________________ कायट्ठि 458 - अभिधानराजेन्द्रः - भाग 3 कायट्ठि उक्तञ्च-"सूत्रोक्तस्यैस्याप्यरोचनादक्षरस्य भवति नरो मिथ्यादृष्टिः। सूत्रं हि न प्रमाणं जिनाभिहितं किं पुनः शेष भगवदर्हदभिहितम् / तथा च जीवजीवादिवस्तुतत्त्वप्रतिपत्तिविकलो मिथ्यादृष्टिः / ननु सकलप्रवचनमाभिरोचनात्तद्गतकतिपयार्थानां चारोचनादेष न्यायतः सम्यग्मिथ्यादृष्टिरेव भवितुमर्हति, कथं मिथ्यादृष्टिीव भवितुमर्हति ? उच्यतेसदसवस्तु तत्त्वापरिज्ञानात्। इह यदा सकलवस्तुवस्तुजिनप्रणीततया सम्यक् श्रद्धत्ते तदानीमसौ सम्यग्दृष्टिः; यदात्वेकस्मिन्नपि वस्तुनि पर्याय वा मतिदौर्बल्यादिना एकान्तेन सम्यक्परिज्ञानमिथ्या-परिज्ञानाभावतो न सम्यक् श्रद्धानं, नाप्येकान्ततो विप्रतिपत्तिः, तदा सम्यग्मिथ्यादृष्टिः। उक्तञ्च शतकबृहचूर्णी -"जहा नालिकेरीदीववासिस्स खुहाइयस्स विपत्थसमागयस्स पुरिसस्स य ओयणाइए अणेगविहे होइ एतस्स आहारस्स उवरिं न रुई न निंदा जेण तेण सो ओयणाइओ आहारो न कयाइ दिह्रो नावि सुओ, एवं सम्मामिच्छद्दिहिस्स वि जीवाइपयत्थाण उवरि नय रुई नावि निंद त्ति" ।यदा पुनरेकस्मिन्नपि वस्तुनि पर्याय वा एकान्ततो विप्रतिपद्यते तदा मिथ्यादृष्टिरेवेत्यदोषः / स च त्रिविधः तद्यथा-अनाद्यपर्यवसितोऽनादिसपर्यवसितः, सादिसपर्यवसितश्च। तत्र यः कदाचनापि सम्यक्त्वं नावाप्स्यति सोऽनाद्यपर्यवसितः, यस्तु सम्यक्त्वमासाद्य भूयोऽपि मिथ्यात्वं याति ससादिसपर्यवसितः। सच जघन्येनान्तर्मुहूर्त , तदनन्तरं कस्यापि भूयः सम्यक्त्वावाप्तिः / उत्कर्षतोऽनन्तं कालम् / तमेवानन्तं कालं द्विधा प्ररूपयति–कालतः क्षेत्रतश्च / तत्र कालतोऽनन्ता उम्सर्पिण्यवसर्पिणीवत्, क्षेत्रतोऽपार्द्ध पुद्रलपरावर्त देशोनम् / अत्र क्षेत्रत इति निर्देशात् क्षेत्रपुद्गलपरावर्तः परिग्राह्यो नं तु द्रव्यपुद्गलपरावर्तादयः / एवं पूर्वोत्तरत्रापि च भावनीयम्। (सम्मामिच्छादिट्टी णमित्यादि) सम्यग्मिथ्या च दृष्टिर्यस्यासी सम्यग्मिथ्यादृष्टिः। स च जघन्यतोवोत्कर्षतो वा अन्तर्मुहूर्त, परतोऽवश्यं तत्परिणामविध्वंसात्, तथाजीवस्वाभाव्यात्। गतं सम्यक्त्वद्वारम्। (14) इदानीं ज्ञानदरम्नाणी णं भंते ! नाणि त्ति कालओ केव चिरं होइ ? गोयमा ! नाणी दुविहो पण्णत्ते / तं जहा-सादिए वा अपज्जवसिए, सादिए वा सपज्जवसिए। तत्थ णं जे से सादिए सपज्जवसिए से जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं छावडिं सागरोवमाइं सातिरेगाई। आमिणिबोहियनाणी णं पुच्छा ? गोयमा ! एवं चेव / एवं सुयनाणी वि। ओहिनाणी वि एवं चेव, नवरं जहन्नेणं एक समयं / मणपज्जवनाणीणं भंते ! पुच्छा? | गोयमा! जहन्नेणं एगं समयं, उकोसेणं देसूणं पुव्वकोडिं | (नाणी णं भंते! इत्यादि) ज्ञानमस्यास्तीति,"अतोऽनेकस्वरात्" // 726 // इति इन्प्रत्ययः / स द्विधा-साद्यपर्यवसितः, सादिसपर्यवसितश्च / तत्र केवलज्ञानापेक्षया साद्यपयर्वसितः, प्रतिपाताभावात्, शेषज्ञानानां प्रतिनियतकालभावात् स जघन्येनान्तर्मुहूर्त , परतो मिथ्यात्वगमनेन ज्ञानपरिणमापगमात्। उत्कर्षतः षट् षष्टिसागरोपमाणि सातिरेकाणि यावत्तानि सम्यग्टेरिव भावनीयानि, सम्यग्ष्टरेव ज्ञानित्वात्। अभिनिबोधिकज्ञानिसूत्रे-(एवं चेव त्ति)यथा सामान्यतो ज्ञानी तथाऽऽभिनिबोधिकोऽपि वक्तव्यः। स चैवं "जहन्नेणं अंतोमुहत्तं उक्कोसेणं छावट्ठीसागरोवमाई"। एवं श्रुतज्ञान्यपि / अवधिज्ञान्यप्येवम् नवरं जघन्यत एकं समयं वक्तव्यम् / कथमेकसमयताऽवधिज्ञानसयेति चेत् ? उच्यते-इह तिर्यक्पञ्चेन्द्रियो मनुष्यो देवो वा विभङ्गज्ञानी सन्सम्यक्त्वं प्रतिपद्यते, तस्य च सम्यक्त्वप्रतिपत्तिसमये एव सम्यक्त्वप्रभावतो विभङ्गज्ञानमवधिज्ञानं जातं, तच्च यदा देवस्य च्यवनेन मरणेनान्यस्यान्यथा वाऽनन्तरसमये प्रतिपतितस्तदा भवत्यवधिज्ञानस्यैकसमयता; उत्कर्षतः सातिरेकाणि षट् षष्टिसागरेपमाणि, यावत्तानि वा प्रतिपतितावधिज्ञानस्य वारद्वयं विजयादिषु गमनेनवारत्रयमच्युतदेवलोकगमने तथा वेदितव्यानि / मनःपर्यवज्ञानिन एक समयता संयतस्याप्रमत्ताद्धायां वर्तमानस्य मनःपर्यवज्ञानमुत्पाद्यानन्तरसमये कालं कुर्वता भावनीया; उत्कर्षतो देशोना पूर्वकोटी; तत ऊर्द्ध संयमाभावतो मनःपर्यवज्ञानस्याऽप्यभावान्। केवलनाणी णं पुच्छा? गोयमा ! सादिए अपज्जवसिए। अन्नाणी णं पुच्छा? गोयमा ! अन्नाणी,मतिअन्नाणी सुयअन्नाणी तिविहे पन्नत्ते / तं जहा-अणादिए वा अपञ्जवसिए, अणादिए वा सपज्जवसिए, सादिए वा सपञ्जवसिए / तत्थ णं जे से सादिए सपज्जयसिए से जहन्नेणं अंतोमुहत्तं उक्कोसेणं अणंतं कालं अणंताओ ओसप्पिणिउस्सप्पिणीओ कालओ, खेत्तओ अवर्ल्ड पोग्गलपरियट्ट देसूणं / विभंगनाणी णं पुच्छा ? गोयमा ! जहन्नेणं एगं समयं उक्कोसेणं तेत्तीसं सागरोवमाई देसूणाए पुटवकोडीए अमहियाइं। अज्ञानी त्रिविधः / तद्यथा-अनाद्यपर्यवतिः, अनादि-सपर्यवसितः, सादिसपर्यवसितश्च / तत्र यस्य न कदाचनापि ज्ञानलाभो भावी सोऽनाद्यपर्यवसितः। यस्तु ज्ञानमासादयिष्यति सोऽनादिसपर्यवसितः / यः पुननिमासाद्य भूयो मिथ्यात्वगमनेनाज्ञानित्वमधिगच्छति स सादिसपर्यवसितः। स च जघन्येनान्तर्मुहूर्त परतः सम्यक्त्वस्यासादनेनाज्ञानित्व-परिणामापगमसम्भवात्, उत्कर्षतोऽनन्तं कालमित्यादि प्राग्वत्; तत ऊर्द्धमवश्यं सम्यक्त्वावाप्रज्ञानित्वापगमात्। एवं मत्यज्ञानी श्रुताज्ञानी च त्रिविधो भावनीयः / विभङ्गज्ञानी जघन्यत एकं समयम्। कथमिति चेत् ? उच्यते-कश्चित् तिर्यक्पञ्चेन्द्रियो मनुष्यो देवो वा सम्यग्दृष्टित्वादवधिज्ञानी सन् मिथ्यात्वं गतः, तस्मिंश्च मिथ्यात्वप्रतिपत्तिसमये मिथ्यात्वप्रभावतोऽवधिज्ञानं विभङ्ग ज्ञानभूतमाद्यत्रयमज्ञानमपि भवति, मिथ्यात्वसंयुक्तमिति वचनात; ततोऽनन्तरसमये देवस्य मरणेनान्यथा वा तद्विभङ्गमज्ञानं परिपतति, तत एवमेकसमयता विभङ्गज्ञानस्य उत्कर्षतस्त्रयास्त्रिंशत्सागरोपमाणि देशोनपूर्वकोट्यभ्यधिकानि / तथाहि-यदि कश्चिन्मिथ्या-दृष्टिस्तिर्यक्पञ्चेन्द्रियो मनुष्यो पूर्वकोट्यायुः कतिपयवर्षातिक्रमे विभङ्गज्ञानी जायते, जा तश्च सन्नप्रति पतितविभङ्गज्ञान एवाविग्रहगत्या सप्तमनरकपृथिव्यां त्रयस्त्रिंशत्सागरोपमस्थितिको नैरयिको जायते, तदा भवति यथोक्तमुत्कृष्टमा