________________ कायट्ठि 457 - अभिधानराजेन्द्रः - भाग 3 कायट्ठि (12) अधुना लेश्याद्वारमाहसलेस्से णं भंते ! सलेस्से त्ति पुच्छा? गोयमा! सलेसे दुविहे पण्णत्ते / तं जहा-अणादिए वा अपज्जवसिए, अणादिय वा सपञ्जवसिए। कण्हलेस्से णं भंते ! पुच्छा? गोयमा ! जहन्नेणं | अंतोमुहुत्तं, उक्कोसेणं तेत्तीसं सागरोवमाइं अंतोमुहुत्तमन्भहियाई / नीललेसे णं भंते ! नीललेसे त्ति पुच्छा? गोयमा ! जहन्नेणं अंतोमुहत्तं, उक्कोसेणं दस सागरोवमाइं पलिओवमासंखेज्जइ-भाग महियाई। काउलेसे णं भंते ! पुच्छा? गोयमा ! जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं दो सागरोवमाई पलिओवमासंखिज्जइभागमभहियाइं / तेउलेस्से णं भंते ! पुच्छा ? गोयमा ! जहनेणं अंतोमुहुत्तं, उक्कोसेणं दो सागरोवमाई पलिओवमासंखिज्जइभागमभहियाइं / पम्हलेसे णं भंते ! पुच्छा? गोयमा! जहन्नेणं अतोमुहुत्तं उक्कोसेणं दस सागरोवमाइं अंतोमुहुत्तममहियाइं / सुक्कलेस्से णं पुच्छा ? गोयमा! जहन्नेणं अंतोमुहत्तं, उक्कोसेणं तेत्तीसं सागरोवमाई अंतोमुहुत्तमब्भहियाई। अलेसे णं पुच्छा? 1गोयमा! सादिए अपज्जवसिए। (सलेस्से णं भंते ! इत्यादि) सह लेश्या यस्य येन वा ससलेश्यः / स द्विविधः प्रज्ञप्तः / तद्यथा-अनादिरपर्यवसितः- यो न जातुचिदपि संसारव्यवच्छेदकर्ता / अनादिसपर्यवसितः- यः संसारपारगामी। (कण्हलेस्सेणं भंते! इत्यादि) इह तिरश्चां मनुष्याणांचलेश्याद्रव्याण्यन्तमौ हूर्तिकानि ततः परमवश्यं लेश्यान्तरपरिणामं भजते / देवनैरयिकाणां तु पूर्वभवचरमान्तर्मुहूर्तादारभ्य परभवाद्यमन्तमुहूर्त यावदवस्थितानि, ततः सर्वत्रज घन्यममन्तर्मुहूर्त तिर्यअनुष्यापेक्षया द्रष्टव्यम्; उत्कृष्ट देवनैरयिकापेक्षया विचित्रमिति भाव्यते। तत्र विचित्रमिति यदुक्तं त्रयस्त्रिंशत्सागरोपमाणि अन्तर्मुहूर्त्ता भ्यधिकानीति, ततः सप्तमनरकपुथिव्यपेक्षया द्रष्टव्यम् / तत्रत्या हिनैरयिकाः कृष्णलेश्याकाः, तेषां च स्थितिरुत्कृष्टा त्रयस्त्रिंशत्सागरोपमाणि; यत्तु पूर्वोत्तरभवगतो यथाक्रमं चरमाद्यौ अन्तर्मुहूर्ते, ते द्वे अप्येकमन्तर्मुहूर्तस्यासंख्यातभेदभिन्नत्वात्। तथाचान्यत्राप्युक्तम्-"मुहत्तद्धं जहन्ना, तित्तीसं सागरा मुहुत्तहिया / उक्कोसा होइठिई, नायव्वा कण्हलेस्साए''19 (अन्तोमुत्तहिया इति) चूर्णिकृता व्याख्यातमन्तमुहूर्ताधिकेति / नीललेश्यासूत्रेयानिदश सागरोपमाणि पल्योपमासंख्येयभागाभ्यधिकान्युक्तानि तानि पञ्चमपृथिव्यपेक्षया। दितव्यानि / तत्र हि प्रथमप्रस्तटे नीललेश्या, "पंचमियाए मीसा" इति वचनात्। तस्मिंश्च प्रथमप्रस्तटे स्थितिरुत्कर्षत एतावती। ये तुपूर्वोत्तरभवगते अन्तर्मुहूर्ते, ते पल्योपमासंख्येयभागे एवान्तर्गते इति न पृथग विवक्षिते। एवमुत्तरत्रापि द्रष्टव्यम्। कापोतलेश्यासूत्रेत्रीणि सागरोपमाणि फ्ल्योपमासंख्येयभागाभ्यधिकानि तृतीयनरकपृथिव्यपेक्षयाऽवसातव्यानि: तृतीयपृथिव्यामपि प्रथमप्रस्तटे कापोतलेश्याया भावात् ,"तइयाए मीसिया'' इति वचनात् / तत्र चोत्कृष्टस्थितेरेतावत्याः संभवात्। तेजोलेश्यासूत्रे-द्वे सागरोपमपल्योपमासंख्येयभागाभ्यधिके ईशानदेवलोके देवापेक्षया वेदितव्या हि तेजोलेश्याका उत्कर्षत एतावत्स्थितिकाश्च / पद्मलेश्यासूत्रे-दशसागरोपमाणि अन्तर्मुहूर्ताभ्यधिकानि ब्रह्मलोकापेक्षया भावनीयानि / तत्र देवानां हि स्थितिरुत्कृष्टा दश सागरोपमाणि, लेश्या चपालेश्या। ये च पूर्वोत्तरभगवते अन्तर्मुहूर्ते ते किलैकमन्तर्मुहूर्तमिति अन्तर्मुहूर्ताभ्यधिकानीत्युक्तम्। शुक्ललेश्यासूत्रे-त्रयस्त्रिंशत् सागरोपमाणि अन्तर्मुहूर्ताभ्यधिकानि अनुत्तरसुरापेक्षया, तेषामुत्कर्षतः स्थितेस्त्रयस्त्रिंशत्सागरोपमप्रमाणत्वात्।अन्तर्मुहूर्ताभ्यधिकत्वभावना च प्राग्वत्। अलेश्योऽयोगिकेवली सिद्धश्च, ततो न तस्यामप्यवस्थायामलेश्यत्वव्याघात इति साद्यपर्यवसितः / गतं लेश्याद्वारम्। (13) इदानीं सम्यग्दृष्टिद्वारम् - सम्मट्ठिीणं भंते ! सम्मदिहि त्ति पुच्छा ? गोयमा ! सम्मद्दिट्ठी दुविहे पण्णत्ते / तं जहा-सादिए वा अपञ्जवसिए, सादिए वा सपज्जवसिए। तत्थ णं जे से सादिए सपञ्जवसिए, स जहण्णेणं अंतोमुहत्तं, उक्कोसेणं छावहिँ सागरोवमाइं सातिरेगाई। मिच्छादिट्ठीणं भंते ! पुच्छा ? | गोयमा ! मिच्छादिट्ठी तिविहे पण्णत्ते / तं जहा-अणादिए वा अपज्जवसिए, अणादिए वा सपज्जवसिए। सादिए वा सपज्जवसिए / तत्थ णं जे से सादिए सपज्जवसिए, स जहण्णेणं अंतोमुहत्तं, उक्कोसेणं अणंताओ ओसप्पिणि उस्सप्पिणीओ कालओ, खेत्तओ अवड्व पोग्गलपरियट्ट देसूणं / सम्मामिच्छदिट्ठीणं पुच्छा? गोयमा ! जहण्णेण वि उक्कोसेण वि अंतोमुहुत्तं // (सम्मद्दिट्ठी णं भंते ! इत्यादि) सम्यगविपर्यस्ता दृष्टिर्जिनप्रणीतवस्तुतत्त्वप्रतिपत्तिर्यस्य स सम्यग्दृष्टिः / स चान्तरकरणकालभाविना उपशमिकसम्यक्त्वेन सास्वादनसम्यक्त्वेन विशुद्धदर्शनमोहपुञ्जोदयसंभविक्षायोपशमिकसम्यक्त्वेन सकलदर्शनमोहनीयक्षयसमुत्थक्षायिक सम्यक्त्वेन वा द्रष्टव्यः / निर्वचनम् सम्यग्दृष्टिर्द्विविधः प्रज्ञप्तः / तद्यथा साद्यपर्यवसितः एष क्षायिके सम्यक्त्वे उत्पादिते सति वेदितव्यः, तस्य प्रगतिपाताभावात् / सादिसपर्यवसितः एष क्षायोपशमिकादिसम्यक्त्वापेक्षया / तत्र योऽसौ सादिसपर्यवसितः सम्यग्दृष्टिर्जधन्येनान्तर्मुहर्त, परतो मिथ्यात्वगमनात्; उत्कर्षतः षट् षष्टिसागरोपमाणि सातिरेकाणि / तत्र यदि वारद्वयं विजयादिषु चतुर्षु अप्रतिपतितसम्यक्त्व उत्कृष्टस्थितिका देव उत्द्यते वेलात्रयं वाऽच्युतलोके, ततो देवभवैरेवषट् षष्टि- सागरोपमाणि परिपूर्णानि भवन्ति। ये तुमनुष्यभवाः सम्यक्त्वसहितास्तेऽधिका इति तैः सातिरेकाणीति उक्तं च "दो बारे विजयाइसु, गयस्स तिन्निचुए अहव ताई। अइरेग नरभक्यिमिति।। (मिच्छादिट्ठीणं भंते ! इत्यादि) मिथ्या विपर्यस्ता दृष्टिर्जी वाजीवादिवस्तुतत्त्वप्रतिपत्तिय॑स्य भक्षितहृत्पूरपुरुषस्य सिते पीतप्रतिपत्तिवत् स मिथ्यादृष्टिः, ननु मिथ्यादृष्टिरपि कश्चिद्भक्ष्यं भक्ष्यतया जानाति पेयं पेयतया मनुष्य मनुष्यतया पशुं पशुतया, ततः य कथं मिथ्यादृटिरुच्यते ?; भगवति सर्वज्ञत्वस्य प्रत्ययाभावात् / इह हि भगवदर्हत्प्रणीतं सकलमपि प्रवचनार्थमभिरोचयमानोऽपि यदि तद्गतमेकमप्यक्षरं न रोचयति तदानीमन्येषां मिथ्यादृष्टिरेवोच्यते, तस्य भगवति सर्वज्ञप्रत्ययनाशात्।