याद् गुणादीनामापि / तथाहि-प्रभातसमये मन्दमन्दप्रकाशे अविरलपत्रनिचिततरुशाखानिलीनवलाकायाः पत्रविवरण केनापि किञ्चिच्छुक्लमुपलभ्यत इत्येवं शुक्लत्वं निश्चियते, न तुबलाका। एतच गुणगुणिनोः कथञ्चिद्भेदमन्तरेण नोपपद्यते, एकान्ताभेदे गुणग्रहणे गुणिनोऽवश्यं ग्रहणप्रसङ्गात्। तस्माद् द्रव्याद्गुणादीनां कथञ्चिद्भेदः, कथञ्चित्त्वभेद इति। तथा तेनैवोक्तप्रकारेण कारणात्कार्यतभिधानादिभेदा भिन्नं, सत्त्वज्ञेयत्वादिभिस्त्वऽभिन्नं यदि स्यात्तर्हि को दोषः? येन वैशेषिकादयो भेदे एव कार्यकारणभावमिच्छन्तीति?२१११॥ अथषड्विधं व्यतिरिक्तकारणं व्याचिख्यासुराहकारणमहवा छद्धा, तत्थ सतंतो त्ति कारणं कत्ता। कजस्स साहगतमं, करणम्मि उपिंड-दंडाई॥२११२।। कम्म किरिया कारण-मिह निचिट्ठो जओ न साहेइ। अहवा कम्मं कुंभो, स कारणं बुद्धिहेउ त्ति // 2113|| भव्वो त्ति व जोगो त्ति व, सक्को त्ति व सो सरूवलाभस्स। कारणसन्निज्झम्मि वि, जन्नागा सत्थमारंभो // 2114|| वज्झनिमित्तावेक्खं, कजं वि य कज्जमाणकालम्मि। होइ सकारणमिहरा, विवजया भावया होज्जा // 2115 / / देओ स जरूय तं सं-पयाणमिह तं पि कारणं तस्स। होइ तदत्थित्ताओ, न कीरए तं विणा जं सो॥२११६|| भूपिंडावायाओ, पिंडो वा सक्करादवायाओ। चक्कमहावाओ वा-ऽऽपादाणं कारणं तं पि।।२११७।। वसुहाऽऽगासं चक्क, सरूवमिचाइ सन्निहाणं जं। . कुंभस्स तं पि कारण-मभावओ तस्स जदसिद्धी॥२११५|| समापि प्रायो व्याख्यातार्थाः, नवरं क्रियते का निर्वर्त्यते इति व्युत्पत्तेः कर्म भण्यते / काऽसौ क्रिया कुम्भं प्रति ? कर्तृव्यापाररूपा / सा च कुम्भलक्षणकार्यस्य कारणमिति प्रतीतमेव / आहननु कुलाल एव कुम्भ कुर्वन्नुपलभ्यते, क्रिया तु न काचिद् कुम्भकरणे व्याप्रियमाणा दृश्यत इत्याह-इह निश्चेष्टः कुलालोऽपि यस्मान्न घटं साधयति निष्पादयति, या च तस्य चेष्टा सा क्रिया; इति कथं न तस्याः कुम्भकारणत्वमिति ? अथवा-कर्तुरीप्सिततमत्वात्क्रियमाणः कुम्भ एव कर्म, तर्हि कार्यमेवेदम्, अतः कथमस्य कारणत्वम् ? न हि सुतीक्ष्णमपि सूच्यग्रमात्मानमेय विध्यति / ततः कार्य निर्वय॑स्यात्मन एव कारणमित्यनुपपन्नतेव, इत्याह-(सकारणं बुद्धि हेउ त्ति) सकुम्भः कारणं हेतुः कुम्भस्य। कुतः ? प्रस्तावात्कुम्भबुद्धिहेतुत्वात्। इदमुक्तं भवति-सर्वोऽपि बुद्धौ संकल्पस्य कुम्भादिकार्य करोतीति व्यहारः, ततो बुद्ध्याऽध्यवसितस्य कुम्भस्य चिकीर्षितो मृण्मयकुम्भस्तद्बुद्ध्यालम्बनतया कारणं भवत्येव / न च वक्तव्यम्-अष्पन्नत्वादसन्नसौ तदुद्धरपि कथमालम्बनं स्यादिति ? द्रव्यरूपतया तस्स सर्वदा यत्त्वादिति / ननु य एवेह मृण्मयकार्यरूपो घटस्तयैव कारणत्वं चिन्त्यत इति प्रस्तुतम्, बुद्धया ध्यवसितस्तु तस्मादन्य एव, इति तत्कारणत्वाभिधानमप्रस्तुतमेव। सत्यम् ? भाविनि भूतवदुपचारन्यायेन तयोरेकत्वाऽध्यवसानाददोषः / स्थासकोशादिकारणकालेऽपि हि किं करोषीति पृष्टः कुम्भकारः, कुम्भं करोमीत्येतदेव वदति, बुद्ध्यध्यवसितेन निष्पत्स्यमानस्यैकत्वाध्यवसायादिति। अथ वाभव्यो योग्यः स्वरूपलाभस्येति शक्य उत्पादयितुम् अतः सुकरत्वात्कार्यमप्यात्मनः कारणमिष्यते। अवश्यं च कर्मणः कारणत्वमेष्टव्यम् यद् यस्मात्समस्तकारणसामग्रीसन्निधानेऽपि नैवमेवाकाशार्थ प्रारम्भः, किं तु विवक्षितकार्यार्थम्, अतस्तदविनाभावित्यात्तक्रियायाः कार्यमयात्मनः