________________ कायट्ठि 456 - अभिधानराजेन्द्रः - भाग 3 कायट्टिइ ततो यथोक्त प्रमाणैवोत्कृष्टा स्थितिः स्त्रीवेदस्याऽवाप्यते / द्वितीयादेशवादिनः पुनरेवमाहुःनारीषु तिरश्चीषु वा पूर्वकोट्यायुष्कासु मध्ये पञ्चषान् भवान् अनुभूय पूर्वप्रकारेणेशाने देवलोकेषु वारद्वयमुत्कृष्ट-- स्थितिकासुदेवीषु मध्ये उत्पद्यमाना नियमतः परिगृहीतास्वेवोत्पाद्यते नापरिगृहीतासु। ततस्तन्मतेनोत्कृष्टमवस्थानं स्त्रीवेदस्याष्टादशपल्योपमानि पूर्वकोटिपृथक्त्वं च / तृतीयादेशवादिनां तु-सौधर्मदेवलोके परिगृहीतासु सप्तपल्योपमसप्रमाणोत्कृष्टासु वारद्वयं समुत्पद्यते, ततस्तन्मतेन चतुर्दशपल्योपमानि पूर्वकोटिपृथक्त्वाभ्यधिकानि स्वीवेदस्य स्थितिः / चतुर्थादेशवादीनां तु मतेन-सौधर्मदेवलोके पञ्चाशत्पल्योपमप्रमाणोत्कृष्टायुष्कास्वपरिगृहीतदेवीष्वपि पूर्वप्रकारेण वारद्वयं देवीत्वेनोत्पद्यते, ततस्तन्मतेन पल्योपमशतपूर्वकोटिपृथक्त्वाभ्यधिकमवाप्यते / पञ्चमादेशवादिनः पुनरिदमाहुःनानाभवभ्रमणद्वारेण यदि स्त्रीवेदस्योत्कृष्ट मवस्थानं चिन्त्यते, तर्हि पल्योपमपृथक्त्वमेव पूर्वको टिपृथक्त्वाभ्यधिकं प्राप्यते, न ततोऽधिकम् / कथमेतदिति चेत्? उच्यतेनारीषु तिरश्चीषु वा पूर्वकोट्यायुष्कासु मध्ये सप्तभवाननुभूयाष्टमभवे देवकृर्वादिषु त्रिपल्योपमस्थितिषु स्त्रीषु मध्ये स्त्रीत्वेन समुत्पद्यते; ततो मृत्वा सौधर्मदेवलोके जघन्यस्थितिकासु देवीषु मध्ये देवीत्वेनोपजायते, तदनन्तरं चावश्यं वेदान्तरमधिगच्छतीति। अमीषांच पञ्चानामादेशानामन्यतमादेशसमीचीनता निर्णयोऽतिशयज्ञानिभिः सर्वोत्कृष्टश्रुतलब्धिसम्पन्नैर्वा कर्तुं शक्यते।तेच भगवदार्यश्यामप्रतिपत्तौ नासीरन्, केवलं तत्कालापेक्षया ये पूर्वतमाः सूरयस्तत्कालभाविग्रन्थपौर्वा पर्यालोचनया यथास्वमति स्त्रीवेदस्य स्थिति प्ररू पितवनतः, तेषां सर्वेषामपि प्रावचनिकसूरीणं मतानि भगवानार्यश्याम उपदिष्टवान् / तेऽपि च प्रावचनिकसूरयः स्वमतेन सूत्रं पठन्ते गौतमप्रश्नं भगवन्निर्वचनरूपतया पठन्ति; ततस्तदवस्थान्येव सूत्राणि लिखितानिगोयमा ! इत्याद्युक्तम्। अन्यथा भगवति गौतमाय निर्दिष्टरि न संशयकथनमुपपद्यते, भगपवतः सकलसंशयावीतत्वात्। पुरिसवेदे णं भेते ! पुरिसवेदेत्ति पुच्छ ? गोयमा ! जहण्णेणं अंतोमुहुत्ते उक्कोसेणं सागरोवमसयपुहत्तं सातिरेगं / पुरुषवेदसूत्रे-जधन्यतोऽन्तर्मुहमर्त्तमिति / यथा कश्चिदन्यवेदेभ्यो जीविग्य उद्वृत्त्य पुरुषवेदेषुत्पद्य तत्र चान्तर्मुहूर्तं सर्वायुर्जीवित्वा गत्यन्तरे अन्यवेदेषु मध्ये समुत्पद्यते, तदा पुरुषवेदस्य जघन्यतोऽन्तर्मुहूर्तमयस्थानं लभ्यते। उत्कृष्टमा नं कण्ठ्याम्। नपुंसगवेदए णं भंते ! पुच्छा? गोयमा ! जहण्णेणं एग समयं उक्कोसेणं वणस्सइकालो। नपुंसक्वेदसूत्रे-जघन्यत एकः समयः स्त्रीवेदस्यैव भावनीयः, उत्कर्षतो वनस्पतिकालः; स च प्रागेवोक्तः। एतच्च सांव्यवहारिकजीवानधिकृत्य चिन्ता क्रियते / तदा द्विविधा नपुंसकवेदाता कांश्चिदधिकृत्यानाद्यपर्यवसानाः; ये न जातुचिदापि सांव्यहारिकराशौ निपतिष्यन्ति / कांश्चिदधिकृत्य पुनरनादिसपर्यवसानाः; येऽसांव्यवहारिकराशेरुद्वृत्त्य सांव्यवहारिकराशावागमिष्यन्ति / अथ किमसांव्यवहारिकराशेरपि विनिर्गत्य सांव्यवहारिकराशावागच्छन्ति येनैवं प्ररूपणा क्रियते ? उच्यते-आगच्छति। कथमेतदवसेयमिति चेत्? उच्यते-पूर्वाचार्योपदेशात् / तथाचाह दुःषमान्धकारनिमनजिनप्रवचनप्रदीपो भगवान्"सिज्झंति जत्तिया किर, इह संयवहारजीवरासीओ / इति अणाइवणस्सइरासीओ तत्तिया तम्मि"||१|| अवेदकपृच्छामाहअवेदे णं भंते ! अवेदे त्ति पुच्छा? गोयमा ! अवेदे दुविहे पण्णत्ते / तं जहा साइए अपज्जवसिए वा, साइए सपज्जवसिए वा। तत्थणजे ते साइए सपज्जवसिए से जहन्नेणं एग समयं उक्कासेणं अंतोमुहुत्तं। अवेदका द्विधा-साद्यपर्यवसितः, सादिसपर्यवसितश्च / तत्र यः क्षपकश्रेणिं प्रतिपद्यावेदको भवति स साद्यपर्यवसितः क्षपक श्रेणिः, सच जघन्येनैकं समयम् / कथमेकयमयतेति चेत् ? उच्यते-यदा एकसमयवेदको भूत्वा द्वितीयसमये पञ्चत्यमुपगच्छति, तदा तस्मिन्नेय पञ्चत्वसमये देवेषूत्पन्नः पुरुषवेदोदयेन सवेदको भवति तत एवं जघन्यत एकं समयमवेदक उत्कर्षतोऽर्मुहूत्तम्, परतोऽवश्यं श्रेणीतः प्रतिपतने वेदोदयसद्भवात्। गतं वेदद्वारम्। प्रज्ञा०१८ पद। ज्यो। (11) इदानीं कषायद्वारं, तत्रेदमादिसूत्रम्सकसाई णं भंते ! सकसाइ त्तिकालओ केव चिरं होइ ? गोयमा ! सकसाई तिविहे पण्णत्ते / तं जहा-अणादिए अपञ्जवसिए, अणादिए सपञ्जवसिए, सादिए सपज्जवसिए जाव अवडं पोग्गलपरियट्ट देसूणं / कोहकसाई णं भंते ! पुच्छा ? गोयमा ! जहन्नेण वि उक्कोसेण वि अंतोमुहुत्तं / एवं जाव माणमायाकसाई णं / लोमकसाई णं भंते ! पुच्छा ? गोयमा ! जहन्नेणं एवं समयं उक्कोसेणं अंतोमुहुत्तं / अकसाई णं भंते ! अकसाइ त्तिकालओ केव चिरं होइ ? गोयमा अकसाई दुविहो। पण्णत्ते तं जहा-सादिए वा अपज्जवसिए, सादिएवा सपज्जवसिए। तत्थ णं जे ते सादिए सपज्जवसिए, से जहण्णेणं एगं समय उकोसेणं अंतोमुहुत्तं // सह कषायो येषां यैर्वा ते सकषाया जीवपरिणामविशेषाः, ते विद्यन्ते यस्य स सकषायी। इदं सकलमपि सूत्रं सवेदसूत्रवद्विशेषेण भावनीयम्, समानभावनोक्तत्वात्। (कोहकसाई णं भंते इत्यादि) जघन्यतोऽप्यन्तर्मुहूर्तमिति, क्रोधकषायोपयोगस्य जघन्यत उत्कर्षतो वाऽन्तर्मुहूर्तप्रमाणत्वात् तथाजीवस्वाभाव्यात् / इदं च सूत्रचतुष्टयमपि विशिष्टोपयोगापेक्षमिति / लोभकषायी जधन्येनैकं समयमिति, यदा कश्चिदुपशमश्रेणिपर्यवसाने उपशान्तवीतरागो भूत्वा श्रेणितः प्रतिपतन् लोभानुवेदन-प्रथमसमये सवेदन एव कालं कृत्वा देवलोके धुत्पद्यते, तत्र चोत्पन्नः सन् क्रोधकषायी मायाकषायी भवति, तदैकसमये लोभकषायी लभ्यते / अथैवं क्रोधादिश्वप्येक समयता कस्मान्न लभ्यते ?! उच्यतेतथास्वभाव्यात् / तथाहि-श्रेणितः प्रतिपतन् मध्यानुवेदनप्रथमसमये वा यदि कालं करोति, कालं च कृत्वा देवलोकेषूत्पद्यते,तथापि तथास्वभाव्यात् येन कषायोदयेन कालं कृतवान् तमेव कषायादयं तत्रापि गतः सन्नन्तर्मुहूर्तमेव वर्तयति, एतचावसीयते अधिकृतसूत्रप्रामाण्यात्, ततो नैकसमयता क्रोधादिष्विति।अकषायसूत्रमवेदसूत्रमिव भावनीयम्।गतं कषायद्वारम।