________________ कारण कारण 466 - अभिधानराजेन्द्रः - भाग 3 तदभावे तन्निपत्त्ययोगादिति। (अवयाण ति) 'दो अवखण्डने' दानं खण्डनम्, अपसृत्य आमर्यादया दानं खण्डनं नियोजनं मृत्पिण्डादेर्यस्मात् तद् मृत्पिण्डापायेऽपि ध्रुवत्वाद्धूमिलक्षणम पादानम् / तदपि कार्यस्य घटस्य कारणम् तदनन्तरेणाऽपि तस्यानुत्पत्तेः / तथा-- सन्निधीयते स्थाप्यते कार्यं यत्र तत्संनिधानमाधारः , अधिकरणमित्यर्थः / तदपि कार्यस्य घटस्य कारणम्, आधारतया तस्यापि तत्रोपयोगात्। तच घटस्य चक्रम्, तस्यापि भूमिः तस्याप्याकाशमिति नियुक्तिगाथाद्वयार्थः।।२०६६॥ अथैतद्व्याचिख्यासुर्भाष्यकारः प्राहतद्दय्वकारणं तं तवो पडस्सेह जेण तम्मयया। विवरीयमनकारण मिटुं वेमादओ तस्स // 2100 / / यदात्मक कार्य दृश्यते तदिह तव्यकारणम् - तस्य कार्यद्रव्यस्य सजातीयत्वेन संबन्धि कारणं तव्यकारणमित्यर्थः / यथा पटस्य तन्तवः; येन तत्मयता तत्त्वात्मकता पटत्या उक्तविपरीतंतु यत्तदात्मकं कार्य न भवति तदन्यद् द्रन्यकारणमिष्टम्, यथातस्यैव पटस्य वेमादय इति / 2100 / अत्र परः-प्रेरयन्नाहजइ तं तस्सेव मयं , हेऊ नणु कञ्जकारणेगत्तं / न यतं जुत्तं ताई,जओऽभिहाणाइ भिन्नाई // 2101 / / ननु यदि तत् तस्यैव पटस्य संबन्धि तन्तुद्रव्यं तस्यैव च पटस्य हेतुः कारणं मतं संमतम्, तन्ननु कार्यकारणयोरेकत्वं प्राप्नोति / ततश्च न तन्तुपटयोः कार्यकारणभावः, एकत्वात्पटस्वरूपवदिति परस्याभिप्रायः। न च तत्कार्यकारणयोरेत्वं युक्तम्, यतस्ते कार्यकारणे अभिधानादिना भिन्ने वर्तते; आदिशब्दात्संख्यालक्षणकार्यपरिग्रहः / तथाहि-पटः; तन्तव इत्यभिधानभेदः / एकः पटः, बहवस्तन्तव इति संख्याभेदः। लक्ष्यतेऽनेनेति लक्षणं स्वरूपम्; तचान्यादृशं पटस्य, अन्यदृशं च तन्तूनामिति लक्षणभेदेः / शीतत्राणादिकार्यः पटः, बन्धनादिकार्यश्च तन्तव इति कार्यभेदः / ततश्च भिन्ने पटतन्तुलक्षणे कार्यकारणे, अभिधानादिभेदाद, घटपटादिवदिति। तथा- चइति सति भवदभिप्रायेण यत्तयोरेकत्वामापतति, तदयुक्तमेवेति // 2101 / / अन्नोत्तरमाहतुल्लोयमुवालंभो, भेए विन तंतवो घडस्सेव / कारणमेगंते विय, जओभिहाणादओ मिन्ना।२१०२।। यस्तन्तु पटयोरभेदपक्षे कार्यकारणभावाभावप्रसङ्गलक्षण उपालम्भस्तव चेतसि वर्तते, स भेदेऽपि भेदपक्षेऽपि तुल्यः समान एव वर्तते / तथाहि न तन्तवः पटस्य कारणं, भिन्नत्वाद्र्घटस्येवेति / किं च एत एकत्वेऽपि वस्तूनामभिधानादयो भिन्ना दृश्यन्त एव:ततोऽनैकान्तिको हेतुरिति शेषः / तथाहि घटस्य रूपादीनां चैकत्वं लोके प्रतीतम्, अथवाऽभिधानादयो भिन्ना एव। तद्यथा घटः, रूपादय इत्यभिधानभेदः / एको घटः, बहवो रूपादय इति संख्याभेदः / पृथुबुध्नोदराधाकारलक्षणो घटः, रक्तत्यादिलक्षणा रूपादय इति लक्षणभेदः। जलाहरणादिक्रियाकारको घटः, रङ्गाधानादिहेतवश्च रूपादय इति कार्यभेदः / ततोऽभिधानादि भेदाढ़ेद इत्येनैकान्तिको हेतुः, यत एतदपि शक्यते वक्तुम् अभिन्ने पटतन्त्वादिलक्षणे, कार्यकारणे अभिधानादिभेदाद्, घटरूपादिवदिति // 2102 / / आह-यद्येकत्ववनेदेऽपि कार्यकारणयोस्तुल्य उपालम्भः, तर्हि कथं नाम लोकप्रसिद्धस्तन्तुपटादीनां कार्यकारणभावः सिद्धयति ? इति भवन्त ण्व कथयन्त्तित्याहजं कजकारणाई, पजाया वत्थुणो जओ ते य। अन्नेऽणन्ने मया, तो कारणकजभयणेयं // 2103 / / यद्यस्माद् घटमृत्पिण्डादिलक्षणे कार्यकारणे वस्तुनः पृथिव्यादेः पर्यायौ वर्तेते, तौ च घटमृत्पिण्डलक्षणौ पृथ्वीपर्याया परस्परं यतो यस्मादन्या-वनन्यौ चमतौ। तत्र संख्यासंज्ञालक्षणादिभेदादन्यत्वं, मृदादिरूपतया सत्त्वप्रमेयत्वादिभिश्चानन्यत्वम् / तस्मात्कारणयोरियमन्यानन्यत्वलक्षणा भजना द्रष्टव्या। ततश्च कथञ्चित्तयोः परस्परं भेदे, कथाञ्चित्त्वभेदे कार्यकारणभाव इति-भावार्थः॥२१०३।। एतदेवाहनत्थि पुढवीविसिट्ठो, घडो त्ति जं तेण जुज्जइ अणन्नो। जं पुणबडो ति पुग्वं, नआतिपुदवी तओ अन्नो // 21 // पृथिव्या मृत्तिकाया विशिष्टो व्यतिरिक्तो तन्मयो घटो नास्ति न दृश्यते यद्यस्मात्, तेन तस्माधुज्यते अनन्यो मृत्तिकातोऽभिन्नः। यत् पुनर्घट इति व्यक्तेन रूपेण पूर्व घटनिष्पत्तेः प्राग् नासीन्नानाभूत्किं तु पृथिवि मृत्तिकैवासीत्, अन्यथा सर्वथैकत्वे पृथिवीकालेऽपि घटो दृश्येतेति भावः / ततस्तस्मात् ज्ञायते पृथिवीतोऽयो घट इति / एवं यथा मृघटयोरन्यानन्यत्यमेव, एवं सर्वत्र कार्यकारणयोस्तद्भावनीयमिति // 2104 // "अहवा विनिमित्तनेमित्ती" इत्येत व्याचिख्यासुराहजह तेतवो निमित्तं, पडस्स वेमादओ तहा तेसिं। जं चेट्ठाइ निमित्तं, तो ते पडयस्स नेमित्तं / / 2105 / / यथा तन्तवः पटस्य निमित्तं कारणं, तथा तेनैव प्रकारेण यस्मात्तेषां तन्तुनामातानवितानादि चेष्टाा निमित्तं वेमादयस्ततस्ते निमित्तस्येद नैमित्तिकं कारणं पटस्य भवतीति // 2105 / / समवायी असमवायीत्येतद्विवरणायाऽऽहसमवाइकारणं तं-तओ पडे जेण ते समवयंति / न समेइ जओ कज्जे, वेमाइ तओ असमवाई // 2106 / / समवायिकारणं तन्तयः पटस्य, येन ते समवयन्ति पटे, येन पटस्तेषु समवेतः समुत्पद्यते इतीह तात्पर्यम् / इह तन्तुषु पट इत्येव वैशेषिकैरभ्युपगमात्। वेमादिपुनः पटाख्ये कार्येनसमवैति न संश्लिष्यते ततोऽसमवायि कारणं तदिति 2106|| ___ वैशेषिकसिद्धान्तेऽपि मतभेदमुपदर्शयन्नाहवेमादओ निमित्तं, संजोगा असमवाइ केसिं चि। ते जेण तंतुधम्मा, पडो य दव्वंतरं जेण / / 2107 / / दव्वंतरधम्मस्स य, न जओ दव्वंतरम्मि समवाओं। समवायम्मि य पावइ, कारणकजे गया जम्हा // 2108|| इह केषां चिद्वैशेषिकविशेषाणां मतेन वेमादयः, आदिशब्दासजातीयाऽतजातीयतुरीदिक्कालादयश्च पट स्य निमित्त निमित्तकारणम्, न त्यसमवायिकारणम्, तन्तुसंयोगमात्रनिमित्तत्वेन तन्तुलक्षणकारणद्रव्यानाश्रितत्वात्तेषामित्यभिप्रायः / के पुनस्त समवायिकारणमित्याह-संयोगास्तन्तुगुणास्तन्तुधर्मा इत्य