________________ कायट्ठि 456 - अभिधानराजेन्द्रः - भाग 3 कायट्ठि नम्, ततद्यर्द्ध तुसम्यक्त्वप्रतिपत्याऽवविज्ञानभसवतः सर्वथाऽपगमाद्वा तद्विभङ्गज्ञानमुपगच्छति। गतं ज्ञानद्वारम्। (15) इदानीं दर्शनद्वारम् तत्रेदमादिसूत्रम्चक्खुदंसणी णं भंते ! पुच्छा ?| गोयमा ! जहन्नेणं अंतोमुहुत्तं उकोसेणं सागरोवमसहस्सं सातिरेगं। अचक्खुदंसणी णं भंते ! पुच्छा ? गोयमा ! अचक्खुदंसणी दुविहे पण्णत्ते / तं जहाअणादिए वा अपज्जवसिए, अणादिएवासपज्जवसिए। ओहिदसणी णं ! पुच्छा ? गोयमा ! जहन्नेणं इकं समयं, उक्कोसेणं दो छावट्ठीसागरोवमाणं सातिरेमाणं / केवलदसणी णं! पुच्छा? गोयमा! सादिए अपज्जवसिए। इह यदा त्रीन्द्रियादिश्चतुरिन्द्रियादिषूत्पद्य तत्र चान्तर्मुहूर्तं स्थित्वा भूयोऽपि त्रीन्द्रियादिषू मध्ये उत्पद्यते, तदा चक्षुर्दर्शनी अन्तर्मुहूर्त लभ्यते उत्कर्षतः सातिरेक सागरोपमसहसलं, तच्चतुरिन्द्रियतिर्यक्पञ्चेन्द्रियनैरयिकादिभवभ्रमणेनावसातव्यम् / अचक्षुर्दर्शनी अनाद्यपर्यवसितः यो कदाचिदपि न सिद्धिभावमधिगमिष्यति, यस्त्वधिगन्ता सोऽनादिसपर्यवसितः। तथा-तिर्यक्पश्चेन्द्रियो मनुष्यो वा तथाविधाध्यवसायावधिनाऽवधिदर्शनमुत्पाद्यान्तरसमये यदि कालं करोति तदाऽवधिदर्शनं प्रतिपतति, तदाऽवधिदर्शनिनएकसमयता, उत्कर्षतोऽवधिदर्शनी द्विषट्पटिसागरोपमाणीति सातरिकेः / कथमितिचेत? उच्यते-इह कश्चिद्विभङ्गज्ञानी तियक्पञ्चेन्द्रियो मनुष्यो वा अप्रतिपतितविभङ्गज्ञान एवाविग्रहगत्याऽधःसप्तमनरकपृथिव्यां त्रयस्त्रिंशत्सागरोपमस्थिति रयिको जातः, तत्र चोद्वर्त्तनाप्रत्यासत्तिकाले सत्यक्त्वमुत्पाद्य ततः परिभ्रष्टः, ततोऽप्रतिपतितेन विभङ्ग ज्ञानेन पूर्वकोट्यायुष्केषु तिर्यक्पञ्चेन्द्रियेषु समुत्पन्नः, तत्र च परिपूर्ण स्वायुः प्रतिपाल्य पुनरप्रतिपतितविभङ्ग एवाधःसप्तमपृथिव्यां त्रमस्त्रिंशत्सागरोपयस्थितिको नैरयिको जातः तत्रापि चोवृत्त्य प्रत्यासत्तौ सम्यक्त्वमासाद्य परित्यजति, ततोभूयोऽप्यप्रतिपतितविभङ्ग एव पूर्वकोट्यायुष्केषु तिर्यक्पञ्चेन्द्रियेषु जाजः, तदेवमेकषट्पटिसागरोपमाणामभूत, सर्वत्र च तिर्यसूत्पद्यमानो विग्रहेणोत्पद्यते, विग्रहे विभङ्गस्य तिर्यक्षु मनुष्येषु च निषेधात् / यद्वक्ष्यति-"विभंनाणी पंचेंदियतिरिक्खजोणिया मणूसा आहारगा इति / आह-किं सम्यक्त्यमेषोऽपान्तराले प्रतिपद्यते ? उच्यते-इह विभङ्गस्य उम्कर्षतोऽपि त्रयस्त्रिंशत्सागरोपमाणि देशोनपूर्वकोष्ट्याधिकानि। तथाचोक्तं प्राक्-" विभंगनाणी जहन्नेणं एक समयं, उक्कोसेणं तेत्तीसंसागरोवमाइंदेसूणाईपुव्वकोडिओअब्भहियाई" इति। तत एतावन्तं कालमविच्छेदेन विभङ्गस्याप्रमाणत्वात् अपान्तराले सम्यक्त्वं प्रतिपद्यते। ततोऽप्रतिपतितविभङ्ग एवं मनुष्यत्वमवाप्य संयम पालयित्वा द्वौ वारौ विजयादिषूत्पद्यमानस्य द्वितीया षट् षष्टिः सागरोपमाणां सम्यग्दृष्टर्भवति / एवं द्वे षट्षष्टिसागरोपमाणामवधिदर्शनस्य / अथ विभङ्गावस्थायाममवधिदर्शनं कर्मप्रकृत्यादिषु प्रतिषिद्धं, ततः कथमिह विभङ्गे तद्भाव्यते ? नैष दोषः / सूत्रे विभङ्गेऽप्यवधिदर्शनस्य प्रतिपादितत्वात् / तथा ह्ययं सूत्राभिप्रायःविशेषविषयं विभङ्गज्ञान, सामान्यविषयमवधिदर्शनम् / तथाहि सम्यग्दृष्टविशेषविषयमवधिज्ञानं सामान्यविषयमवधिदर्शनमुच्यते, केवलं विभड्ग ज्ञानिनोऽप्यवधिदर्शनमनाकारमात्रत्वेनाविशिष्टत्वादवधिज्ञा- निनोऽवधिदर्शनं तुल्यमिति, तदप्यवधिदर्शनमुच्यते, न विभङ्गदर्शनमिति / आह मूलटीकाकारोऽप्येतद्भावनायाम्-'"दंसणं च विभंगो हीणजाता तुल्लमेव अतो चेव छावट्ठीओ साइरेगाओ" इति / ततोऽस्माभिरपि विभङ्गेऽवधिदर्शनं भावितम्। कार्मग्रन्थिकाः पुनराहुःयद्यपि साकारेतरविशेषभावेन विभङ्गज्ञानमवधिदर्शनं च पृथगरित, तथाऽपि न सम्यग् निश्चयो, विभङ्गज्ञानेन मिथ्यारूपत्यात्; नाप्यवधिदर्शनेन, तस्यानाकारमात्रत्वाद्, अतः किं तेन पृथग् विवक्षितेनापीति, तदभिप्रायेण न विभङ्गावस्थयामवधिदर्शनेन / नचैतत्स्वमनीषिकाकल्तिम्, पूर्वसूरिभिरप्येवं मतविभागस्य व्यवस्थापितत्वात् / उक्तंचि विशेषवत्यां जिनभद्रगणिक्षमाश्रमणपूज्यपादैः "सुत्तं विभंगस्स वि, परूवियं ओहिदंसणं बहुसो। कीस पुणो पडिसिद्ध कम्मपगडीण पगरणम्मि?|१|| विभंगे वि दरिसणं, सामनविसेसविसयओ सुत्ते। तं च विसिट्ठमणगा-रमेत्ततो वि हि विभंगाणं / / 2 / / कम्मपगडिमयं पुण, सागारेयरविसेसभावं वि। न विभंगनाणदंसण-विसेसणमणित्थियत्तणओ''||३|| इति। अन्ये तुव्याक्षते किं सप्तमनरकपृथिवीनिवासिनो नारककल्पनया सामान्येनैव नारकतिर्यड्नरामरभवेषु पर्यटन्तः खल्ववधिविभङ्गा एतावन्तं कालं तत भ्रमन्ति, ऊर्द्धमपवर्ग इति / केवलदर्शनसूत्रं केवलज्ञानिनः सूत्रवद्भावनीयम्। गतं दर्शनद्वारम्। (16) इदानीं सुयमद्वारम्संजय णं भंते ! पुच्छा ? गोयमा ! जहन्नेणं एक समयं, उकोसेणं देसूणं पुय्वकोडिं ? असंजए णं मंते ! पुच्छा ? गोयमा! असंजए तिविहे पण्णत्ते / तं जहा-अणादिए वा अपज्जवसिए,अणादिए वा सपज्जवसिए, सादिए वासपज्जवसिए। तत्थ णं जे से सादिए सपज्जवसिए से जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं अणंतं कालं, अणंताओ ओसप्पिणिउस्सप्पिणीओ कालओ, खेत्तओ अवळ पोग्गलपरियट्टे देसूणं / संजयासंजए णं ! पुच्छा? गोयमा ! जहन्नेणं अंतामुहुत्तं, उक्कोसेणं देसूर्ण पुवकोडिं णे संजए णो असंजएणो संजयासंजए णं! पुच्छा? गोयमा ! सादिए अपज्जवासिए।। जघन्यत एकसमयता संयतस्य, चारित्रपरिणाम समय एव कस्यापि कालकरणात्। असंयतस्तुविधा-अनाद्यपर्यवसितोऽनादि-सपर्यविितः, सादिसपर्यवसितश्च / तत्र यः संयम कदाचनापि न प्राप्स्यति सोऽनाद्यपर्यवसितः, यस्तु प्राप्स्यति सोऽनादिपर्यवसितः, यस्तु संयम प्राप्य ततः परिभ्रष्टः स सादिसपर्यवसितः। सचजघन्येनान्तर्मुहूर्त, ततः परं कस्यापि पुनरपि संयमप्रतिपत्तिभावात् / उत्कर्षतोऽनन्तकालमित्यादि प्राग्वत् / तत ऊर्द्धवममवश्यं संयमप्राप्तिः / संयतासंयतदेशविरतः, सच जघन्यतोऽप्यन्तर्मुहूर्त, देशविरतिप्रति-प्रत्युपयोगस्य जघन्यतोऽप्यन्तमौहुर्तिकत्वात्। देशविरतिस्तर्हि द्विविधत्रिविधादिभङ्गबहुला ततस्तप्रतिपत्तौ जघन्येनाप्यन्तर्मुहूर्त लगति, सर्वविरतिस्तु सर्वसावधमहं न करो मीत्येवंरूपा, ततस्तत्प्रतिपत्त्योपयोग एकसामायिकोऽपि भवतीति प्राक् सं यतस्य एकसमयतोक्ता / यस्तु न संयतो, नसप्यसंयतो, नो संयतासंयतः, स सिद्ध इति साद्यपर्य