________________ कार 465 - अभिधानराजेन्द्रः - भाग 3 कारण व्यवहर्त्तव्यः / व्य०३ उ०। "वणीत्कारः" इतिवर्णवाचकात्कारप्रत्ययः / "सायंकारेति'सायमिति निपातः सत्यार्थः, तस्माद्वर्णात्कार इत्येनन छान्दसत्वात्कारप्रत्ययः, करणं वा कारः, ततः सायंकार इति।। स्था०१०ठा कारकंडो (देशी)परुष, दे० ना०२ वर्ग। कारंडव पुं०स्त्री०(कारण्डव) रम्डः डस्य नेत्वम्, रण्डः। ईषत् ण्डः, कारण्डः तं वाति, करण्डस्येदं करण्डतदाकारं वातिवा। हंसभेदे, वाच०। ज्ञा०। औ०। जी। कारग त्रि०(कारक) कृ-प्रवुल्। अनुष्ठातरि, उत्त०१ अ०) अस्य निक्षेपःषोढादवे खित्ते काले, भावेण उ कारओ जीवो।।४।। सूत्र०नि० नामस्थापनाद्रव्यक्षेत्रकालभावभेदात षोढा निक्षेपः, तत्र नामस्थापने प्रसिद्धत्वादनादृत्य द्रव्यादिकं दर्शयति-(दव्वे इति) द्रव्यविषये कारकश्चिन्त्यः। स च द्रव्यस्य द्रव्येण द्रव्यभूतोवाकारको द्रव्यकारकः / तथा-क्षेत्रे भरतादौ यः कारको यस्मिन् वा क्षेत्रे कारको व्याख्यायते स क्षेत्रकारकः। एवं कालेऽपि योज्यम्। भावेन तुभावद्वारेण चिन्त्यमानोऽत्र कारको यस्मात्सूत्रस्य गणधरः कारकः / एतच सूत्रकृदेवोत्तरत्र वक्ष्यति 'ठिइअणुभावे त्यादौ' / / 4 / / सूत्र०१ श्रु०१ अ०१ उ० करोति कर्तृत्वादव्यपदेशान्, कृ ण्वुल, कर्तृत्वादिसंज्ञाप्रयोजके कर्मणि, क्रियायां, 'कारके' पाणिनिसूत्रम्, कर्तृत्वादिव्यपदेशकारिण्या क्रियायामित्यर्थः। करोति क्रियां निष्पादयति, कृण्वुल्। क्रियानिष्पादकेषु कर्तृकर्मादिषु कारकसंज्ञान्वितेषु, तेषां च क्रियायामेवान्वयः। कारकत्वं नामक्रियाजनकशक्तिमत्त्वम्, करोति क्रियां निर्वर्तयतीति महाभाष्ये व्युत्पादनात्, साधकं क्रियानिष्पादकं भवतीति वार्तिकोक्तेश्च। द्रव्यस्य तथात्वाभावेऽपि शक्यत्याऽऽविष्टस्यैव तस्य तथात्वम् / ततश्चान्वयव्यतिरेकसत्त्वाच्छक्तिरेव कारकमिति मतान्तरम् / तदुक्तं हरिणा''स्वाश्रये समवेतानां, तद्वदेवाश्रयान्तरे / क्रियाणामभिनिष्पत्ती, सामर्थ्य साधनं विदुरिति शक्तिशक्तिमतोरभेदाद्रव्यं कारकमिति व्यवहार इति। वाचतानि च कर्तृकर्मकरणसंप्रदानापादानाधिकारणरूपाणि षट् / "आत्मन्येवात्मनः कुर्यात्, यः षट् कारकसङ्गतिम् / क्वाविवेकज्वरस्यास्य, वैषम्यंजडमज्जनात्?"||१|| विशे०।अष्टा (एषां परस्परं स्याद्वादमुद्रया संवेधः 'सामाइय' शब्दे वक्ष्यते) "गर्जति शरदि नवर्षति, वर्षासुचनिःस्वनो मेघः। नीचो वदतिनकुरुते, न वदति साधुः करोत्येव''||१|| कल्प०५ क्षण। "कारणं ति वा कारगं ति वा साहारणं ति वा एगट्ठा"। आ०चू०१ अ० तुमर्थे ण्वुल् कर्तुमित्यर्थे, तद्योगे कर्मणि न षष्ठी, अतो घटं कारको व्रजत्येवं प्रयोगः। करकाया इदं तत्र भवं वा अण् / करकासम्बन्धिनि तन्निष्यन्दिजले, न० / अप्सु, स्त्री०। ङीष् / वाच०।कारयति सदनुष्ठानमिति कारकम् / विशे०। सूत्राज्ञाशुद्धायां क्रियायाम, तस्या एव परगतसम्यक्त्वोत्पादकत्वेन सम्यक्त्वरूपत्वात्। तदवच्छिन्ने वा सम्यक्त्वभेदे, ध०२ अधि०। यस्मिन् सम्यक्त्वे सति सदनृष्ठानं श्रद्धत्ते सम्यक् करोति च / विशे०। एतच्च साधूनां विशुद्धचारित्रिणामेव। ध०२ अधि० श्रा०। दर्श०। कारगसुत्त न०(कारकसूत्र) विस्तरेणाधिकृतार्थप्रसिद्धिकारके सूत्रभेदे, बृ०१ उ०। ('सुत्त' शब्देस्य विवृतिः) कारण न०(कारण) कारयति क्रियानिर्वर्तनाय प्रवर्तनाय प्रवर्तयति कृ णिच् / ल्ट्। क्रियानिष्पादके, वाचा हेतौ, हेतुर्निमित्तं कारणमित्यनर्थान्तरम् / विशे०। आ०म० "अत्थो ति वा हेउ त्ति वा कारण ति वा एगट्ठा"। निन०चू२० उ०। आ०चू। संथा०॥ निक्षेपःनिक्खेवो कारणम्मी, चउव्विहो दुविहु होइ दव्वम्मि। तद्दव्वमन्नदव्वे, अहवा वि निमित्तनेमित्ती // 2068|| समवाइ असमवाई,छविह कत्ता य करण कम्मं च / तत्तो य संपयाणा-पयाण तह संनिहाणे य॥२०६६|| इह करोति कार्यमिति कारणम्, तस्य नामस्थापना द्रव्यभावभेदाचतुर्विधो निक्षेपो न्यासः / तत्र नामस्थापने सुज्ञाने। द्रव्यकारण तु ज्ञशरीरभव्यशरीरव्यतिरिक्तमाह-(दुविहु इत्यादि) व्यतिरिक्तद्रव्यकारणविषयो निक्षेपो द्विविधः / कथम् ?तद्दव्वमन्नदव्ये त्ति) तव्यकारणम्, अन्यद्रव्यकारणं चेत्यर्थः। तस्यैव जघन्यस्य पटादेः सजातीयत्वेन संबन्धि द्रव्यं तन्त्वादि तद्दव्यम् तच तत्कारणं च तव्यकारणम् तथा यत्तद्विपरीतंतदन्यद्रव्यकारणं जन्यपटादिविजातीयं वेमादीत्यर्थः / तद्दव्यकारणत्वे कार्यकारणयोरेकत्वमिति प्रेर्यस्य परिहारं वक्ष्यति भाष्यकारः / अथ वा अन्यथाव्यतिरिक्तकारणस्यैव द्वैविध्यम्-निमित्तकारणं, नैमितिककारणं चेति / तत्र कार्यात्मन आसन्नभावेन जनकं निमित्तम्ख्यथा पटस्यैव तन्तवः, तद्व्यतिरेकेण पटस्यानुत्पत्तेः। तच तत्कारणंच निमित्तकारणम्,यथा चतन्तुभिर्विना पटो न भवति तथा तद्गताऽऽतान-वितानादिचेष्टाव्यतिरेकेणापि न भवत्येव / तस्याश्च तच्चेष्टाया वेमादि कारणम्, अतो निमित्तस्येदं नैमित्तिक मिति 2068 / / अथवा-अन्यथाव्यतिरिक्तकारणस्य द्वैविध्यमित्याह-(समवायीत्यादि) 'सम्' एकीभावे, अवशब्ददोऽपृथक्त्वे, अय गतौ, इण् गतौ वा / ततश्चैकी भावेनापृथगमनं समवायः संश्लेषः, स विद्यते योषां ते समवायिनस्तन्तवः, यस्मात्तेषु पट: समवैतीति, समवायिनश्च ते कारणं च समवायिकारणम् / तन्तुसंयोगास्तु कारणरूपद्रव्यान्तरधर्मत्वेन पटाख्यकार्यद्रव्यान्तरस्य दूरवर्तित्वादसमवायिनः, त एव कारणमसमवायिकारणम्। आह-ननु तद्दव्यादिप्रकारत्रयेऽपि यथोक्तन्यायेनार्थस्याभेद एव, इति कि भेदेनोपन्यासः? सत्यम् किंतुतन्त्रान्तरीभ्यु-पगतसंज्ञानन्तरप्रदर्शनपरत्वाददोषः / अथवा व्यक्तिरिक्तं द्रव्यकारणम् (छटिवह त्ति) अनुस्वारस्य लुप्तस्य दर्शनात् षडिविंधं षट् प्रकारम् कथम् ? कर्ता कुलाललक्षण-स्तावत्कार्यस्य घटादेः कारणम्, तस्य तत्र स्वातन्त्र्येण व्यापारात् / तथा करणं च मृत्पिण्डदण्डसूत्रादिकं घटस्य करणं, साधकतमत्वात् / तथा क्रियते निर्वयते यत्तत्कर्म घटलक्षणं तदपि कारणम् / आह-ननु कथमात्मैवात्मनः कारणम्, अलब्धात्मलाभस्य तस्य कारण-त्यानुपपतेः? सत्यम्, कुलालादिकारणव्यापृतिक्रियाविषयत्यादुपचारतस्तस्य कारणत्वम् / उक्तं च-"निर्वयं वा विकार्य वा, प्राप्तं वा यत् क्रिया फलम् / तद् दृष्टादृष्टसंस्कारं कर्म कर्तुर्यदीप्सितम्||१|| तदेवं क्रियाफलत्वेन कार्यस्यापि कारणत्वम्, अन्यथा कुलालादिक्रियावैयर्थ्यप्रसंगादिति / मुख्यवृत्या वाऽसौ कार्यगुणेन कारणत्वम्। तथा सम्यक् सतकृत्य वा प्रयत्नेन दानं यस्मै तत्संप्रदानम्-- घटग्राहक-देवादत्तादिातदपिघटस्य कारणम्, तदुद्देशेनैवघरटस्यनिष्पत्तेः,